________________
१६७
२०. वीराचार्यचरितम् । २०. श्रीवीराचार्यचरितम् ।
वीराचार्यः श्रिये 'वोऽस्तु सन्तः क्रोधाद्यरिक्षयम् ।
यदभ्यासे कृताभ्यासाः कर्तुमिच्छन्ति साम्प्रतम् ॥ १॥ यत्करस्पर्शमात्रेण कन्यादिष्वपि संक्रमम् । विधाय भारती वक्तिः कथं वीरः स वर्ण्यते ॥२॥ बहुश्रुतमुखाच्छ्रुत्वा तद्वृत्तं कियदप्यहम् । वर्णयिष्यामि बालः किं न वक्ति स्वानुमानतः ॥३॥ श्रीमच्चन्द्रमहागच्छसागरे रत्नशैलवत् । अवान्तराख्यया गच्छः षंडिल्ल इति विश्रुतः॥४॥ श्रीभावदेव इत्यासीत् सूरिरत्र च रत्नवत् । पाने स्नेहादिहीनोऽपि सदा लोकहिते रतः ॥ ५॥ श्रीमद्विजयसिंहाख्याः सूरयस्तत्पदेऽभवन् । प्रतिवादिद्विपघटाकटपाटनलम्पटाः ॥६॥ तत्पट्टमानससरोहंसाः श्रीवीरसूरयः । बभूवुर्गति-शब्दाभ्यामनन्यसदृशश्रियः ॥७॥ राजा श्रीसिद्धराजस्तान् मित्रत्वे स्थापयन् गुणैः । स्वभावविशदे ह्येष ददाति कुमुदे मुदम् ॥ ८॥ 10 अथ मित्रं समासीनो नृपतिर्नर्मणाऽवदत् । श्रीवीराचार्यमुन्निद्रं तेजो वः क्षितिपाश्रयात् ॥ ९॥ अथाहुः सूरयः स्वीयप्रज्ञाभाग्यैर्विजृम्भते । प्रतिष्ठा नान्यतः श्वा किं सिंहौजस्वी नृपादृतः ॥ १० ॥ राजाह मत्सभां मुक्त्वा “भवन्तोऽपि विदेशगाः । अनाथा इव भिक्षाका बाह्यभिक्षाभुजो ननु ॥ ११ ॥ सूरिराह भवत्प्रेम सन्दानमिव नोऽभवत् । दिनानीयन्ति गच्छाम आपृष्टः साम्प्रतं भवान् ॥ १२ ॥ भूपः प्राह न दास्यामि गन्तुं निजपुरात् तु वः । सूरिराह निषिध्यामो यान्तः केन वयं ननु ॥ १३ ॥ 15 इत्युक्त्वा स्वाश्रयं प्रायात् सूरिभूरिकलानिधिः । रुरोध नगरद्वारः सर्वान् नृपतिर्नरैः ॥ १४ ॥ इतश्च गुरवः सान्ध्यं धर्मकृत्यं विधाय ते । विधिवद् विधानं श्रीपर्णीपट्टकासनाः ॥ १५॥ अध्मात्मयोगतः प्राणनिरोधाद् गगनाध्वना । विद्याबलाच ते प्रापुः पुरी पल्लीतिसञ्ज्ञया ॥ १६ ॥ प्रातर्विलोकिते तत्रादृष्टे राजा "व्यचिन्तयत् । किं मित्रं गत एवायं सदा शिथिलमोहधीः ॥ १७ ॥ ईदृक् पुनः कथं प्राप्योऽनेकसिद्धिकुलावनिः । सिद्धस्नेहे वयं मन्दपुण्याः पिण्याकसंनिभाः॥ १८॥ 20 इतश्च ब्राह्मणैः पल्लीवासैः श्रीपत्तने पुरे । विज्ञाप्यततरां श्रीमजयसिंहनरेशितुः ॥ १९ ॥ तिथि-नक्षत्र-वारावासरव्यक्तियुते दिने । श्रीवीरसूरिरायातः संगतो न इति स्फुटम् ॥ २० ॥ श्रुत्वेति विममर्शाथ भूपालः केलिरीदृशी । विकृता यत्स एवैष प्रेमोहापोहवासरः ॥ २१ ॥ ययावाकाशमार्गेण तद्रात्रावेव स ध्रुवम् । नर्मलीलाद्वितीयेऽह्नि तद्विजानां स संगतः ॥ २२ ॥-युग्मम् । उत्कण्ठा"रसपूर्णोऽथ प्रधानान प्राहिणोन्नृपः । आह्वानाय महाभक्त्या ययुस्ते तत्र मंक्षु च ॥ २३ ॥ 25 नृपस्यानुनयः सान्द्रीकृत्य तैश्च प्रकाशितः । औदासीन्यस्थितास्ते च प्रोचुः प्रचुरसंयमाः ॥ २४ ॥ *निजं विद्याबलं ज्ञातुं वयं हि विजिहीर्षवः । देशान्तरं पुराप्यात्मस्थानस्थैर्जायते न तत् ॥ २५॥ कारणं सहकार्यत्र राज्ञ उच्चावचं वचः । तस्माद् विहृत्य देशेषु यद्येष्यामो भवत्पुरे ॥ २६ ॥ दुर्लभं मानुषं जन्म व्रतं विद्या बलं श्रुतम् । मुधा नराधिपस्नेहे मोहै: को नाम हारयेत् ॥ २७ ॥ इत्याकाथ ते प्रोचुरेकं शृणुत भूपतेः । वचःसिद्धत्वमस्माकं त्वत्संगात् तथ्यतास्पदम् ॥ २८॥ 30 भविष्यति पुनः कालमियन्तं पितृनाम तत् । सिद्धे भवति पार्श्वस्थ वयं सिद्धा हि नान्यथा ॥ २९ ॥
IN सोऽस्तु । 2 A कृतभ्यासः कर्तुमिच्छति; D कृतभ्यासाः। 3 N सभासीनो। 4 N भवतो। 5 N पुराय । 6 N यातः। 7 N सर्वत्र नृपतेर्नरैः। 80 साध्यं । 9N श्रीपट्टपट्टिका। 10 N ह्यचिंतयत् । 11N उक्तंवारस। * एष श्लोको नास्ति N पुस्तके।