________________
२. आर्यरक्षितचरितम् । यदा' स्वकगृहे प्रैषि पूज्यैर्गुणनवारणात् । तत्कृतात् स्खलितं किंचित् तदाऽधीतं पुरापि यत् ॥ २३८ ॥ यद्यतः परमेतस्य वाचनां दापयिष्यथ । ततो मे नवमं पूर्व विस्मरिष्यत्यसंशयम् ॥ २३९ ॥ श्रुत्वेत्यचिन्तयत् सूरिरीहर मेधानिधिर्यदि । विस्मरत्यागमं तर्हि कोऽन्यस्तं धारयिष्यति ॥ २४०॥ ततश्चतुर्विधः कार्योऽनुयोगोऽतः परं मया । ततोऽङ्गोपाङ्गमूलाख्यग्रन्थच्छेदकृतागमः ॥ २४१॥ अयं चरणकरणानुयोगः परिकीर्तितः । उत्तराध्ययनाद्यस्तु सम्यग्धर्मकथापरः ॥ २४२ ॥ 5 सूर्यप्रज्ञप्तिमुख्यस्तु गणितस्य निगद्यते ।
द्रव्यस्य दृष्टिवादोऽनुयोगाश्चत्वार ईदृशः ॥ २४३ ॥-त्रिभिर्विशेषकम् । विन्ध्यार्थमिति सूत्रस्य व्यवस्था सूरिभिः कृता । पुरा चैकत्र सूत्रेऽभूदनुयोगचतुष्टयम् ॥ २४४ ॥ ६१२. अन्यदा मथुरापुर्यामार्यरक्षितसूरयः । तस्या भूमेर धिष्ठातुय॑न्तरस्याश्रयेऽवसन् ॥ २४५ ॥
इतश्चास्ति विदेहेषु श्रीसीमंधरतीर्थकृत् । तदुपास्त्यै ययौ शक्रोऽश्रौषीद् व्याख्यां च तन्मनाः ॥२४६॥10 निगोदाख्यानमाख्याञ्च केवली तस्य तत्त्वतः । इन्द्रः पप्रच्छ भरते कोऽन्यस्तेषां विचारकृत् ॥ २४७ ॥ अथाईन् प्राह मथुरानगर्यामार्यरक्षितः। निगोदान मद्वदाचष्टे ततोऽसौ विस्मयं ययौ ॥ २४८ ॥ प्रतीतोऽपि च चित्रार्थ वृद्धब्राह्मणरूपभृत् । आययौ गुरुपार्वे स शीघ्रं हस्तौ च धूनयन् ॥ २४९ ॥ काशप्रसूनसंकाशकेशो यष्टिश्रिताङ्गकः । सश्वासप्रसरो विष्वग्गलच्चक्षुर्जलप्लवः ॥ २५०॥-युग्मम् । एवंरूपः स पप्रच्छ निगोदानां विचारणाम् । यथावस्थं गुरुव्याख्यत् सोऽथ तेन चमत्कृतः ॥ २५१ ॥ 15 जिज्ञासुर्ज्ञानमाहात्म्यं पप्रच्छ निजजीवितम् । ततः श्रुतोपयोगेन व्यचिन्तयदिदं गुरुः ।। २५२ ॥ तदायुर्दिवसैः पक्षैर्मासैः संवत्सरैरपि । तेषां शतैः सहस्रैश्चायुतैरपि न मीयते ॥ २५३ ॥ लक्षाभिः कोटिभिः पूर्वैः पल्यैः पल्यशतैरपि । तल्लक्षकोटिभि व सागरेणापि नान्तभृत् ॥२५४॥-युग्मम् । सागरोपमयुग्मे च पूर्णे ज्ञाते तदायुषि । भवान् सौधर्मसुत्रामा परीक्षा किं न ईक्षसे ।। २५५ ॥ प्रकाश्याथ निजं रूपं मनुष्यप्रेक्षणक्षमम् । यथावृत्ते समाख्याते शक्रः स्थाने निजेऽचलत् ॥ २५६ ॥ 20 प्रतीक्षणेऽर्थिते किंचिद् यावद् यतिसमागमम् । रूपद्धिदर्शनैः साधुनिदानेन न्यषेधयत् ॥ २५७ ॥ तथापि किंचिदाधेहि चिह्नमित्यथ सोऽतनोत् । वेश्म तद्विपरीतद्वाः प्रययौ त्रिदिवं ततः ॥ २५८॥ आयाते मुनिभिरेऽनाप्ते गुरुरुदैरयत् । विपरीतपथा याथा जग्मुस्ते चातिविस्मिताः ॥ २५९ ॥ संभ्रमात् किं किमित्यूचिवांसस्ते बोधितास्तदा । गुरुभिर्गोत्रभिद्वृत्तं* याथातथ्यान्निवेदितम् ॥ २६० ॥
देवेन्द्रादर्शनात् खिन्ना इव किंचित् तदाऽवदन् । मन्दभाग्यैः कथं नाम दृश्यन्ते वासवा नरैः ॥ २६१ ।।25 ६१३. अथो विजहुरन्यत्र प्रभवो मथुरां पुनः । आगतो नास्तिवादी च तं गोष्ठामाहिलोऽजयत् ॥ २६२।।
असौ तत्रैव संधेन 'चतुर्मासी व्यधाप्यत । वादलब्धियुतस्ताहक केनावस्थाप्यते नहि ।। २६३ ।। आर्यरक्षितसूरिश्च व्यमृशत् कः पदोचितः । दुर्बलः पुष्यमित्रोऽयं तद्विचारे समागमत् ॥२६४॥ सूरीणां निजवर्गीया व्यमृशन् फल्गुरक्षितम् । गच्छाधिपत्ये तं गोष्ठामाहिलं चात्र मोहतः ॥२६५।। कुम्भत्रितयमानायि तत्राचार्यैः सुपूरितम् । निष्पावतैलसपिर्भिरथ तच्च विरेचितम् ॥ २६६ ॥ 30 वल्लाः सर्वेऽपि निर्यातास्तैलमीषत् पुनः स्थितम् । घृतं च बहुसंलग्नं पश्यतेमामुदाहृतिम् ॥ २६७ ॥ दुर्बलेऽहं मुनौ जज्ञे शितशिम्बिककुम्भवत् । बन्धौ" तैलकुटौपम्यो मातुले घृतकुम्भवत् ॥ २६८ ॥
1A यथा। 2 A रतिष्ठातु । 3 A तत्त्वदः। 4 BC N विचारणम् । 5A B ज्ञाते पूर्णे। 6A B शक्रस्थाने । 7 B प्रतिक्षिणे। 8N विस्मृताः। * 'इंद्र' इति B टि.। 9A चातु। 10 B °दाहृतं । + 'वल्ला इति B टि.। 11B वन्ध्यो।
प्र०३