________________
श्रीप्रभाचन्द्रसूरिविरचितं प्रभावकचरितम् ।
[अथ प्रास्ता वि क म् ।
॥ ॐ नमः श्रुतदेवतायै ॥ अर्हत्तत्त्वं स्तुमो विश्वशासनोन्नतिकारकम् । यत्प्रसादेन पूर्वेऽपि महोदयपदं ययुः ॥ १॥ श्रीसर्वमङ्गलोल्लासी वृषकेतुरनङ्गभित् । शम्भुर्गणपतिस्तीर्थनाथ आद्यः पुनातु वः ॥ २ ॥ हरिणाङ्को न-भोगश्रीजनतापापहारकः । महाबलः प्रभुः शान्तिः पातु' चित्रं 'ध्रुवस्थितिः ॥३॥ दशावतारो वः पायात् किमनीयाञ्जनद्युतिः । किं श्रीपतिः प्रदीपः किं न तु श्रीपार्श्वतीर्थकृत् ॥ ४॥ 5 यद् गोत्रजश्चरन् भव्यगोचरे पात्रपूरकः । श्रेयःपीयूषतः पातु वर्द्धमानः स गोपतिः ॥ ५ ॥ सा पूर्वांगमिता गोदा सुमनोऽD सरस्वती । बहुपादोदया न्यस्ता येन तं गौतमं स्तुवे ॥ ६ ॥ सम्पत्तिः सत्पदार्थानां यत्प्रसादात् प्रजायते । जीवसञ्जीवनी नौमि भारती च श्रियं च ताम् ॥ ७ ॥ यदत्तैकार्थरूपस्य वृद्धिः कोटिगुणा भवेत् । श्रीचन्द्रप्रभसूरीणां तेषां स्यामनृणः कथम् ॥ ८॥ सज्जनः स कथं 'जिष्णुर्योऽलीकादरतत्परः । परावर्ण गुणीकृत्य दोषोद्योगं दधाति न ॥ ९॥ 10 असन्तः किमु न" स्तुत्याः स्तुत्यां येऽनादृताः परम् । दीपयन्ति कृताभ्यासाः "थूणवीक्षणतः "क्षणे ॥१०॥ कलौ युगप्रधानः" श्रीहेमचन्द्रः प्रभुः पुरा । श्रीशलाकानृणां वृत्तं प्रास्तावीन नृपबोधकृत् ॥११॥ श्रुतकेवलिनां षण्णां दशपूर्वभृतामपि । "आवजखामिवृत्तं च चरितानि व्यधत्त सः॥ १२॥ ध्याततन्नाममत्रस्य प्रसादात् प्राप्तवासनः" । आरोक्ष्यन्निव" हेमाद्रि पादाभ्यां विश्वहास्यभूः ॥ १३ ॥ श्रीवज्रानुप्रवृत्तानां शासनोन्नतिकारिणाम् । प्रभा व क मुनीन्द्राणां वृत्तानि कियतामपि ॥ १४ ॥ 15 बहुश्रुतमुनीशेभ्यः प्राग्ग्रन्थेभ्यश्च कानिचित् । उपश्रुत्येतिवृत्तानि वर्णयिष्ये कियन्त्यपि ॥ १५॥-विशेषकम् । श्रीदेवानन्दशैक्ष श्रीकनकप्रभशिष्यराट् । श्रीप्रद्युम्नप्रभुर्जीयाद् ग्रन्थस्यास्यापि शुद्धिकृत् ॥ १६ ॥
___ *Cॐ नमः श्रीश्रुत'; B ॐ नमो श्रीजिनाय । उपाध्यायश्रीमुनिसागरपरमगुरुभ्यो नमः । N ॐ नमो भगवते श्रीपार्श्वनाथाय । 1B पातुश्चि। 2 N ध्रुवं । 3N नः'रम्य' इति B टिप्पणी । 'वाणी' इति B टि.। 4C चरत्। 5 B गोपति । 6N मोदा। 7 B सुमनोर्च्य। 8CN विष्णु। 9A दोषोद्योतं । 100 नः। 11 N किमुत। 12 B क्षण। 13 B तक्षणे। 14 N प्रधान। 15 B प्रभु। 16 N श्रीवज्र। 17 C वासतः। 'चडिवू' इति Bटि०। 18 N आरोक्ष। 19 B°भू। 20 B °शिष्य ।