________________
१५. वीरसूरिचरितम् । अनुकूलैरथारम्भि मुमुक्षोर्विप्रलम्भनम् । माता-पिता-कलत्राणि क्रन्दन्ति स समैक्षयत् ॥ ६३ ॥ तत्त्वज्ञस्तान्यवाज्ञासीत् , मोहविन्ध्यस्य' कोन्नतिः । वीरे कुम्भोद्भवेऽमुत्र दक्षिणां दिशमाश्रिते ॥ ६४ ॥ कलावपि सुराचाल्यं सत्त्वं वीरतपोनिधेः । द्रष्टुं पूर्वाचलं प्राप्ते कौतुकादिव भास्करे ॥ ६५ ।। प्रत्यक्षीभूय गीर्वाण उवाचासौ तपोनिधिम् । अखर्वपर्वताध्वन्यध्वन्यवध्वस्तथाक्रमम् ॥६६॥
पूर्व सुरनरेशानां मानभङ्गो मया दधे । त्वां विना नैव केनापि शक्तेमें स्खलनं कृतम् ॥ ६७ ॥ 5 ६४. पूर्वास्थडकरीपुर्यामागतोऽहं शिवालये । भीमेश्वराख्ये तल्लिङ्गमप्रणम्यैव च स्थितः ॥ ६८॥
चरणौ तज्जलाधारे न्यस्य सुप्तश्च तत्क्षणे । तत्रागत्य नृपोऽपृच्छन्मां सविस्मयमानसः ॥ ६९ ॥ नमसि त्वं न किं देवमज्ञानाच्छक्तितोऽथवा । तदाऽवोचमहं राजन् ! हेतुं ते कथये स्फुटम ॥७०॥ शिवोऽयं शक्तिसम्बद्धो मां दृष्ट्वा लज्जया नतः। भविष्यति यतः पुंसो लज्जा पुंसोऽग्रतो भवेत ॥७२॥ एवंस्थितेऽपि देवेऽस्मिन् नमति' प्राकृतो जनः । पशूपमे जने तस्य का व्रीडास्था ममापि च ॥७२॥ 10 चेत् ते कौतुकमत्रास्ति मत्प्रणामात् तदास्य चेत् । उत्पातः कोऽपि जायेत तत्र दोषोपमोऽपि मे ॥ ७३ ॥ इत्युक्त्वा विरते मय्यब्रवीद् भूमिपतिस्ततः । वैदेशिका भवन्त्यत्र स्फारवाक्यक्रमाः सदा ॥ ७४ ॥ चर्मदेहः पुमान् देवसाम्यं वस्येह मन्यते । हास्यं सचेतनानां तद् बालानां विप्रलम्भनम् ।। ७५ ॥ या काचिदस्ति ते शक्तिस्तां प्रयुंश्व न ते पुनः । दोषोऽणुरपि कार्येऽत्र नगरं साक्षि वर्तताम् ॥ ७६ ।। श्रुत्वेति प्रणतिं यावत् कुर्वे संगत्य सन्निधौ । त्रादकृत्य तावत् पुस्फोट लिङ्गं लोकस्य पश्यतः ॥ ७७ ॥ 15 अथाहमवदं भीतिसम्भ्रमभ्रान्तलोचनम् । भूपालं बालवत्कण्ठरोधाव्यक्तखरं तदा ॥ ७८॥ मदुत्तेजनदम्भेन त्वया वैरं प्रसाधितम् । लिङ्गेऽस्मिन्नर्चनाक्लेशैर्दूनेन चिरकालतः ॥ ७९ ॥ श्रुत्वेति पादयोमौलि मेलयित्वा तु नीतिभूः । राजा सपरिवारोऽयमाह देवस्त्वमेव नः ॥ ८॥ तीर्थ त्वयैव दत्तं स्यादन्यथोच्छ(त्स ?)नमेव तत् । शिवस्त्वमेव देहस्थः पाषाणा इतरे पुनः ॥ ८१॥ एवमुक्ते योगपट्टेनावेष्टयमिदं त्वहम् । सम्बद्धद्विदलं तत्र लिङ्गमद्यापि पूज्यते ॥ ८२ ॥
20 महाबोधे ततो बौद्धविहारशतपञ्चकम् । तान् विजित्य मया भग्नं तत्र सामर्थ्यतो निजात् ॥ ८३ ॥ तथा मम प्रतिज्ञाऽस्ति संमुखं विजये ध्रुवम् । महाकालाख्यया शम्भु त्या मे कोणके स्थितः ॥ ८४॥ सोमेश्वरजयार्थं च चलित्वागममत्र च । सोऽत्रागत्यामिलद् भीतो मम ब्राह्मणरूपतः॥ ८५॥ प्राहैतद् दारुणं क्षेत्रं पवित्रं दत्तमत्र च । महोदयाय तद् याचे दातुमीशो भवान् यदि ॥ ८६ ॥ मयोचेहं क्षमो दाने मार्गणानां यथेप्सितम् । घट-मूटक-टंकानां लक्षैराज्यानहेमसु ॥ ८॥ 25 ततोऽसौ ब्राह्मणोऽवोचन मम किंचिद् ददख तत् । याचखेति मदुक्ते च स प्राह श्रूयतां ततः ॥ ८८॥ अत्र क्षेत्र स्थिरो भूत्वाऽवतिष्ठख महाबल! । श्रुत्वेति ज्ञानतो यावदीक्षे तावत् स शङ्करः ॥ ८९॥ आतङ्कात् सोमनाथाख्यः छलितुं मां समाययौ । वामनो बलिभूपालमिव वृद्धद्विजच्छलात् ॥ ९०॥ दण्डं कमपि मे देहि यथा सत्यः प्रतिश्रवः । मम स्यादन्यथात्रापि स्थितस्तेऽस्मि व्यथावहः ॥ ९१॥ अथ स प्राह नाहंयुस्त्वय्यहं तद्वचः शृणु । मद्यात्रा तस्य पूर्णा स्याद् यस्त्वामत्र" नमस्यति ॥ ९२ ॥ 30 अन्यथाऽर्द्धफला" सा स्यादित्युक्त्वा स्वाश्रयं गतः । वर्ततेऽद्यापि तत्तादृग् मद्वचः को विलङ्घयेत् ॥ ९३॥ ततः प्रभृत्यसौ ग्रामः स्थिरमित्याख्ययाऽभवत् । मम शम्भोश्च वाचां हि स्थिरता नहि दुर्लभा ॥ ९४ ॥
1A मोहवंध्यस्य; N मोहविंध्यसकोचतेः। 2N कुभावेऽपि । 3 N D सुराचाल्यः। 4 A B °निधिः। 5 N भको मे। 6N तु जलाधारे। 7A BD तमपि। 8N चित्ते। 9N पाषाण इतरः। 100 प्राहेद । 11 N स्याद्यखामद्य न पश्यति। 12 N र्द्धकला।
.प्र.१७