________________
5
10
15
20
25
30
१६६
प्रभावकच रिते
'जयतिहुयणेत्यादि' वृत्तं द्वात्रिंशतं तदा । अवदन् स्तवनं तत्र नासाग्रन्यस्तदृष्टयः ॥ १५५ ॥ बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः । शनैरुन्निद्रतेजस्वि बिम्बं तत्प्रतिवस्तुकम् ।। १५६ ॥ प्रणतं सूरिभिः सङ्घसहितैरेतदञ्जसा । गतो रोगः समग्रोऽपि कायोऽभूत् कनकप्रभः ॥ १५७ ॥ गन्धाम्भोभिः स संस्नध्य कर्पूरादिविले पनैः । विलिप्य चार्चितः सौमनसैः सौमनसैस्तदा ॥ १५८ ॥ चक्रे तस्योपरि च्छाया सच्छाया प्रतिसीरया । सत्रादवारितात् तत्र सङ्घो ग्राम्यानभोजयत् ॥ १५९ ॥ प्रासादार्थं ततश्चक्रुः श्राद्धाद् द्रव्यस्य मीलनम् । अक्लेशेनामिलल्लक्षं ग्राम्यैरनुमता च भूः ॥ १६० ॥ श्री मल्लवादिशिष्यश्च' श्राद्धैराम्रेश्वराभिधः । महिषाख्य' पुरावासः समाह्वायि धियां निधिः ॥ १६१ ॥ अनुयुक्तः स 'संमान्य कर्मान्तरविचक्षणः । अथ प्रासाद आरेभे सोऽचिरात् पर्यपूर्यत ॥ १६२ ॥ कर्माध्यक्षस्य वृत्तौ यद्रम्म एको दिनं प्रति । विहितो घृतकर्षश्च भुक्तौ तण्डुलमानकम् ॥ १६३ ॥ विहृत्य भोजनात् तेन तेन द्रव्येण कारिता । स्वा देवकुलिका चैत्ये सा तत्राऽद्यापि दृश्यते ॥ १६४ ॥ शुभ मुहूर्ते बिम्बं च पूज्यास्तत्र न्यवेशयन् । तद्रात्रौ धरणाधीशस्तेषामेतदुपादिशत् ॥ १६५ ॥ स्तवनादमुतो गोप्यं मद्वाचा वस्तुकद्वयम् । कियतां हि विपुण्यानां प्रत्यक्षीभूयते मया ॥ १६६ ॥ तदादेशादतोऽद्यापि त्रिंशद्वृत्तमिता स्तुतिः । सपुण्यैः पठ्यमानाऽत्र क्षुद्रोपद्रवनाशिनी ॥ १६७ ॥ ततः प्रभृत्यदस्तीर्थं मनोवाञ्छितपूरणम् । प्रवृत्तं रोगशोकादिदुःखदावघनाघनः ॥ १६८ ॥ अद्यापि कलशो जन्मकल्याणक महामहे । आयो धवलकश्राद्धः स च स्त्रपयति प्रभुम् ॥ १६९ ॥ बिम्बासनस्य पाश्चात्यभागेऽक्षरपरंपरा । ऐतिह्यात् श्रूयते पूर्वकथितात् प्रथिता जने ॥ १७० ॥ नमेस्तीर्थकृतस्तीर्थे वर्षे द्विकचतुष्टये (२२२२) । आषाढ श्रावको गौडोऽकारयत् प्रतिमात्रयम् ॥ १७१॥ श्रीमान् जिनेश्वरः सूरिस्तथा श्रीबुद्धिसागरः । चिरमायुः प्रपात्यैतौ संन्यासाद् दिवमीयतुः ॥ १७२॥ श्रीमानभयदेवोऽपि शासनस्य प्रभावना [म् ] । पत्तने श्रीकर्णराज्ये धरणोपास्तिशोभितः ॥१७३॥ विधाय योगनीरोधधिकृतापरवासनः । परं लोकमलंचक्रे धर्मध्यानैकधीनिधिः ॥ १७४ ॥ - युग्मम् । वृत्तान्तोऽभयदेवसूरिसुगुरोरीहरू सतामर्चितः
कल्याणैकनिकेतनं कलिकलाशैलाग्रवज्रप्रभः । भूयाद् दुर्धर दुर्घटोदिततमः प्रध्वंससूर्योदयः
श्रेयः श्रीनिलयो लयं दिशतु वो ब्रह्मण्यनन्तोदये ॥ १७५ ॥ श्रीचन्द्रप्रभसूरि पट्टसर सीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितो वृत्तान्तोऽभयदेवसूरिसुगुरोः शृङ्गो ग्रहेन्दुप्रभः ॥ १७६ ॥
ॐ
वरकरुण बन्धुजीवकनृतिलकनालीकरूपविजयश्च । श्रीप्रद्युम्नसुजाते सुमनचित्रं नवकुलश्रीः ॥ १७७॥ ॥ इति श्री अभयदेवसूरिप्रबन्धः ॥
॥ ग्रंथा १८२, अ० ४ । उभयं ४४५६ ॥
1 N° शिष्यस्य । 2 N महिषाख्यः । 3 N समं मान्य । 4 N आरोढुं । 5NBA ऐतिह्यान्; A पूर्वकथितात् प्रथितान् ज; N पूर्व प्रकथिता जने । 6 N शैलाद्वि° ।