________________
२०. वीराचार्यचरितम् ।
१६१ श्रीवीरे विरते जल्पादर्थतस्तस्य कुर्वतः । अनुवादं जगादासौ जल्प सर्वानुवादतः ॥ ६० ॥ न शक्तोऽहमिति प्राह वादिसिंहस्ततो नृपः । स्वयं बाहौ विधृत्यामुं पातयामास भूतले ॥ ६१ ॥ वक्तुं न शक्तश्चेदुच्चैरासने कथमासिवान् । तथा च कविराजः श्रीश्रीपालो वाक्यमब्रवीत् ॥ ६२ ॥
गुणैरुत्तुङ्गतां याति नोचैरासनसंस्थितः। '
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ १३॥ ततो विडम्ब्यमानं तं दृष्ट्वा श्रीवीर उचिवान् । श्रूयतां भूप मे वाणी प्राणी दर्पण जीयते ॥ ६४ ॥ यदनेन नराधीश ! शुद्धन्यायैकनिष्ठधीः । सभाध्यक्षमवज्ञातो वर्णाश्रमगुरुभवान् ॥ ६५॥ स्वास्याम्बुजस्थिरावासप्रदानात्प्रीणिता दृढम् । त्वद्गृह्या कोपभूरत्र देव्यदाद् वाचि मन्दताम्॥६६॥-युग्मम् । वाचां रणे तु चास्माकं प्रायूढः समयो ह्ययम् । वादी निगृह्यमाणो हि संरक्ष्यः प्रतिवादिना ॥ ६७ ॥ ततो विमुच्यतां श्रीमन् ! मदान्धोऽयं कृपास्पदम् । निशम्येति नृपेणासौ मुक्तो दृष्ट्वा ततो बहिः ॥ ६८॥10
जयपत्रार्पणादस्याददे तेजः परं तदा । द्रव्यं तु निःस्पृहत्वेन स्पृशत्यपि पुनर्न सः ॥ ६९ ॥ ६३. अन्यदा जययात्रायां चलिते गूर्जरेशितुः । चतुरङ्गचमूचक्रे रेणुच्छादितभानुनि ॥ ७० ॥
श्रीवीराचार्यचैत्यस्य पुरतः सञ्चरिष्णुनि । नृपमीक्षितुमाप्ते च कवीन्द्रे तत्र विश्रुते ॥ ७१ ॥ क्रमात् तत्र च संप्राप्तः श्रीसिद्धाधीशभूपतिः । तं समीक्ष्य कविः कश्चित् समस्यापदमभ्यधात् ॥७२॥ तदुद्दिश्य कवौ वीराचार्ये दृष्टिं व्यधान्नृपः । अनायासात् ततोऽपूरि कृतिना तेन सत्वरम् ॥ ७३ ॥ 15
तथा हिकालिन्दि ब्रूहि कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्मा
च्छनोर्मे नर्मदाऽहं त्वमपि मम सपन्याश्च गृह्णासि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कजलैर्मालवीनां
बाष्पाम्भोभिः किमासां समजनि चलितो गूर्जराणामधीशः॥७४ ॥ 20 श्रुत्वेति भूप आचख्यौ तव सिद्धगिराऽनया । मालवेशं गृहीष्यामि संशयो नात्र मे हृदि ॥ ७५ ॥ त्वया बलानकस्थेनाशिष्टो मे शत्रुनिग्रहः । विजयस्य पताकेयं ततस्तत्रास्तु सा दृढम् ॥ ७६ ॥ श्रीभावा
काऽभूद् बलानके । महता विहितं यस्माञ्चिरेणापि न नश्यति ॥ ७७॥ ६४. वादी कमलकीया॑ख्य आशाम्बरयतीश्वरः । वादमुद्राभृदभ्यागादवज्ञातान्यकोविदः ॥ ७८ ॥
आस्थानं सिद्धराजस्य जिह्वाकण्डूययादितः । वीराचार्य स आह्वास्त ब्रह्मास्त्रं विदुषां रणे ॥ ७९ ॥ 25 पञ्चवर्षीयबालां स सहादाय समागमत् । अवज्ञया वादिनं तं वीक्ष्य न्यविशदासने ॥ ८॥ स चोपन्यस्तवान् सर्वसामर्थेन गुरुस्ततः । श्रीवीरो बालया सार्द्धमरंस्त कुतुकादिव ॥ ८१॥ स तं दृष्ट्वाऽब्रवीद् वादी भूपते ! भवतः सभा । नोचिता विदुषां बालक्रीडाविप्लवसम्भृता ॥ ८२ ॥ 'राजाऽऽह स्वप्रमाणेन क्रीडयेष बुधेश्वरः । इत्युक्त्वा प्रेक्षितो' वीरो नृपेण प्राह सस्मितः ॥ ८३ ॥ समानवयसोर्वादो विमृश्येति मया ततः । एषा बाला समानिन्ये वस्त्रावृति निरादरा ॥ ८४॥
30 एष वाद्यपि नमत्वाद् दृश्यते डिम्भसनिमः । उभयोरेतयोरस्तु वादो व्रीडात्वनेन नः ॥ ८५॥ स्त्रीनिर्वाणनिषेधेनानयैवास्य च विग्रहः । विधेयस्तदसौ वादमुद्रया में विजेष्यते ॥८६॥
_1N श्रूयते। 2 N सभामध्यमवज्ञातो। 3 B मुक्तः कृष्ट्वा । 4 N बलितो। 50 गूर्जरे विशुः। 6 N राजा हस्तप्रमाणेन । 7N प्रेषितो। 8 D सह। 9N B वस्त्रावृत। 10 N तु ।
.प्र. २२