________________
प्रभावकचरिते.
अस्पृष्टहस्तं तन्मौलौ प्रदायोचे यतीश्वरः । तां जल्प वादिनानेन स्थापय स्त्रीषु निर्वृतिम् ।। ८७ ॥ ततः सा निपुणाधीतप्रमाणविदुषामिव । वाग्भरैः 'स्थापयामास तेनाशक्यस्थिरोत्तरैः ।। ८८॥ अनेडमूकतां प्राप्ते तत्र वित्रस्तमानसे । सस्रुर्जयजयारावाः सभ्यानां नृपतेरपि ॥ ८९ ॥ भूपालः प्राह को जेता मत्सभां तपति प्रभौ । श्रीवीरे वादिवीरेऽत्र सिद्धेऽनेकासु सिद्धिषु ॥ ९० ॥ यदीयहस्तस्पर्शेन संक्रान्ता यत्र तत्र च । वाग्देवी भाषतेऽजस्रं स शक्यः केन वर्णितुम् ॥ ११ ॥ एवं युगप्रधानाभगुणव्यूताः पटा इव । श्रीवीरसूरयः पान्तु भव्यजाड्यापहारिणः ॥ ९२ ॥ श्रीमत्कालकसूरीणामनिर्वाच्यं प्रभाद्भुतम् । अद्यापि यत्कुले वीराः प्राग्वीरान् भासयन्त्यमी ॥ ९३ ॥
श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीवीरवृत्ताद्भुतं श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः सविंशोऽभवत् ॥ ९४ ।।
॥ ग्रं० ९६ अ० ११; उभयं ४५५२ अ० ११ ॥ ॥ इति श्रीवीरसूरिप्रबन्धः॥
1D वाग्भिरस्थापयत्तेनाशक्यभंगाभिराहता।