________________
प्रभावकचरिते
वज्रोऽपि तं गुरोर्ध्वानं श्रुत्वा लज्जाभयाकुलः । संनिवेश्य' यथास्थानं वेष्टिकाः' संमुखोऽभ्यगात् ॥११६॥ प्रतिलेख्य ततः पादौ प्रक्षाल्य "प्रासुकाम्भसा । पादोदकं ववन्दे च गुरुणा स मुदेक्षितः ॥ ११७ ।। वैयावृत्यादिषु लघोर्माऽवज्ञाऽस्य भवत्विति । ध्यात्वाऽऽहुर्गुरवः शिष्यान् विहारं कुर्महे वयम् ॥ ११८ ॥ ततस्ते प्रोचुरस्माकं कः प्रदास्यति वाचनाम् । ते प्राहुर्वञ एवात्र कृतार्थान् वः करिष्यति ॥ ११९ ॥ तत् ते तथेति प्रत्यैच्छन् निर्विचारं गुरोर्वचः । ईदृक्स्वगुरुभक्तेभ्यः शिष्येभ्योऽस्तु नमोनमः ॥ १२०॥ प्रतिलेख्य निषद्यां च तस्यावक्राः प्रचक्रिरे । ततोऽसौ वाचनां दातुमारेभे यतिसंहतेः ॥ १२१ ॥ *शास्त्राणामितितात्पर्यमनायासेन सोऽभ्यधात् । सुखं यथाऽवगच्छन्ति ते मन्दधिषणा अपि ॥ १२२ ।। दिनैः कतिपयैरागात् सूरिरभ्युत्थितश्च तैः । तदुदन्तमपृच्छच्च सम्भूयोचुश्च ते ततः ॥ १२३ ॥
पूज्यपादप्रसादेन सञ्जज्ञे वाचनासुखम् । अस्माकं वाचनाचार्यो वन एवास्तु तत्सदा ॥ १२४ ॥ 10 श्रुत्वेति गुरवः प्राहुर्मत्वेदी विहृतं मया । अस्य ज्ञापयितुं युष्मान् गुणगौरवमद्भुतम् ॥ १२५ ॥
तपस्याविधिसंशुद्धवाचनापूर्वकं ततः। अधीतवान् मुनिर्वजो यावद् गुर्वागमागमम् ॥ १२६ ॥ ६६. गत्वा दशपुरे वज्रमवन्त्यां प्रैषुराहताः । अध्येतुं श्रुतशेषं श्रीभद्रगुप्तस्य सन्निधौ ॥ १२७ ॥
स ययौ तत्र रात्रौ च पूर्बहिर्वासमातनोत् । गुरुश्च स्वप्नमाचख्यौ निजशिष्याग्रतो मुदा ॥ १२८ ॥
पात्रं मे पयसा पूर्णमतिथिः कोऽपि पीतवान् । दशपूर्व्याः समग्रायाः कोऽप्यध्येता समेष्यति ॥ १२९ ।। 15 इत्येवं वदतस्तस्य वन आगात् पुरस्ततः । गुरुश्चाध्यापयामास श्रुतं स्वाधीतमाश्रुतम् ॥ १३० ॥
श्रीभद्रगुप्तसूरिश्च तमध्याप्य पुनर्गुरोः । प्राहिणोत् सन्निधौ तस्यानुज्ञायै समयस्य सः ॥ १३१ ॥ वज्रप्राग्जन्मसुहृदो ज्ञानाद् विज्ञाय ते सुराः । तस्याचार्यप्रतिष्ठायां चक्रुरुत्सवमद्भुतम् ॥ १३२ ॥
सर्वानुयोगानुज्ञां च प्रददुर्गुरवः शुभे । लग्ने सर्वार्हता तेजस्तत्त्वं तत्र न्यधुर्मुदा ॥ १३३ ॥ ६७. गुरौ प्रायाद् दिवं प्राप्ते वज्रस्वामिप्रभुर्ययौ । पुरं पाटलिपुत्राख्यमुद्याने समवासरत् ॥ १३४ ॥ 20 अन्यदा स कुरूपः सन् धर्म व्याख्यानयद् विभुः । गुणानुरूपं नो रूपमिति तत्र जनोऽवदत् ॥ १३५ ।।
अन्येशुश्चारुरूपेण धर्माख्याने कृते सति । पुरक्षोभभयात् सूरिः कुरूपोऽभूजनोऽब्रवीत् ॥ १३६ ।। प्रागेव तद्गुणग्रामगानात् साध्वीभ्य आदृता । धनस्य श्रेष्टिनः कन्या रुक्मिण्यत्रान्वरज्यत ॥ १३७ ॥ बभाषे जनकं स्वीयं सत्यं मद्भाषितं शृणु । श्रीमद्वज्राय मां यच्छ शरणं मेऽन्यथाऽनलः ॥ १३८ ।।
तदाग्रहात् ततः कोटिशतसंख्यधनैर्युताम् । सुतामादाय निम्रन्थनाथाभ्यणे ययौ च सः ॥ १३९ ॥ 25 व्यजिज्ञपच्च नाथं त्वां नाथते मे सुता ह्यसौ । रूपयौवनसम्पन्ना तदेषा प्रतिगृह्यताम् ॥ १४०॥
यथेच्छदान-भोगाभ्यामधिकं जीवितावधि । द्रविणं गृह्यतामेतत् पादौ प्रक्षालयामि ते ॥ १४१ ।। अथ श्रीवज्र आह स्म सरलस्त्वं वणिग्वरः । बढुमिच्छसि दूरस्थान स्वयं बद्धः परानपि ॥ १४२ ।। रेणुना रत्नराशिं त्वं कल्पवृक्षं तृणेन च । ग कोलेन कुम्भीन्द्रं वायसेन सितच्छदम् ॥ १४३ ॥ सौधं निषादगेहेन क्षारनीरेण चामृतम् । कुद्रव्यविषयास्वादात् तपो मे संजिहीर्षसि ॥ १४४ ॥-युग्मम् । विषयाः कंबलोल्लासं दधत्यविकटोदयाः । सर्वं धनं 'महाभोगैरन्यून चारकोपमम् ॥ १४५ ॥ एषा मय्यनुरक्ता चेच्छायावदनुगामिनी । 'मयाऽऽदृतं व्रतं धत्तां ज्ञानदर्शनसंयुतम् ॥ १४६ ॥ श्रुत्वेति प्रतिबुद्धा" साऽभिलाषगरले हृते" । गृहीत्वा संयम संयमिनीपार्श्वमशिश्रयत्" ॥ १४७ ॥
30
1 B संनिवेशा। 2 B वेष्टिका। 3 A व्यधात् ; Cऽत्यगात् । 4 A. C प्राशुका । * B 'शास्त्र तत्व' इति B टि०। + 'विचक्षणप"' इति B टि.। 5A गुरुः श्वः। 'सूरिमंत्र दीधु' इति B टि.। 6 B विधि । 7 B महाभागै 18 B एष । 9N मया वृतं; C मया ब्रूतं । 10 B °बद्धा। 11 A हृदे। 120 श्रियत् ।