________________
१. वनखामिचरितम् ।
१. वज्रस्वामिचरितम् । ६१.निधिः सौभाग्यभाग्यस्य नाम यस्यादिमङ्गलम् । वज्रखामिविभोः' पूर्व वृत्तं तस्य मयोच्यते ।। २६ ॥
अस्त्यवन्तीति देशः मासरसीसरसीरुहम् । यद्गुणग्रामरङ्गेण बद्धसख्ये रमा-गिरौ ॥ २७॥ तत्र तुम्बवनो नाम निवेशः क्लेशवर्जितः । अभूवन यस्य वासाय नाकिनोऽप्यभिलाषुकाः ॥२८॥ तत्र श्रेष्ठी धनो नाम कामधुक्-कल्पपादपौ । अमानमानयदानजितौ त्रिदिवमाश्रितौ ॥ २९॥ तस्यार्थिजन दौःस्थित्यमुस्तोच्छेदमहाकिरिः* । पुत्रो धनगिरि म कामप्रतिमविग्रहः ॥ ३०॥ आबाल्यादप्यबाल्याभविवेकच्छेकमानसः । नाभिलाषी परिणये प्रणयेषु महात्मनाम् ॥ ३१ ॥ धनपालाख्यया तत्र व्यवहारी महाधनः । यल्लक्ष्मीवीक्षणाल्लक्ष्मीपतिराविक्षदम्बुधिम् ॥ ३२ ॥ तस्यार्यसमितः पुत्रः सुनन्दा च सुताऽभवत् । तयोः समागमस्तत्र लक्ष्मी-कौस्तुभयोरिव ॥ ३३ ॥ सुनन्दा यौवनोद्भेदमेदुराङ्गी विलोकयन् । वरं धनगिरिं दध्यौ तत्पिता गुणगौरवात् ॥ ३४॥ 10 तत्सुतः समितो गेहवासेऽपि यतिवद्वसन्' । यायावरेषु भोगेषु वैराग्यं परमं दधौ ॥ ३५ ॥ श्रुतश्रीखण्डमलयगिरेः सिंहगिरेः प्रभोः । स दीक्षामग्रहीत् पार्श्व पार्श्वे निर्वृतिवेश्मनः ॥ ३६॥ अन्यदा धनपालश्च प्रोचे धनगिरिं सुधीः । सागरस्येव रेवाऽस्तु सुनन्दा ते परिग्रहे ॥ ३७॥ स प्राह ज्ञाततत्त्वार्थ भवतां भवचारके" । सुहृदां सहृदां" किं स्याद् बन्धनं कर्तुमौचिती ॥ ३८ ॥ प्रोवाच धनपालोऽपि पुरा श्रीऋषभप्रभुः" । "ऋणवद्भोगकर्मेदं भुक्त्वा मुक्तो भवार्णवात् ॥ ३९॥ 15 न चानुचितमेतत् तन्मानिन् ! मानय मद्गिरम् । मानसेऽतिविरक्तेऽपि मेने तत्प्रश्रयाचा सः ॥ ४०॥ उदुवाह शुभे लग्ने संलगे" सततोत्सवैः । अनासक्तः स विषयान् बुभुजे मर्त्यदुर्लभान् ॥ ४१ ॥ स वैश्रमणजातीयसामानिक"सुरोऽन्यदा । अष्टापदाद्रिशृङ्गे" यः प्रत्यबोधीन्द्रभूतिना ॥ ४२ ॥ सुनन्दाकुक्षिकासारेऽवतीर्णः स्वायुषः क्षये । प्राक्प्रेम्णा दत्तसुस्वप्नरस्वप्नै" रहितो दृढम् ॥ ४३ ॥-युग्मम् । ततो धनगिरिधन्यंमन्योऽवसरलाभतः । अपृच्छत व्रते पत्नीं तुष्टां पुत्रावलम्बनात् ॥४४॥
20 जरद्रज्जुमिव प्रेमबन्धं छित्त्वा स सत्वरम् । तत्रायातस्य तत्पुण्यैः पार्थे सिंहगिरेर्ययौ ।। ४५॥
व्रतं तत्राददे लोचपूर्व "सामायिकोत्तरम् । दुस्तरं स तपस्तप्यमानोऽप्रीयत चानिशम् ॥ ४६॥ ६२. पूर्णे कालेऽन्यदाऽसूत सुनन्दा सुतमुत्तमम् । तेजोभी रत्नदीपानामपि सापत्न्यदुःखदम् ॥ ४७ ॥
निजैः प्रवर्तितस्तत्र पुत्रजन्मोत्सवो मुदा । यदीक्षणादनिमिषा दधः स्वं नाम सार्थकम ॥ren अजल्पत् तत्र कोऽप्यस्य "प्राब्राजिष्यन्न चेत् पिता । महेऽधिकतरो हर्षस्ततोऽत्र समपत्स्यत ॥४९॥ 25 प्राच्यदेवभवज्ञानांशेन संजीव नन्दनः । ध्यावहो महापुण्यो मत्पिता संयमग्रहात् ॥ ५० ॥ ममापि भवनिस्तारः संभवी संयमाद् यदि । अत्रोपायं व्यमृक्षच्च रोदनं शैशवोचितम् ॥ ५१ ॥ अनेकोल्लापनस्नानदेहसंवाहनादिभिः । गजाश्वकादिवीक्षा भिरपरैरपि कौतुकैः ॥ ५२ ॥ भृशं प्रलोभ्यमानोऽपि न तस्थौ स क्षणं सुखम् । कथं वदति यो जाग्रच्छेते कैतवनिद्रया ॥५३॥-युग्मम् । दध्यौ मातापि सोमश्रीवत्स आप्यायको दृशाम् । यदुच्चकैरवक्लेशप्रदस्तद्धि दुनोति माम् ॥ ५४ ॥ 30 एवं जग्मुश्च षण्मासाः षड्वर्षशतसंनिभाः । तन्निवेशनमागाच्च तदा सिंहगिरिर्गुरुः ॥ ५५ ॥
1B प्रभोः। 2 C°जिन। * 'सूयर' इति B टि.। 3N प्रणयेन । 4 B°दम्बुधे। 5C समिनः। 6A B संमितो। 70 °बद्धसन् । 8 C गिरि। 90 प्रभो। 10 N तत्त्वार्थों। 11 C भववा। 12 AC सुहृदां। 13 A ऋषभः । 14 N तृण । ' 'अत्याग्रहात्' इति B टि.। 15 N स (तु) तां। 16 N समानिक। 17 A पदादि । 18Cखप्ने । 19N सामयि। 20 Cखं । 21 A B प्रावजि°। 22 N विवीक्षा।