________________
२. आर्यरक्षितचरितम् ।
१३
अभूय निजावासमा यो फल्गुरक्षितः । वर्द्धये वर्द्धये मातर् ! गुरुस्तत्सुत आगमत् ॥ ११९ ॥ आस्याय 'न्युंछनेऽगां ते वचनाय बलिः क्रिये । आर्यरक्षितनामा यः कुत्र कुत्र स पुत्रकः ॥ १२० ॥ अस्मि' पुण्यवतीदृक्षा किं— यद् द्रक्ष्यामि तन्मुखम् । एवं वदन्त्या एवास्याः पुरोऽभूदार्यरक्षितः ॥ १२१ ॥ जैनलिङ्गधरं तं चाऽऽप्रेक्ष्यमाणमथादरात् । रोमाञ्चकञ्चुकोद्भेदमेदुराभिगमाद्भुतम् ॥ १२२ ॥ श्रोत्रियः सोमदेवोऽपि तत्रागात् संगमोत्सुकः । * दृढमाश्लिष्य च प्राह 'स्वात्मज स्नेहमोहितः || १२३ ॥ 5 शीघ्रमागाः कथं वत्स ! त्वं प्रवेशोत्सवं विना । हुं ज्ञातं विरहार्त्तायाः स्वमातुर्मिलनोत्सुकः ॥ १२४ ॥ इदानीमपि गच्छ त्वं बाह्योद्याने यथा नृपम् । विज्ञप्य नगरोत्साहोत्सवपूर्वं प्रवेशये ।। १२५ ॥ ततः श्रमणवेषं च परित्यज्य पुनर्गृहे । द्वितीयाश्रममव्यग्रः पालयस्व 'कृतालयः ।। १२६ ।। याजूक कुलोत्पन्नानुरागस्था कनी मया । रूपयौवनसंपन्ना चिन्तिताऽग्रे तवोचिता ॥ १२७ ॥ श्रौतेन विधिना तां त्वं विवहस्व महोत्सवैः । 'यथा त्वज्जननी कौतुकानां स्वादं लभेत च ॥ १२८ ॥ द्रविणोपार्जने चिन्ता कापि कार्या त्वया " नहि । आसप्तमकुलापूर्णं नृपपूज्यस्य मे धनम् ॥ १२९ ॥ अङ्गीकृते गृहोद्धारे भवता भवतानवम् ।
10
13
13.
१३३ ॥
दृष्टवन्तो" वयं दध्मो वानप्रस्थाश्रमे मनः ॥ १३० ॥ - अष्टभिः कुलकम् । अथात्मभूर्मुनिः प्राह तात ! त्वं मोहवातकी । वाहीक इव शास्त्राणां भारं वहसि दुर्धरम् ॥ १३१ ॥ भवे भवे पिता माता भ्राता जामिः प्रिया सुता । तिरश्चामपि जायन्ते हर्षस्तद्धेतुरत्र कः ।। १३२ ।। 'राजप्रसादतः को हि गर्यो भृत्यतयार्जितात् । द्रव्ये हि पुनरास्था का बहूपद्रवविद्रुते ॥ दुष्प्रापं मर्त्यजन्मेदं रत्नवद् गृहमोहतः । नश्वरावकरप्रायाद् हारयेत " हि कः सुधीः ॥ तत् परीक्ष्य तमुत्सृज्य प्रव्रज्याऽऽप्ताऽऽर्हती मया । मुक्तान् न पुनरादास्ये भोगान् भोगीशभोगवत् ॥ १३५ ॥ दृष्टिवादोऽपि नो पूर्णः पठितस्तत् कथं पितः ! | अवतिष्ठेऽभ्युपगमः "सत्यपुंसां हि दुस्त्यजः ॥ १३६ ॥ भवतां मयि चेन्मोहः सर्वाणि प्रव्रजन्तु तत् ।
१३४ ॥
20
1 N त्युंछने । 2 A पुत्रक । 3 C N अस्मिन् । 4 A किंचिद् | C आदर्श पतित एष लोकार्द्धः । 5 B स्वात्मजः । 6 C ° मव्ययः । 7 C क्षतालयः । 'भला कुलनी' इति B टि० । 8 A यया 9 B वः। 10 N नहि त्वया । 11 AC इष्टवन्तो । 12 N मतम् । 13 B राजः । 14 N ° प्रायाद्वारयेन हि । 15 N सत्यं । 16 N चाचरितं । 17 N तु। 18 N दुर्बोध्यां । 19BCN खं। 20BCN °निधिं । 21 A स्थिते । 22 B मातुर् । 23 'मुग्धपणातु' इति B टि० । 24. N पुत्र । 25 A त्वयाप्यहं ।
15
25
भ्रमेणापि सिता भुक्ता पित्तोपद्रवहारिणी ॥ १३७ ॥ - सप्तभिः कुलकम् उवाच सोमदेवोऽपि सांप्रतं मम सांप्रतम् । त्वदीयं स्वकुलीनं "वाऽऽचरितुं दुश्वरं तपः ॥ १३८ ॥ त्वन्माता न” पुनः पुत्री-जामातृ-शिशुपालनैः । मोहवीचिं भवाम्भोधिं कथं तरति मूढधीः ॥ १३९ ॥ ६८. अथार्यरक्षितो दध्यौ यदि मिथ्यात्वमन्दिरम् । तातः कथंचिद् बुध्येत शुद्ध्येत च तपोभरैः ॥ १४० ॥ तदम्बा दृढसम्यक्त्ववज्रवज्राकरावनिः । बुद्धैव यत्प्रभावान्मे मोक्षाध्वा प्रकटोऽभवत् ।। १४१ ॥ रुद्रसोमामथोवाच विचारय वचः पितुः । दुर्बोधां " मन्यते यस्त्वां " त्वं तु ज्ञानमहानिधिः ॥ १४२॥ त्वदादेशाद् दृष्टिवादं पठतो मे भवोदधेः । निस्तितीर्षा स्थिता" चित्ते श्रीवज्रः प्रापि च प्रभुः ॥ १४३॥ श्री सुनन्दा कलौ धन्या या वज्रं सुषुवे सुतम् । त्वां ततोऽप्यधिकां मन्ये मातर्" ! गुणत एकतः ॥ १४४॥ ददे तयाऽऽर्जवात्” पूर्वं पुत्रो रोदनखिन्नया । पितुर्मुनेः पुनश्चक्रे विवादस्तन्निमित्तकः ।। १४५ ।। श्रीमत्तोस लिपुत्राणां पाठायापि त्वया " त्वहम् । उत्तितारयिषामन्तर्ध्यात्वा संसारनीरधेः ॥ १४६ ॥ 30