________________
१७. महेन्द्रसूरिचरितम् । धनपालस्ततः साश्रुरवादीद् ब्राह्मणोऽप्यहम् । निःस्पृहो जैनलिङ्गश्वावश्यं तद्गतसस्पृहः ॥ २७८ ॥ मयि मोहो महाराज विलम्बयति मामिह । भवेन्मानापमानोऽपि' नादासीनचेतसि ॥ २७९ ॥ अथ राजाह मे खेदो नाणुरप्यस्त्यसौ तव । त्वयि जीवति भोजस्य सभा यत् परिभूयते ॥ २८॥ पराभवस्तवैवायमितिश्रुत्वा कृतिप्रभुः । प्राह मा खिद्यतां भिक्षुरक्लेशाज्जेष्यते प्रगे ॥ २८१ ॥ श्रुत्वेति हृदये तुष्टो ययौ श्रीभोजभूपतिः । विद्वानपि निजं वेश्म चिरत्यक्तं पुनर्ययौ ॥ २८२ ॥ 5 संमार्जनातिगे गेहे शशकाखुकृतैर्बिलैः । दृश्यनिःसंख्यवल्मीकदुर्गमे प्राविशत् ततः ॥ २८३॥ राजा सौधे गतः प्रातः पृष्टो भूपेन वेश्मनः । शुद्धिं विद्वत्प्रभुः प्राह श्रूयतां सूनृतं वचः ॥ २८४ ॥
तच्चेदम्पृथुकार्तखरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ २८५॥
10 राज्ञा धर्मस्तदाहूत आस्थाने स्वःसभोपमे । श्रूयतां धनपालोऽयमाययौ वादिदर्पहृत् ॥ २८६ ॥ धर्मोऽथ छित्तपं विज्ञं पूर्व परिचितं तदा । दृष्ट्वा काव्यमदोऽवादीत् तदावर्जनगर्भितम् ॥ २८७ ॥
श्रीछित्तपे कईमराजशिष्ये सभ्ये सभाभर्तरि भोजराजे ।
सारखते स्रोतसि मे प्लवन्तां पलालकल्पा धनपालवाचः ॥ २८८ ॥ धनपेति नृपस्यामंत्रणे मे मम तद्गिरः । आलवाचः प्लवन्तां हि सिद्धसारस्वते झरे ॥ २८९ ॥ 15 इति भूपालमित्रेण शब्दखण्डनयाऽनया । अस्यैव प्रतिपक्षार्थोऽक्षरैस्तैरेव जल्पितः ॥२९॥ समस्यामर्पयामास सिद्धसारस्वतः कविः । धर्मस्तां च पुपूरेऽसौ वारानष्टोत्तरं शतम् ॥ २९१ ॥ तासामेकाऽपि निर्दोषा न विद्वञ्चित्तहारिणी । पुपूरे चान्त्यवेलायामित्थं तेन मनीषिणा ।। २९२ ॥
'इयं व्योमाम्भोधेस्तटमिव जवात् प्राप्य तपनं निशानौविश्लिष्टा घनघटितकाष्ठा विघटते' ॥-इति समस्या । 'वणिक्चक्रा'क्रन्दत्विषि शकुनिकोलाहलगणे
निराधारास्तारास्तदनु च निमजन्ति मणयः ॥ २९३ ॥ अतिश्रुतिकटुत्वेन चन्द्रास्तवर्णनेन च । न्यूनोक्तिदूषणाच्चापि सभ्यै षापि मानिता ॥ २९४ ॥ ततो वनं समस्यायाः पतित्विति च सोऽवदत् । विलक्षो जयभग्नाशः स मिथ्याडम्बरी कविः ॥ २९५॥ ततः श्रीधनपालेनापूरि विद्वन्मनोहरा । अनायासात् समस्येयं यतोऽस्यैतत् कियत् किल ।। २९६ ॥ 25
'असावप्यामूलत्रुटितकरसन्तानतनिकः
प्रयात्यस्तं 'सस्तसितपट इव श्वेतकिरणः ॥२९७॥ भग्नो मनः पराभूतिवारिधौ बोधतस्ततः । तरण्डाद्धर्म उद्दधे कवीन्द्रेणेति गाथया ॥ २९८ ॥
आसंसारं कइपुंगवेहिं पइदियह गहियसारोवि ।
अजवि अभिन्नमुद्दो व्व जयइ वायापरिप्फंदो ॥ २९९ ॥ ततः श्रीभोजराजोऽपि कृतीशानुमतस्तदा । यच्छन् धर्मस्य वित्तस्य लक्षं तेनेत्यवार्यत' ॥ ३० ॥
20
30
1N हि। 2 वेषं त्यक्ला । 3 Aक्षरे; B भरे। 4 N तया । 5N वणिग्वक्त्राक्रंद। 6N साम्यैर्नेषा । 7D स्रस्तः । 8N बोधित19N वाद्यत ।