________________
प्रभावकचरिते श्रीवज्रो रक्षितः श्रीमानार्यनन्दिल इत्यपि। सूरिः श्रीकालकाचार्य-पादलिप्तप्रभुरतथा ॥१७॥ रुद्रदेवप्रभुः सूरिः श्रमणसिंह इत्यपि । अथार्यखपुटः सूरिर्महेन्द्रश्च प्रभावकः ॥१८॥ सूरिविजयसिंहश्च जीवदेवमुनीश्वरः। वृद्धवादी सिद्धसेनो हरिभद्रप्रभुस्तथा ॥ १९॥ मल्लवादिप्रभुप्पभट्टिः कोविदवासवः । श्रीमानतुंगसूरिः श्रीमानदेवो मुनीश्वरः॥२०॥ सूरिश्च सिद्धव्याख्याता श्रीमान् वीरगणिः प्रभुः। वादिवेतालविरुदः शान्तिसूरिः प्रभुस्तथा ॥ २१ ॥ श्रीमान् महेन्द्रसूरिः श्रीधनपालेन संगतः। सूराचार्यप्रभुः श्रीमान् कृतभोजसभाजयः॥२२॥ श्रीमानभयदेवश्च वीराचार्यः कवीश्वरः।।
देवसूरिगुरुः श्रीमान् हेमचन्द्रप्रभुस्तथा ॥ २३ ॥-सप्तभिः कुलकम् । मादृशोऽल्पमतिः कीदृगेतेषां गुणकीर्तने । 'कल्लध्वनि सितास्वादे मूकोऽपि कुरुतेऽथवा ॥ २४ ॥ एतच्चरितशाखिभ्यः संमील्य सुमनश्चयम् । तद्वृत्तमालामुद्दामा गुम्फिष्यामि गुरोगिरा ॥ २५ ॥
15
1CN कालिका। 2 CN देवः। 3 N खपटः। 4 N गणि। 5 B गुरु। 6 N कल17 A Bहामं। .