________________
१. वज्रस्वामिचरितम् ।
७.
महापरिज्ञाध्ययनाद् आचाराङ्गान्तरस्थितात् । श्रीवत्रेणोद्धृता विद्या तदा गगनगामिनी ॥ १४८ ॥ १८. अवृष्टेरन्यदा तत्राभूद् दुर्भिक्षमतिक्षम् ' । सचराचरजीवानां कुर्वदुर्वीतलेऽधिकम् ॥ १४९ ॥
सीदन् संघः प्रभोः पार्श्वमाययौ रक्ष रक्ष नः । वदन्निति ततो वज्रप्रभुस्तन्निधे हृदि ॥ १५० ॥ पटं विस्तार्य तत्रोपवेश्य संघं तदा मुदा । विद्ययाऽऽकाशगामिन्याऽचलद् व्योम्ना सुपर्णवत् ॥ १५१ ॥ तत्र शय्यातरो दूरं गतस्तृणगवेषणे । अन्वागतो वदन् दीनः सोऽपि न्यस्तारि सूरिणा ॥ १५२ ॥ आययौ सुस्थदेशस्थामचिरेण महापुरीम् । बौद्धशासनपक्षीयनृपलोकैरधिष्ठिताम् ॥ १५३ ॥ सुखं तिष्ठति संघे च सुभिक्षाद् राजसौस्थ्यतः । सर्वपर्वोत्तमं पर्वाऽऽययौ पर्युषणाभिधम् ॥ १५४ ॥ राजा च प्रत्यनीकत्वात् * कुसुमानि न्यषेधयत् । संघो व्यजिज्ञपद् वज्रं जिनाचचिन्तयार्दितः ॥ १५५ ॥ उत्पत्य तत आकाशे काशसंकाशकीर्तिभृत् । माहेश्वर्या उपर्यागान्नगर्या : कोविदार्यमा ॥ १५६ ॥ आरामस्थः पितुर्मित्रमारामिकगुणाग्रणीः । वज्रं 'बकुलसिंहाख्यो वीक्ष्य नत्वा च संजगौ ॥ १५७ ॥ 10 किमप्यादिश मे नाथ ! कार्य सूरिरतोऽवदत् । सुमनः सुमनोभिर्मे कार्यमार्य ! कुरुष्व तत् ॥ १५८ ॥ पूज्यैर्व्यावृत्तिवेलायां प्राह्माणीति निशम्य सः । ययौ देव्याः श्रियः पार्श्वे तं क्षुद्रहिमवद् गिरिम् ॥ १५९ ॥ धर्मलाभाशिषाऽऽनन्द्य तां देवीं कार्यमादिशत् । ददौ सहस्रपत्रं सा देवार्चार्थं करस्थितम् ॥ १६० ॥ तदादाय प्रभुर्वज्रः पितृमित्रस्य सन्निधौ । आययौ विंशतिर्लक्षाः पुष्पाणां तेन ढौकिताः ॥ १६१ ॥ विमाने' वैक्रिये 'ताश्चावस्थाप्यागान्निजे । पुरे । जृम्भकैः कृतसङ्गीतोत्सवे गगनमण्डले ॥ १६२ ॥ ध्वनत्सु देवतूर्येषु शब्दाद्वैते विजृम्भिते । तं तदूर्ध्वं समायान्तं दृष्ट्वा बौद्धाश्रमत्कृताः ॥ १६३ ॥ ऊचुर्धर्मस्य माहात्म्यमहो नः शासने सुराः । आयान्ति पश्यतां तेषां ते ययुर्जिनमन्दिरे ॥ १६४ ॥ श्राद्धसंघः प्रमुदितः पूजां कृत्वा जिनेशितुः । तत्र धर्मदिने धर्ममश्रौषीद् वज्रसद्गुरोः ॥ १६५ ॥ प्रातिहार्येण चानेन राजा तुष्टोऽभ्युपागमत् । प्रत्यबोधि च वज्रेण बौद्धाश्वासन्नधोमुखाः ॥ १६६ ॥ ६९. विहरन्नन्यदा स्वामी प्रययौ दक्षिणापथम् । कुत्रचिच्छुद्धभूभागोद्यानेऽसौ समवासरत् ॥ १६७ ॥ *श्लेष्मरोगापनोदायानाययद् विश्वभेषजम् । उपयुक्तावशेषं च श्रवणेऽधारयत् ततः ।। १६८ ।। प्रत्युपेक्षणकाले|| तत् तत्रस्थं चापराह्निके । मुखवस्त्रिकया 'स्रस्यत् कर्णयोः प्रतिलेखने ॥ दध्यावायुरहो ! क्षीणं' विस्मृतिर्यन्ममोदिता । पुनर्दुर्भिक्षमाप्तं च ' प्रागुक्तादधिकं ततः ॥ १७० ॥ वज्रसेनस्तदादिश्य” वंशार्थं वज्रसूरिभिः । प्रहितः स शनैः प्रायात् कुंकुणान् वित्तवञ्चणान्”॥१७१॥ अलब्धभिक्षान् दुर्भिक्षाद् विद्यापिण्डेन भोजितान् । साधूनाह च" भोज्योऽयं नित्यं द्वादशवत्सरीम् ॥ १७२॥ 25 "ग्राह्यं "वानशनं ते च श्रुत्वा तत् प्रायमाविशन् । श्रीवत्रः कुत्रचिच्छैले साधुभिः सहितो ययौ ॥ १७३॥ मार्गे गच्छद्भिरेकत्र ग्रामे प्रालम्भि " सूरिभिः । शिष्य एकः स तज्ज्ञात्वा वैराग्यं परमं दधौ ॥ दध्यौ च प्रोज्झ्य मामेते जग्मुर्जीवत्वसाविति । निःसत्त्वोऽहं कथं दृष्टः प्रभुं नानुव्रजामि तत् ॥ ध्यात्वेति तप्तपाषाणे पादपोपगमं व्यधात् । व्यलीयत मधूच्छिष्टमिव स " त्वरितस्तदा ॥ १७६ ॥ तद्विपत्तौ महे देवैः क्रियमाणे मुनीश्वरः । यतीनां पुरतोऽवादीच्छिशोः सत्त्वमिदं महत् ।। १७७ ॥ तच्छ्रुत्वा मुनयः सर्वे परं वैराग्यमादधुः । प्रशान्तविग्रहास्तस्थुः स्थण्डिलेषु पृथक् पृथक् ।। १७८ ॥ प्रत्यनीका सुरी तत्रोपसर्गायोपतस्थुषी । निशीथे दिवसं कृत्वा दधि तेषामढौकयत् ॥ १७९ ॥
१६९ ॥
1B °मितिक्षयं । 2 A दीनं । * 'दर्शनना अभक्त पणातु' इति B टि० । 8 N वज्रं च कुल । 5 N विमान° । 6 N तांचा' | 'देवतानइ भलावीनइ' इति B टि० । 'रोग छेदनात्' इति B टि० । B टि० 1 || 'पडिलेहण वेलाई' इति B टि० । 7 A भ्रस्यत्; C श्रस्यत् । 8 Bक्षणं । 9A प्रागुप्ता 11 चित्तविश्वान्; C वित्तवच्चरान् । 12 'च' नास्ति B 13 C ग्रामं । 14 N चान। 15 B प्रालंभ°
१७४ ॥
१७५ ॥
4AB °गिरं ।
'बावरवानी वेलाई' इति
10 N तथादिश्यं । 16 A सत्वरत° ।
।
5
15
20
30