________________
5
10
15
20
25
30
१६८
प्रभावकचरिते
श्रुत्वेति बहुमानाद्रेरिव तैराददे वचः । आयास्यते पुरे तत्र मा चिन्ताऽत्र विधीयताम् ॥ ३० ॥ महाबोधपुरे बौद्धान् वादे जित्वा बहूनथ' । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिताः ॥ ३१ ॥ परप्रवादिनस्तैश्च जितास्तेषां च भूपतिः । छत्र चामरयुग्मादिराजचिह्नान्यदान्मुदा ॥ ३२ ॥ व्यावृत्याथ' निजां भूमिमायान्तस्तेऽवतस्थिरे । पुरे नागपुरे तत्राप्यकार्षुश्च प्रभावनाः ॥ ३३ ॥ ज्ञात्वाथ सिद्धराजेनाहूता भक्तिभृताऽथ ते । प्रैषुः परिच्छदं गोप गिरिराजसमर्पितम् ॥ ३४ ॥ विजहुः सूरयस्तस्माच्छनैः संयममात्रया । अणहिलपुरासन्नं चारूपग्राममागमन् ॥ ३५ ॥ अभ्युद्ययावथ श्रीमज्जयसिंहनरेश्वरः । प्रवेशोत्सवमाधत्तादृष्टपूर्वं सुरैरपि ॥ ३६ ॥ अथात्र वादिसिंहाख्यः सांख्यवादी समागमत् । पत्रं प्रदत्तवानीदृकूलिखित श्लोकदुर्घटम् ॥ ३७ ॥
६२.
तथा हि
उद्धृत्य बाहू कि रारटीति यस्यास्ति शक्तिः स च वावदीतु । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ ३८ ॥ श्रीमत्कर्णमहाराज बालमित्रं यतीश्वरः । गोविन्दाचार्य इत्यस्ति वीराचार्य कलागुरुः ॥ ३९ ॥ रात्रौ रहः समागत्य छन्नवेषः क्षमाधिपः । प्राह तं किमयं भिक्षुरपि पूज्यैः प्रतीक्ष्यते ॥ ४० ॥ तैः प्रोचे भवतामेव वाग् विलोक्याऽत्र भूपते ! । प्रभाते विवदिष्यन्तं वीराचार्यो विजेष्यते ॥ ४१ ॥ प्रीतो राजा प्रभाते तमाह्वास्त नृपपर्षदि । स निःस्पृहत्वदम्भेन शान्तोऽवददिदं तदा ॥ ४२ ॥ वयं किमागमिष्यामो निःसंगा यदि भूपतिः । अस्मद्वाक्कौतुकी भूम्यासनोऽत्रायातु सोऽपि तत् ॥ ४३ ॥ प्रातः कुतूहली राजोररीकृत्य तद्यथ । तदावासे समागच्छदुर्व्यामुर्व्यामुपाविशत् ॥ ४४ ॥ समाह्वयत गोविन्दसूरिं सूरिसभासदम् । सोऽपरान् साकृतीनीपद् विदुषोऽपि पुरो दधे ॥ ४५ ॥ वीराचार्य महाप्रज्ञाप्रज्ञातानेकशास्त्रकम् । उद्यत्कवित्व' वक्तृत्वावधिं पञ्चाच्चकार च ॥ ४६ ॥ समाययौ ततस्तत्रोपविष्टः कम्बलासने । राजाह को वदेदेषाममुना वादिना सह ॥ ४७ ॥ श्रीगोविन्दप्रभुः स्माहानौचित्यज्वरसंगिना । अनेन शास्त्रपाथोधितरण्डोपमधीजुषः ॥ ४८ ॥ अज्ञेन सह लज्जन्ते वदन्तस्तत् शिशुः कृती । वीरो वदिष्यति प्राज्ञः श्रुत्वा वादी स चावदत् ॥ ४९ ॥ दुग्धगन्धमुखो मुग्धः किं वक्ष्यति मया सह । असमानो विग्रहोऽयं नास्माकं भासते शुभः ॥ ५० ॥ राज्ञोचे क्षीरकण्ठास्यादर्थपीयूषगन्धितः । अस्मात् त्वन्मधत्तूरविभ्रमः स हरिष्यति ॥ ५१ ॥ श्रुत्वेति स उपन्यासमवज्ञावशतो दधे । अर्धकूर्पर' हस्तस्थमस्तकस्तर्कसंभवम् ॥ ५२ ॥
विरते तत्र चाल्पत् श्रीवीरो विदुषां प्रभुः । वदामि गद्यात् पद्याद् वा यच्चित्ते तव भासते ॥ ५३ ॥ स्वेच्छं तदुद्दिश छन्दोऽलंकारं च ममाग्रतः । सर्वानुवादमर्थानुवाद वा सत्वरं भवान् ॥ ५४ ॥ श्रुत्वेति स पुनः प्राह गूर्जराडम्बरः पुरः । मम न क्रियते बालः किं ज्ञास्यति' भवानिह || ५५ ॥ अथ शक्तिस्तवास्ते चेत् पद्येन छन्दसा पुनः । वद मत्तमयूरेणालंकारान्निह्नवात् तथा ॥ ५६ ॥ सर्वानुवादमाश्रित्य स निशम्येति तं जगौ । उत्तिष्ठासनसंस्थोऽस्थाः सावधानस्ततः शृणु ॥ ५७ ॥ वयं नहि गिरां देव्या अवहेलां विदध्महे । अर्द्धसुप्तपुरो वादादाकयेति स चोत्थितः ॥ ५८ ॥ वाचि वीरं ततो वीरं यथा प्रागुक्तसंश्रवात् । उपन्यस्यन्तमाकर्ण्यास्विद्यतोद्यतगीर्बलः ॥ ५९ ॥
1 N बहून् तथा । 2 N व्यावृत्याध्व । 3 N परं । 4 N लिखिनश्लोक । 5 N कवित्ववित्कृत्वा । 6 AN ° कर्पूर° । 7 N गमनं । 8A ज्ञास्यसि ।