________________
प्रभावकचरिते
15
विज्ञायाप्रीतिकं तत्रान्यत्र शृङ्गेऽथ ते ययुः । मृत्युजीवितयोर्येऽनाशंसास्तेषां सुराः किमु ॥ १८० ॥ यथायोगं च ते प्राणान् परित्यज्य सुरालयम् । श्रीवज्रोऽपि जगाम द्यामध्यामध्यानवैभवः' ॥ १८१ ॥ काक्रस्तत्राययौ पूर्वभवस्नेहेन तद्व्ययम् । ज्ञात्वा चतुर्दिशं स्वीयरथमावर्त्तताथ' सः ॥ १८२ ॥ गहनानि तरूणां च तत्रोन्मूल्य समां भुवम् । कृत्वा तत्र क्षणं तस्थौ सुपर्वश्रेणिसंभृतः ॥ १८३ ॥
ततःप्रभृति विख्यातो रथावर्ताख्यया गिरिः । असावचलतां याति ख्यातिर्या गुरुभिः कृता ॥ १८४ ।। ६१०. वज्रसेनश्च सोपारं नाम पत्तनमभ्यगात् । जिनदत्तप्रियाऽस्त्यत्रेश्वरीत्याख्या चतुःसुता ॥ १८५ ॥
अक्षामगुरुशिक्षाढ्यः स तस्या मन्दिरे ययौ । चिन्तामणिमिवायान्तं दृष्ट्वा तं हर्षमाप सा ॥ १८६ ॥ प्राहाथ साहसं साधो! ऽस्माभिरद्य विचिन्तितम् । स्थालीपाकोऽत्र लक्षण पूरितः कष्टकल्पनात् ॥१८७॥
द्रव्यसंपदि सत्यामप्यन्नदौरथ्यान्मृतिध्रुवम् । ततोऽत्र पायसे पक्के निक्षेप्यं विषमं विषम् ॥ १८८॥-युग्मम् । 10 तदत्रावसरे पूज्यदर्शनं पुण्यतोऽभवत् । कृतार्था सांप्रतं पारत्रिक कार्यमिहादधे ॥ १८९ ॥
इत्याकर्ण्य मुनिः प्राह गुरुशिक्षाचमत्कृतः । धर्मशीले ! शृणु श्रीमद्वनस्वामिनिवेदितम् ॥ १९० ।। स्थालीपाके किलैकत्र लक्षमूल्ये' समीक्षिते । सुभिक्षं भावि सविषं पाकं मा कुरु तद्वृथा ॥ १९१ ॥ सापि प्राह प्रसादं नः कृत्वैतत् प्रतिगृह्यताम् । इत्युक्त्वा पात्रपूरेण प्रत्यलाभि तया मुनिः ॥ १९२ ॥ एवं जाते च सन्ध्यायां बहित्राणि समाययुः । प्रशस्यशस्यपूर्णानि जलदेशान्तराध्वना ॥ १९३ ॥ सुभिक्षं तत्क्षणं जज्ञे ततः सा सपरिच्छदा । अचिन्तयदहो ! मृत्युरभविष्यदरीतितः ॥ १९४ ॥ जीवितव्यफलं किं न गृह्यते संयमग्रहात् । वज्रसेनमुनेः पार्श्वे जैनबीजस्य सद्गुरोः ॥ १९५ ॥ ध्यात्वेति सा सपुत्राऽथ व्रतं जग्राह साग्रहा" नागेन्द्रो निवृतिश्चन्द्रः श्रीमान विद्याधरस्तथा।।१९६।। अभूवंस्ते किञ्चिदूनदशपूर्वविदस्ततः । चत्वारोऽपि जिनाधीशमतोद्धारधुरंधराः ॥ १९७ ॥
अद्यापि गच्छास्तन्नाम्ना जयिनोऽवनिमण्डले । वर्तन्ते तत्र तीर्थे च मूर्तयोऽद्यापि साहणाः ॥ १९८ ॥ 20 इति श्रीमद्वज्रप्रभुचरितमेतदिविषदामपि स्तुत्यं तत्त्वं किमपि जि ननाथोपनिषदाम् । श्रियां हेतुः सेतुर्भवजलधिनिस्तारविधये प्रदेयादानन्दं जयतु शशिसूर्यावधि यथा ॥१९९॥
श्रीचन्द्रप्रभसूरिपद्दसरसीहंसप्रभ: "श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीराम-लक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीवज्रवृत्ताभिधः
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽगमत् प्राक्तनः ॥ २००॥ मूर्तिः साष्टापदश्रीविमलगिरिरतिस्तारणः श्रीभरोयम्
दुःखार्तानामपापा किल मतिरसतां स्तम्भनश्च प्रभावः । चेतः स्यादुजयन्तस्थितिकृदनुपमं चारुरूपं यशस्तत् श्रीमत्प्रद्युम्नसूरे ! ऽर्बुदगुणविजयी तीर्थरूपस्त्वमेव ॥१॥
॥ *इति वनखामिप्रबंधः॥
॥ ग्रंथाग्रं २०७ अक्षर ११॥
25
30
- 1A द्यामध्यामध्यामवै'; CN द्यामध्यानवै। 2 B°तावसः। 3 B °मत्यगात् । 4 B चिन्तितं । 5 B काष्ट; C नास्ति । 6 N कृतार्थाः। 70 मूले। 8N जातेऽथ । 9N जिन। 10 A B सपुत्रापि। 11 A साग्रहात् । 12 B प्रभ। * ACN आदर्शषु नोपलभ्यत एषा पंक्तिः।