________________
२. आर्यरक्षितचरितम् ।
२. आर्यरक्षितचरितम्। ३१.अव्यादव्याहतं भव्यान् स श्रीमागयरक्षितः । समूलघातमाहन्ति धर्मो यस्यान्तरद्विषः ॥ १॥
पीयूषमिव यद्वृत्तमनिर्वाच्यं बुधैरपि । वैचक्षण्यविलिप्ती मे मतिः “किं नु विमृश्यति ॥ २॥ पुनस्तथापि वातापितापनस्य तमोऽम्बुधेः । तस्य वृत्तं स्मृतौ वाचं प्रणये प्रणयावधिः ॥ ३ ॥ सदानन्दनबाहुल्यपराभूतद्युसत्पुरम् । पुरं दशपुरं नामावन्तिकान्तैकसप्तकी ॥ ४ ॥ . उदायनो निशानाथ इव नव्योऽकलङ्कभूः । अगम्यस्तमसोऽक्षीणकलोऽभूत्तत्र भूपतिः ॥ ५ ॥ सौवस्तिकपदप्राप्तप्रतिष्ठोऽतिविशिष्टधीः । वर्णज्येष्ठः कुलश्रेष्ठः क्रियानिष्ठः कलानिधिः ॥ ६ ॥ आसीच्छ्रीसोमदेवाख्यः शमितेष्वमितेष्वपि । यन्मन्त्रैः शत्रुवर्गेषु शृङ्गाराय चमूचयः ॥ ७ ॥-युग्मम् । रुद्धसोमाभिधाऽस्याभूत् प्रिया प्रियवचःक्रमैः । संपूर्णदानैरर्थिभ्यः कृतदारिद्यविद्रवा ॥ ८॥ सूर्याश्वयोरिव* यमौ तयोः पुत्रौ बभूवतुः । आर्यरक्षित इत्याद्यो द्वितीयः फल्गुरक्षितः॥ ९॥ 10 पुरोहितेन तौ तेन साङ्गान् वेदान् प्रपाठितौ । आत्मजानां विनीतानां स्वामृद्धिं निद्भुते हि कः ॥१०॥ अतृप्तः शास्त्रपीयूषे विद्वानप्यार्यरक्षितः । पिपठीस्तद्विशेष स प्रययौ पाटलीपुरम् ॥ ११ ॥ अचिरेणापि कालेन स्फुरत्कुण्डलिनीबलः । वेदोपनिषदं गोप्यामप्यध्यैष्ट प्रकृष्टधीः ॥ १२॥ अथोपाध्यायमापृच्छय व्यावृत्तः स्वभुवं प्रति । आरूढवद् ययौ सोऽथाययौ परिसरे पुरः॥ १३ ॥ ज्ञातोदन्तेन राज्ञा स पितृविज्ञपनादथ । प्रावेशि गजमारुह्य संमुखागामिना स्वयम् ॥ १४ ॥
प्रधानकुलवृद्धाभ्यः सुलब्धाशीहे गृहे । अपराहे निजावासप्राङ्गणं प्रागमत्ततः ॥ १५ ॥ ६२. रुद्रसोमा पुनस्तत्र श्रमणोपासिका तदा । विज्ञातजीवाजीवादिनवतत्त्वार्थविस्तरा ॥ १६ ॥
कृतसामायिका पुत्रमुत्कण्ठाकुलितं चिरात् । इलातलमिलन्मौलिं वीक्ष्यापि प्रणतं भृशम् ॥ १७ ॥ अवर्द्धयत नाशीर्भिः सामायिकभिदाभिया ।
अतिखिन्नस्ततः प्राह स धीमानार्यरक्षितः ॥ १८ ॥-त्रिभिर्विशेषकम् । धिग् ! ममाधीतशास्त्रौघं बह्वष्यवकरप्रभम् । येन मे जननी नैव" परितोषमवापिता ॥ १९ ॥ ध्यात्वत्युवाच किं मातः! परितोषो न तेऽभवत् । साह तुष्याम्यहं केन पाठस्तैर्दुर्गतिप्रदैः॥२०॥ स प्राह चाविलम्बेन तदलं मे समादिश । येनाधीतेन ते तुष्टिः कार्यैरन्यैस्तु किं मम ॥ २१ ॥ रोमाञ्चकनुकोद्भेदमेदुराथ जनन्यपि । प्रधानं मन्यमाना खं पुत्रिणीनामवोचत ॥ २२ ॥ अधीष्व इविष्वगुन्निद्राभद्रविद्रावणक्षमम् । दृष्टिवादं जिनोपज्ञमन्यै रज्ञातसज्ञकम् ॥ २३ ॥. 25 तमाकर्ण्य सुतो दध्यौ तावन्नामापि सुन्दरम् । दृष्टिवाद इदानीं तदवश्यं कार्यमेव मे ॥ २४ ॥ समस्ततीर्थमूर्द्धन्ये मातर् ! मम समादिश । अध्यापकं तदभ्यासे यथाभ्यस्यामि तं द्रुतम् ।। २५ ॥ उवाच "रुद्रसोमापि वत्स ! ते विनयावने ! । अवतारणके यामि सावधानस्ततः शृणु ॥ २६ ॥ जैनर्षयो महासत्त्वास्त्यक्ताब्रह्मपरिग्रहाः । परमार्थस्थितस्वान्ताः सज्ज्ञानकुलभूमयः ॥ २७ ॥ अस्य ग्रन्थस्य वेत्तारस्तेऽधुना स्वेक्षुवाटके ।।
सन्ति तोसलिपुत्राख्याः सूरयो ज्ञानभूरयः ॥ २८ ॥-त्रिभिर्विशेषकम् ।
15
20
90
___1 'निरंतरे' इति B टि०। 2 A द्विपः। 3 A विलती; CN वलिप्ती। 4 A मतिः न वि; C मतिः किं न वि । 5 N वृतं । 6 N कान्तिक स°। * 'चंद्रसूर्य' इति B टि.। 7 B C द्वितीय। 'न सीषवइ' इति B टि• 'पाछु वलिउ' इति B टि.।8 B प्रावेश। 9 B विज्ञाततत्त्वा जीवादिनवभेदातिविस्तरा। 10 B इति। 11 B देव । 'मोहनिद्रा' इति B टि। 12 A"मझेर। 13CN मम मातः । 14 B सोमरुद्रा।
प्र०२