________________
२. आर्यरक्षितचरितम् ।
गुरुणाऽऽप्रच्छि किं नग्नस्तात'! 'सोऽप्युत्तरं ददौ । उपसर्गः समुत्तस्थौ त्वद्वचो 'ह्यनृतं नहि ॥ १७९ ॥ स न्यषेधि मया दाढादेवंवादिनि तत्र च । शाटकं पृथुलं दीर्घ गृहाणेत्यथ तेऽवदन् ॥ १८० ॥ तदाकर्ण्य पिता प्राह द्रष्टव्यं दृष्टमेव यत् । को नः परिग्रहस्तस्मान् नान्यमेवास्त्वतः परम् ॥ १८१ ।। एवं प्रायः प्रपञ्चैश्चावलेपान् पर्यहापयन् । गुरवो न तु भैक्ष्येऽस्य मनः शक्ता नियोजितुम् ।। १८२ ।। एवं *त्ववकरं नायं त्यजति प्रभुणापि च । अनेकश उपायैस्तैः सुपरिच्छेदितोऽपि सन् ॥ १८३॥ 5 कदाचिदायुः क्षीयेतास्माकं तन्निस्तरिष्यति । कथं जरन्नसौ तस्माद् भिक्षां ग्राह्यः कथंचन ॥ १८४ ॥ ध्यात्वेति शिक्षयन्ति स्म रहस्ते मुनिपुङ्गवान् । मण्डल्यां' नास्य दातव्य आहारो भोज्यमेककैः॥ १८५॥ अरुच्यमपि चित्तस्य तथा ते प्रतिपेदिरे । तेभ्यो गुरुवचःश्रद्धानिष्ठेभ्योऽस्तु नमो नमः ॥ १८६ ॥ विहारं चक्रुरन्यवान्यदा ते गुरवो बहिः । मण्डल्यां यतयो न न्यमन्त्रयन्त जरन्मुनिम् ॥ १८७ ॥ घ्यढे गुरव आजग्मुरायं च समभाषयन्" । ततः प्रमन्युराहासौ श्रूयतां सुत ! मद्वचः ॥ १८८ ॥ 10 दिनानि चेद् बहूनि त्वमवास्थास्यो बहिभुवि । अकालेऽपि तदा प्राणान् पर्यत्याक्ष्यमहं ध्रुवम् ॥ १८९॥ मुनयोऽमी त्वदादिष्टा अपि वार्ता न मामकाम् । वहन्ति हेतो! वेद्मि तन्न कस्याप्यहं प्रभो"! ॥ १९०॥ ततस्ते कृतकक्रोधाद् विनेयानूचिरे चिरम् । तातः कथं भवद्भिर्न भोजनेन निमत्रितः ॥ १९१ ॥ ते प्राहुः पूज्यपादेभ्यो विना नः शून्यचेतसाम् । झूणं पितितमेवैतत् क्षन्तव्यं बालचेष्टितम् ॥ १९२ ॥ श्रुत्वेति तद्वचः प्राहुः सूरयः श्रूयतां पितः !। न विधेया परस्याशा मूलहेतुः पराभवे ।। १९३ ॥ 15 वयं त्वदुचिताहारान्वेषणाय स्वयं ननु । यास्यामः कीदृशोऽमीषां पाटो ब्रीडावहः स्फुटम् ॥ १९४ ॥ इत्युक्त्वा स्वयमुत्थायादाय चाथ स्वपात्रकम् । चेलुस्तावच्च वर्षीयानाह साहसवद् वचः ॥ १९५ ।। अहमेव प्रयास्यामि भिक्षायै किं मयि स्थिते । वत्स" ! गच्छपतिस्त्वं हि भिक्षुभिक्षां भ्रमिष्यसि ॥१९६॥ इत्युक्त्वा मंक्षु सोत्साहः" प्रतिषिद्धोऽपि सूरिभिः । सपात्रः संचचालासौ प्राप्तश्चेभ्यस्य मन्दिरम् ॥१९७॥ अपद्वारा प्रविष्टोऽसौ भिक्षाशिक्षास्वनिष्ठितः । मूलद्वारा कथं नागा गृहिणेत्युदितस्ततः ॥ १९८ ॥ 20 आयातीह" शुभा लक्ष्मीरपद्वाराऽपि धार्मिक ! । श्रुत्वेति स गृही दध्यौ वृद्धस्तत्कालधीरयम् ॥ १९९ ॥ द्वात्रिंशन्मोदकांस्तेन तुष्टेन प्रतिलाभितः । आगत्योपाश्रये सूरेः" पुरश्वालोचयत् ततः ।। २००॥ गुरुणा प्रथमे लाभे शकुनोऽत्र विचारितः । द्वात्रिंशत्संख्यया शिष्या भविष्यन्ति ममानुतः ॥२०१॥ अपृच्छच्च पुनस्तात ! यदा राजकुलाद् धनम् । लब्धा ततो भुक्तशेष ददध्वं कस्य भावतः ।। २०२ ।। आर्योऽप्याह गुणोदग्रश्रोत्रियेभ्यः प्रदीयते । ||सत्पात्रेभ्यो यतो दत्ता लक्ष्मीः सुकृतभूर्भवेत् ॥ २०३ ॥ 25 प्रधानाः साधवोऽस्मञ्च वैयावृत्त्यादिसद्गुणैः । अमीषां देहि तत् तात ! जन्म खं सफलं कुरु ॥ २०४॥ वालग्लानादिसाधूनामानीतं चेन्मयाशनम् । उपकारि भवेदेषां किं न लब्धं मयात्र तत् ॥ २०५ ॥
एवं वदन्नसौ वृद्धो भिक्षायामादरं वहन् । परमाराध्यतां प्राप्तो गच्छे दानैकशुद्धधीः ॥ २०६॥ ६१०. तत्र गच्छे त्रयः" पुष्यमित्राः सुत्रामतेजसः । स्वप्रज्ञाज्ञातशास्त्रार्थाः सन्ति सन्तोषभूमयः ॥२०७॥
घृतपूर्वस्तेषु पूर्वो वस्त्रपूर्वो द्वितीयकः । सुधीदुर्बलिकापूर्वः पुष्यमित्रस्तृतीयकः ॥ २०८ ॥ 30
1N तातः। 2 Cयो। 3C नानृतं क्वचित् ; A नानृतं महि। * 'उकर' इति B टि.। 4 B'करान्नायं । 5A परिच्छेदतो। 6 ACनः। 7 N मण्डल्या । 8 N ततो।9 B राज्यं च। 10C भापयन् । 11C प्रभोः। । 'वरांसु पडिउ' इति B टि.। 'लज्जाहीन' इति B टि। 'वृद्ध बोलिउ' इति B टि। 12 A वच्छ । ' 'शीघ्रं यास्यामि' इति B टि.। 13 A B सोत्साह; N सोत्साहं । 14 B आयांतीह। 15 B धामिकः; C धार्मिमकं । 16 C सूरिः । || पात्र त्यागी गुणे रागी भोगी परजनैः सह । शास्त्रे बोद्धा रणे योद्धा पुरुषः पंचलक्षणः ॥१॥ इति B टिप्पणी । 17 A त्रयं । 'इंद्र सरीषा तेजिइ छई' इति B टि.। 18 A पूर्व ।