________________
१. व स्वामिचरितम् ।
वत्स ! त्वं यदि तत्त्वज्ञः संयमाध्यवसायवान् । गृहाण तदिदं कर्मरजोहरणहेतवे ॥ ८७ ॥ युग्मम् । उत्प्लुत्य मृगवत् सोऽथ तदीयोत्सङ्गमागतः । जग्राह चमराभं तच्चारित्रधरणीभृतः ॥ ८८ ॥ ततो जयजयारावो मङ्गलध्वनिपूर्वकम् । समस्ततूर्यनादोर्जिसज्ज : ' समजनि स्फुटः ॥ ८९ ॥ संघस्यार्चां तदाऽकार्षीद् राजा तद्गुरवस्ततः । स्वं स्थानं मुदिता जग्मुर्धर्मिंत्रातपुरस्कृताः ॥ ९० ॥ दध्यौ सुनन्दा सौदर्य आर्यपुत्रः सुतोऽपि च । मदीया यतयोऽभूवंस्तन्ममापीति सांप्रतम् ॥ ९१ ॥ त्रिवार्षिकोऽपि न स्तन्यं पपौ वज्रो व्रतेच्छया । दीक्षित्वा गुरुभिस्तेन तत्र मुक्तः समातृकः ॥ ९२ ॥ ९४. अथाष्टवार्षिकं वज्रं कृष्टा' साध्वीप्रतिश्रयात् । श्रीसिंह गिरयोऽन्यत्र विजहुः सपरिच्छदाः॥ ९३ ॥ तदा चाप्रतिबन्धेन तेषां विहरतां सताम् । पर्वतासन्नमेदिन्यामीर्यासमितिपूर्वकम् ॥ ९४ ॥ वज्रप्राग्भवमित्रैश्च तं दृष्ट्वा जृम्भकामरैः । वैक्रियाऽऽविष्कृता' मेघमाला तस्य परीक्षणे ।। ९५ ।। कुरंकरस्वरैः केकिकेकारावेण मिश्रितैः । तिलतन्दुलितो नादः श्रुतिस्वाद्यसुधाऽभवत् ॥ ९६ ॥ नीरैर्नदद्भिरुद्दाम संभवद्भिर्निरंतरम् । प्लाविता भूस्तदद्वैतघटितेव तदाऽभवत् ॥ ९७ ॥ विपुले तस्थिवांसस्ते गिरेरेकत्र कन्दरे । गुरवस्तोयजीवानां विराधनमनिच्छवः ॥ ९८ ॥ एवं घनाघने घोरे कथंचिद्विरते सति । उपोषिता अपि श्रेयस्तृप्तास्ते मुनयोऽवसन् ॥ ९९ ॥ जगज्जीवनमोषेण' तदा सूरोऽपि शङ्कितः । रसावस्थापनाद् विश्वे बभूव" प्रकटोदयः ॥ आनीय वारिधेर्वारि जगतीपरिपूरणात् । अवसन्ने च पर्जन्ये श्रमात् सुप्त" इवाध्वनौ ॥ १०१ ॥ ततस्तच्चारुवृत्तेन * लेखैर्हृल्लेखशालिभिः । वाणिज्यकारकव्याजात् पारणाय न्यमन्त्रि सः ॥ १०२ ॥ युग्मम् । एषणात्रितये चोपयुक्तो भुक्तावनादृतः । तत्र वस्त्रो ययौ प्राप्य गुरोरनुमतिं ततः ॥ १०३ ॥ द्रव्य-क्षेत्र काल-भावैरुपयोगं ददौ च सः । द्रव्यं कूष्माण्डपाकादि क्षेत्रं देशश्च मालवः ॥ १०४ ॥ कालो " ग्रीष्मस्तथा भावे विचार्येऽनिमिषा अमी । अस्पृष्टभूक्रमन्यासा अम्लानकुसुमस्रजः ॥ १०५ ॥ चारित्रिणां ततो देवपिण्डो नः कल्पते" नहि" । निषिद्धा उपयोगेन तस्य हर्षं परं ययुः ॥ १०६॥ - त्रिभिर्विशेषकम् ।
१०० ॥
15
20
5
1 A °धरिणी । 2 N ° सद्यः । 3 N संस्थानं । 4 N दीक्षितो । 5N कृत्वा । 6 B प्रतिश्रियात् । 7 B वैक्रियाविकृता । 8 B तुन्दलितो, C तंडुलितो । 9 A °घोषेण; C पोषेण । 10 B वाप्रक° । 11 B खप्त° । * 'देवता' इति B टि० । 12 A भीष्म । 13 B न । 14 N कल्प्यते । 15 B नहिः । ↑ 'घेवर' इति B टि० । 16 N नैषेधिकं ।
10
तत्र च प्रकटीभूय प्राणमंस्तं मुनिं तदा । वज्रं सद्वृत्ततेजोभिर्भास्वरं भास्वदंशुवत् ॥ १०७ ॥ अन्यत्र विहरतञ्चान्यदा श्रीष्मर्तुमध्यतः । प्राग्वदेव सुरास्तेऽमुं घृतपूरैर्न्यमन्त्रयन् ॥ १०८ ॥ वस्त्रे तत्रापि निर्व्यूढे विद्यां ते व्योमगामिनीम् । ददुर्न दुर्लभं किंचित् सद्भाग्यानां हि तादृशाम् ॥ १०९ ॥ ९५. बाह्यभूमौ प्रयातेषु पूज्येष्वथ परेद्यवि । सदेषणोपयुक्तेषु गीतार्थेषु च गोचरम् ॥ ११० ॥
25
अवकाशं च बाल्यस्य ददच्चापलतस्तदा । सर्वेषामुपधीर्नामग्राहं भूमौ निवेश्य च ॥ १११ ॥ वाचनां प्रददौ वज्रः श्रुतस्कन्धव्रजस्य सः । प्रत्येकं गुरुवक्त्रेण कथितस्य महोद्यमात् ॥ ११२ ॥
1
- त्रिभिर्विशेषकम् । श्रीमान् सिंहगिरिश्चात्रान्तरे वसतिसन्निधौ । आययौ गर्जितौर्जित्यं शब्दं तस्याशृणोच्च सः ॥ ११३ ॥ दध्यौ किं यतयः प्राप्ताः स्वाध्यायैः पालयन्ति माम् । निश्चित्यैकस्य वज्रस्य शब्दं ते तोषतो बभुः ॥ ११४ ॥ 30 पुनर्दध्यावयं गच्छो धन्यो यत्रेदृशः शिशुः । क्षोभोऽस्य मा भूदित्युच्चैः स्वरं नैषेधिकीं" व्यधात् ॥ ११५ ॥