________________
प्रभावकचरि
३७ ॥
पठाशठमते ! तेषां पार्श्वे ग्रन्थमिमं वरम् । यथा त्वदीयवृत्तेन कुक्षिर्मे शीतलीभवेत् ॥ २९ ॥ श्रुत्वेत्यहर्मुखे यामीत्युक्त्वा तद्ध्यानतत्परः । निशां निन्ये विनिद्रः सन् निरगाच्च बहिस्ततः ॥ ३० ॥ अर्द्धमार्गे पितुर्मित्रं संमुखोऽस्य द्विजोऽभवत् । इक्षोर्नवलताः सार्द्धाः स्कन्धे तद्धेतवे वहन् ॥ ३१ ॥ तेनाभिवादयन्नालिलिङ्गे प्रीत्याऽऽर्यरक्षितः । व्यावृत्त्यागच्छ गेहे त्वमित्युक्तश्चायमब्रवीत् ।। ३२ ।। मात्रादेशेन यात्वाऽहं समायास्यामि शीघ्रतः । पूज्यैर्गन्तव्यमावासे निजबन्धुप्रसत्तये ॥ ३३ ॥ इत्युक्त्वा सञ्चरन्निक्षुवाटाभिमुखमादृतः । दध्यौ मनस्य हो सम्यगस्माद् दृढनिमित्ततः ॥ ३४ ॥ अध्याया वा परिच्छेदा नव सार्द्धा मया ध्रुवम् । अस्य ग्रन्थस्य लप्स्यन्ते नाधिकं निश्चितं ह्यदः ॥ ३५ ॥ प्रातः सन्ध्याक्षणे तत्र मुनिः स्वाध्यायडम्बरैः । शब्दाद्वैतमयं शृण्वन्नाश्रयद्वारमाश्रयत् ॥ किंकर्तव्यजड' स्तत्राजानन् जैन परिश्रम (य ? ) म् । ढड्डरश्रावकं सूरिवन्दकं प्रेक्षदागतम् ॥ तत्पृष्ठस्थो ययौ सोऽपि विदधे वन्दनादिकम् । तद्वदेव महाप्राज्ञस्तादृशां किं हि दुष्करम् ॥ ३८ ॥ सर्वसाधुप्रणामानन्तरं श्रावकवन्दना' । अशिक्षितत्वान्नाकार्यनाख्यातं बुध्यते कियत् ॥ ३९ ॥ चिह्नेनानेन विज्ञाय नवं तं सूरयस्तदा । कुतो धर्मस्य संप्राप्तिरिति पप्रच्छुरादरात् ॥ ४० ॥ ढरं दर्शयन्नस्मादेव धार्मिकपुङ्गवात् । इत्यूचिवांसमेकश्च मुनिर्लक्षयति स्म तम् ॥ ४१ ॥ आह कल्यदिने राज्ञा प्रावेश्येष महोत्सवात् । पुरोहितसुतः श्राद्धारुद्रसोमाङ्गसंभवः ॥ ४२ ॥ चतुर्वेदी समस्ताद्य गुणस्थानभृतां वरः । असंभाव्यागमः कस्मादत्राऽऽयाज्ज्ञायते न तत् ॥ ४३ ॥ अथार्यरक्षितः प्राह मातुरुक्तमनातुरः । आकर्ण्यति प्रभुर्दध्यौ तच्चरित्रचमत्कृतः ॥ ४४ ॥ कुलीन आस्तिको विप्रः कुलानुचितमार्दवः । ' संभाव्यसुकृताचारो जैनधर्मोचितो ह्ययम् ॥ ४५ ॥ उपयोगं श्रुते दत्वा पूर्वपाटोचितं च तम् । प्रभावकं भाविनं च श्रीमद्वज्रादनन्तरम् ॥ ४६ ॥ ध्यात्वा तं सूरयोऽवोचन् जैनप्रव्रज्यया विना ।
न दीयते दृष्टिवाद विधिः सर्वत्र सुन्दरः ॥ ४७ ॥ - त्रिभिर्विशेषकम् । स प्राह प्राच्यसंस्कारा ममासन् न च केशिनः । ततो जैनेन्द्रसंस्कारैरलंकुरुत मे वपुः ॥ ४८ ॥ परं किंचिच्च विज्ञप्यमास्ते तदवधार्यताम् । मिथ्यामोहेन लोको हि सर्वो मय्यनुरागवान् ॥ ४९ ॥ राजापि ज्ञातवृत्तान्तो दीक्षामुत्सर्जयेदपि । अबुधस्वजनानां च ममकारो हि दुस्त्यजः ॥ ५० ॥ * शावरूपे निजे तस्मात् प्रसद्य मयि दीक्षिते ।
अन्यदेशे विहर्त्तव्यं मा भूच्छासनलाघवम् ॥ ५१ ॥ - त्रिभिर्विशेषकम् । ओमित्युक्त्वा गुरुस्तस्य सार्वज्ञपरमाक्षरैः । अभिमत्र्याथ तन्मूर्ध्नि वासानक्षेपतोऽक्षिपत् ॥ ५२ ॥ सामायिकत्रतोच्चारपूर्वं पूर्वाभिलाषिणः । केशान् क्लेशानिवाशेषानपनिन्ये मुनीश्वरः ॥ ५३ ॥ ईशानकोणे' गार्हस्थ्यनेपथ्यं परिहाप्य सः । परिधाप्य सिते वस्त्रे यतिवेषेण योजितः ॥ ५४ ॥ विहारं तत्क्षणात् ते च विदधुर्नगरान्तरे । व्यधायि "पुरतस्त्वार्यरक्षितो नवदीक्षितः ॥ ५५ ॥ 30 §३. अध्यापितः समूलाङ्गोपाङ्गादिग्रन्थमण्डलम् । तत्तत्तपस्यया पूर्वाणि च कान्यपि सूरिभिः ॥ ५६ ॥ अधीत पूर्वी शास्त्राणि बुद्धपूर्वी हिताहितम् । विनीतपूर्वी खाचारं ज्ञातपूर्वी व्रतान्यभूत् ॥ ५७ ॥ गुरवः शेषपूर्वाणां पाठायोज्जयिनीपुरि । तमार्यरक्षितं प्रैषुः श्रीवज्रखामिनोऽन्तिके ॥ ५८ ॥ - युग्मम् ।
5
10
15
20
25
१०
३६ ॥
1 A °जल° । 2 C N वन्दनं । 3 C पुरोहितसुतश्राद्ध° । 4 C संभवो । 5 A C नव । * ' शिष्यरूप' इति B टि० । 6 B वासानिक्षेपतोक्षपत् । 7 B ° कूणे । 8 N परिहाय । 9 B विधायि; N विधाय । 10 C पुरस्त्वा । । नोपलभ्यते पद्यमिदं C आदर्शे ।