________________
१४
प्रभावकचरिते
10
15
प्राप्तः' श्रीवज्रपादान्तमपुण्यैरतिदुर्लभम् । अधीतपूर्वपूर्वाङ्गः पुनरागां त्वदन्तिके ॥ १४७ ॥ सपरीवारया तस्मात् स्वकीयोपक्रमात् त्वया । व्रतान्महांगतः पारं प्राप्यं भवमरोर्बुवम् ॥ १४८ ।। पुरोहितप्रिया प्राह वदति स्म ऋजुर्द्विजः । आर्त्या व्यग्रा कुटुम्बस्य नैषा व्रतभरक्षमा ॥ १४९॥ शीघ्रं दीक्षख मां पूर्व परिवारोऽपि यो मयि । 'निबिडस्नेहभूः सोऽपि मामनु प्रव्रजिष्यति ॥ १५० ।। अथार्यरक्षितस्तातमाहाम्बाया वचः श्रुतम् । इह लोके भवांस्तीथं तत् त्वदुक्तं करोम्यहम् ॥ १५१ ॥ उपतस्थे च दीक्षायामहंपूर्विकया तदा । श्रोत्रियस्य परीवारः स्नेहादेवेतरेतराम् ॥ १५२॥
अपनीय ततस्तेषां केशपालीमनालयः । सामायिकं ददौ यौगपद्येन प्रणिधानतः ॥ १५३ ॥ ६९. वेषः स्थविरकल्पस्य सर्वैस्तैर्निर्विचारतः । जगृहे जीर्णभावात्तु सोमदेवस्तदाऽवदत् ॥ १५४ ॥
वत्स ! 'कच्छाभिसंबद्धं ममास्तु परिधानकम् । नग्नैः शक्यं किमु स्थातुं स्वीयात्मजसुतापुरः ॥ १५५ ।। इत्याकर्ण्य गुरुर्दध्यौ दुष्करं चिन्त्यमस्त्यदः । अथवाऽस्तु समाचारमादाप्योऽयं शनैः शनैः ॥ १५६ ॥ आहाथ मम तातस्याभिप्रायः परिपूर्यताम् । स च प्राह गुरुस्तेऽहं स्वाभिप्रेतं वदामि तत् ॥ १५७ ।। उपानहौ मम स्यातां तथा करकपात्रिका । छत्रिकाऽथोपवीतं च यथा कुर्वे तव व्रतम् ॥ १५८॥ पादयोः शिरसस्तापस्तथा न स्यात् तथा शुचिः। भवाम्यूढं यदाजन्म तत् त्यक्तुं हि 'न शक्यते ॥ १५९ ॥ अनिषिद्धानुमत्यानुमेने सूरिस्तदाग्रहम् । स्वाध्यायं तु स्वयं शिक्षयन्ति स्म पितरं स्वकम् ॥ १६० ॥ श्राद्धानां शावरूपाणि गुरूणां शिक्षयाऽन्यदा । चैत्येषु गच्छतः साधून प्रणामायोपतस्थिरे ॥ १६१ ॥ सर्वानपि प्रणंस्यामो मुक्त्वा छत्रधरं मुनिम् । उपाश्रयागतोऽपृच्छदवन्द्यः किमहं सुत" ! ॥ १६२ ॥ तात" ! किमेवं वन्द्यः स्यान्मुश्च छत्रं तथापि हि । पटं शिरसि देयास्त्वमुष्णताप उपस्थिते ॥ १६३ ॥ एवं भवत्विति प्राह वृद्धः स्नेहात् सुतप्रभोः । इत्थं स त्याजितो वाग्भिस्तेनालु पादुके अपि ॥ १६४ ।। अनुष्णक्षणबाह्योर्वीगामिन् ! मुक्तपरिग्रह ! । उपवीतेन किं बाह्यजनप्रत्यायकेन ते ॥ १६५ ॥ इति को वा न जानाति यद् वयं द्विजसत्तमाः । एवं शनैः स गार्हस्थ्यवेषं संत्याजितस्तदा ॥ १६६ ॥ पूर्वरीत्याऽन्यदा बालाः “परिधानकृतेऽवदन् । स ब्रह्मतेजसाऽऽदीप्तस्तदाह पृथुकान् प्रति ॥ १६७ ।। नग्नो न स्यामहं यूयं मा वन्दध्वं सपूर्वजाः । स्वर्गोऽपि सोऽथ मा भूयाद् यो भावी भवदर्चनात्॥१६८।। अन्यदाऽनशनात् साधौ परलोकमुपस्थिते । संज्ञिता मुनयो देहोत्सर्गाय प्रभुणा दृढम् ॥ १६९ ॥ गीतार्था यतयस्तत्र क्षमाश्रमणपूर्वकम् । अहंप्रथमिकां चक्रुस्तत्तनूद्वहने तदा ॥ १७ ॥ कोपाभासाद् गुरुः प्राह पुण्यं युष्माभिरेव तत् । उपार्जनीयमन्यूनं न तु नः स्वजनवजैः ॥ १७१ ॥ श्रुत्वेति जनकः प्राह यदि पुण्यं महद् भवेत् । अहं वहे, प्रभुः प्राह भवत्वेवं पुनः शृणु ।। १७२ ।। उपसर्गा भवन्त्यस्मिन्नुह्यमाने ततो निजम् । किं तातमनुमन्येऽहमस्मिन् दुष्करकर्मणि ॥ १७३ ॥ उपसर्गर्यदि क्षुभ्येत् तन्नः "स्यादपमङ्गलम् । विज्ञायेत्युचितं य तत् तद् विधेहि समाधिना ॥ १७४ ।। वहिष्याम्येव" किमहं निःसत्त्वो दुर्बलोऽथवा । एतेभ्यो मामकीना तन्न कार्या काप्यनिर्वृतिः ॥ १७५ ॥ पुरा प्रत्यूहसंघातो वेदमन्त्रैर्मया हतः । समस्तस्यापि राज्यस्य राष्ट्रस्य नृपतेस्तथा ॥ १७६ ।। ततः संवोढुरस्यांशे" शबं" शबरथस्थितम् । आचकर्षुर्निवसनं शिशवः पूर्वशिक्षिताः ॥ १७७ ॥ अन्तर्दनोऽप्यसौ पुत्रप्रत्यहभयतो न तत् । अमुञ्चत् तत उत्सृज्य स्थण्डिले "ववले रयात् ॥ १७८ ।।
20
25
30
1 A प्राप्तं । 2 B C निबिडः। 3A BC सर्वस्तैः। 4 B कच्छादि। 5 N प्रायं। 6 N यथा। 7 A नहि । 8A ग्रहः। 9A B च। 100 पुनः। 11 A BN तातः। 12N'नालं; A B नालू। 13 A ग्रहः । 14 A धाने। 15 B स्यादपि। 16 BN वहिक्ष्या। 17 A स्यांके; B स्यान्ते । 18 A B शिवं । 19 N च वले।'