________________
5
10
15
20
25
१५०
प्रभावकचरिते
तद्यथा
ब्रह्माण्डोदरकोटरं कियदिदं तत्रापि मृङ्गोलकं
पृथ्वीमण्डलसञ्ज्ञकं कुपतयस्तत्राप्यमी कोटिशः । तत्रैके गुरुगर्वगद्गदगिरो विश्राणयन्त्यर्थिनां
३०६ ॥
३०८ ॥
३०९ ॥
I
३१२ ॥
हा हा हन्त वयं तु वज्रकठिनास्तानेव याचेमहि ॥ ३०९ ॥ न ग्रहीष्ये ततो वित्तमसारकमशाश्वतम् । अभिमाने हृते जीवे पुरुषः शवसन्निभः ॥ ३०२ ॥ स 'आह कविरेकोऽसि धनपाल' धियांनिधे' ! । इति प्रतीतं मच्चित्ते बुधो नास्ति तु निश्चितम् ॥ ३०३ ॥ सविस्मयं ततः प्राह सिद्धसारस्वतः कविः । नास्तीति नोच्यते विद्वन् ! रत्नगर्भा वसुन्धरा ॥ अणहिल्लपुरे श्रीमान् शान्तिसूरिः कृतिप्रभुः । जैनः ख्यातस्त्रिभुवने बुधस्तमवलोकय ॥ स्नेहाद् विसर्जितो राज्ञा 'कवीशेनाप्यसौ ततः । विजये तस्य भग्नाशो व्यमृशन्मानसान्तरा ॥ अद्य पूर्वं न केनापि स्खलितं वचनं मम । ईदृग्मम वचो हन्ता साक्षाद् ब्राह्मी नतु द्विजः ॥ ३०७ ॥ प्रयाणं सुन्दरं तस्माद् बुधालोकमिषादतः । ध्यात्वेति गूर्जरं देशं प्रति प्रस्थानमातनोत् ॥ प्रातः संसदि भूपालस्तमाह्वस्त विशारदम् । नास्तीति च परिज्ञाते धनपालः कविर्जगौ ॥ 'धर्मो जयति नाधर्म्म' इत्यलीकीकृतं वचः । इदं तु सत्यतां नीतं 'धर्मस्य त्वरिता गतिः' राजा यथा जीवं विनाङ्गेऽवयवान्विते । सत्यपि स्यान्न सामर्थ्यमुत्तरेऽपि परागतौ ॥ तद्वदेकं विना मित्रं धनपालं कृतिप्रभुम् । मूकेव' धर्मसंवादे सभा शोभा विनाकृता ॥ तस्मात्स एव मत्पार्श्व शृङ्गारयतु सर्वदा । श्रुत्वेति धनपालोऽपि तुष्टः सन्मानतः प्रभोः ॥ ३१३ ॥ यथा स पत्तनं प्राप्तो जित: श्री शान्तिसूरिभिः । बुध्वाऽऽस्ते मानितास्तेन तज्ज्ञेयं तच्चरित्रतः ॥३१४॥ ९८. इतश्च शोभनो विद्वान् सर्वग्रन्थमहोदधिः । यमकान्विततीर्थेशस्तुती 'क्रेऽतिभक्तितः ।। ३१५ ॥ तदेकध्यानतः श्राद्धग्रहे त्रिर्भिक्षया ययौ । पृष्टः श्राविकया किं त्वं त्रिरागा" हेतुरत्र कः ॥ ३९६ ॥ स प्राह चित्तव्याक्षेपान्न जाने स्वगतागते । श्राविकाssस्यात् परिज्ञाते गुरुभिः पृष्ट एष तत् ।। ३१७ ॥ स प्राह न स्तुतिध्यानाज्ज्ञानेऽपश्यदथो" गुरुः । तत्काव्यान्यति" हर्षेण प्राशंसत्तं चमत्कृतः ॥ ३१८ ॥ तदीयदृष्टिसङ्गेन तत्क्षणं शोभनो ज्वरात् । आससाद परं लोकं सङ्घस्याभाग्यतः कृती ॥ ३१९ ॥ तासां जिनस्तुतीनां च सिद्धसारस्वतः कविः । टीकां चकार सौदर्यस्नेहं चिते वहन् दृढम् ॥ ३२० ॥ आयुरन्तं परिज्ञाय कोविदेशोऽन्यदा नृपम् । आपृच्छत परं लोकं साधितुं गुरुसंनिधौ ॥ ३२१ ॥ श्रीमन्महेन्द्रसूरीणां पादाम्भोजपुरस्सरम् । तनुं समलिखद् गेहिधर्म एव स्थितः सदा ॥ ३२२ ॥ उग्रेण तपसा शुद्धदेहः क्षिप्तान्तरद्विषन् । सम्यक्त्वं निरतीचारं पालयन्नालये गुरोः ॥ ३२३ ॥ तिष्ठन्निर्याप्यमानः स” स्थविरैः श्रुतपारगैः । अन्ते देहं परित्यज्य श्रीसौधर्म्मम शिश्रयत्" ॥ ३२४ ॥ युग्मम् । गुरवोऽपि तदा तस्य दृष्ट्वा छेकत्वमद्भुतम् । लोकद्वयेऽपि सन्यासपूर्वं तेऽपि दिवं ययौ ।। ३२५ ॥
*
३०४ ॥ ३०५ ॥
३१० ॥
३११ ॥
1 A स चाह° । 2 N रेकोsपि । 3 N धनपालः । 4 N धियांनिधिः । 5 N वादीशे' 6 N परागतैः । 7 N मूके च । 8 N शोभाविना । 9 N खुति च । 10 X किं तु विरागे । 11 N 'दहो । 12 N 'न्यथ हर्षेण । 14 AD शिश्रियत् ।
(3N मानस्य स्थ° ।