________________
२. आर्यरक्षितचरितम् । गीतार्थेमुनिभिः सत्रा तत्रागादार्यरक्षितः। श्रीभद्रगुप्तसूरीणामाश्रये' प्राविशत् तदा ॥ ५९॥ आश्लिष्य स्नेहतः प्राहुः प्रत्यभिज्ञाय ते च तम् । आर्यरक्षित ! कञ्चित्ते भद्रं पूर्वाभिलाषुक ! ॥६०॥ *अभिसन्धिर्मम 'प्रायोपवेशनविधौ भवान् । नियामो भव तद्वेला कुलीनानामियं यतः ॥ ६१ ॥ तथेति प्रतिपद्याथ तथा शुश्रूषत प्रभुम् । यथा जानाति नैवासावुदयास्तमने रवेः ॥ ६२ ॥ समाधौ परमे लीनोऽन्यदा प्रोवाच हर्षतः । क्षुत्तुक्लमं न जानेऽहं वत्स ! त्वद्वरिवस्यया ॥ ६३ ॥ इहलोकेऽपि देवत्वं संप्राप्त इव तद्रसात् । गोप्यं किञ्चिच्छिक्षयिष्ये त्वां ततोऽवहितः शृणु ॥ ६४ ॥ श्रीवज्रस्वामिपादान्ते त्वया पिपठिषाभृता । भोक्तव्यं शयनीयं च नित्यं पृथगुपाश्रये ॥ ६५ ॥ यतस्तदीयमण्डल्यामेककृत्वोऽपि योऽभुनक । रात्रौ सुप्तश्च पार्श्वे यत् तस्य तेन सहात्ययः ॥ ६६ ॥ प्रभावको भवानर्हच्छासनाम्भोधिकौस्तुभः। संघाधारश्च भावी तदुपदेशं करोतु मे ॥ ६७ ॥-त्रिभिर्विशेषकम् ।
10 इच्छामीति प्रभोरंही शिरसि प्रणिधाय सः । ओमिति प्रतिपेदेऽतिविनीतानामियं स्थितिः ॥ ६८ ॥ ६४.अथ श्रीभद्रगुप्तेऽस्मिन् कालधर्ममुपागते । सौनन्देयप्रभोः पार्श्वे प्रचचालार्यरक्षितः ॥ ६९ ॥
तदा च ददृशे स्वप्नः श्रीवत्रेणाप्यजलप्यत । विनेयाग्रेऽद्य संपूर्णः पायसेन पतगृहः ॥ ७० ॥ पारितोऽतिथिनाऽऽगत्य क्रिश्चिच्छेषमवास्थितम् । तदेतस्य विचारोऽसौ चित्तान्तर्घटते मम ॥७१॥-युग्मम् । अद्य प्राज्ञोऽतिथिः कश्चिदागत्य मम संनिधौ । श्रुतं ग्रहीष्यतेऽशेषमल्पं स्थास्यति किंचन ॥ ७२ ॥ 15 एवं वदत एवास्य समागादार्यरक्षितः । दृष्टो हि महता स्वप्नोऽवश्यं सद्यः फलेग्रहिः ॥ ७३ ॥ अपूर्वमतिथिं दृष्ट्वाऽभ्युत्थाय स्वागतोन्नतः । नमस्कुर्वन्तमेनं च स प्रभुाहरत् तदा ॥ ७४ ॥ कौतस्कुतोऽयं भावत्क आगमः ?, स ततोऽवदत् । श्रीमत्तोसलिपुत्राणामन्तिकादागमं प्रभो ! ॥५॥ श्रुत्वेति स प्रभुः प्राह-किं भवानार्यरक्षितः । पूर्वशेषस्य पाठार्थमस्मत्पार्श्व इहाययौ ? ॥ ७६ ॥ तवोपकरणं कुत्र पात्रसंस्तारकादिकम् । तदानयातिथिर्नस्त्वमद्य मा गोचरं चरेः ॥ ७७ ॥
20 'भुक्त्वाऽत्रैव ततोऽध्यायं प्रारभवेति तद्गिरः । श्रुत्वा स प्राह चाभ्यर्थि मया पृथगुपाश्रयः ॥ ७८॥ स्वापं भुक्तिं च तत्रैव कृत्वाध्येष्ये तवान्तिके । श्रीवत्रः प्राह पार्थक्यस्थितैः कथमधीयते ॥ ७९ ॥ अथार्यरक्षितोऽवोचद् भद्रगुप्तगुरोर्वचः । इदमित्युदिते वज्र उपयोगं ददौ श्रुते ॥ ८० ॥ भुक्तौ स्वापे मया साधं दिष्टान्तोऽपि भवेत् सह । ततः समुचितं प्राहुः प्रभवस्तद्भवत्विदम् ॥ ८१॥ एनमध्यापयामासुस्ततः श्रीवज्रसूरयः । अर्द्ध दशमपूर्वस्य प्रारेभे घोषितुं च सः॥ ८२ ॥
25 अस्मिन् ग्रन्थे दुरध्येया भङ्गकैर्दुर्गमैर्गमैः । पर्यायैर्दुर्वचैः शब्दैः सदृशैर्जविकावलिः ॥ ८३ ॥ चतुर्विंशतिसंख्यानि जविकानि च सोऽपठत् ।
अधीयानस्य चायासोऽभवत् तस्याद्भुतः किल ॥ ८४ ।।-युग्मम् ।। ६५. ततश्च" रुद्रसोमापि तस्य माता व्यचिन्तयत् । अहो ममाविमर्शद्रु"रनुतापात् फलेग्रहिः॥ ८५॥
हृदयानन्दनो धीमान् नन्दनः शीलचन्दनः । आर्यरक्षितसंकाशो मयाऽप्रैष्यल्पमेधसा ।। ८६ ॥ 30 उद्योतं चिन्तयन्त्या मे तमिस्रं जातमद्भुतम् । तस्मादाहूतये तस्य प्रहेयः फल्गुरक्षितः ॥ ८७ ॥ सोमदेवस्तया पृष्टः श्रोत्रियः सरलोऽवदत् । त्वं यत्कृतप्रमाणा मे ततो यद् भाति तत् कुरु ॥ ८८॥
1 B °माश्रिये । 2 C कचित्त्वं भद्र पूर्वाभिलाषुक । 3 BN °लाषुकः । * 'प्रांतकाल इकडु छइ' इति B टि। 4 B°प्रवेशन। 5 B सौनन्देयः प्रभुः। 6 A प्रभोः। 7 C भुक्ष्वा 8 N ऽध्यायमारभखें; A प्रारब्धखें। 9 C मद्गिरः । 10 BN ध्येक्षे। 11 N इतश्च । 120 °विमर्शो दुरनु । 13 BN यद्भावि ।