________________
5
10
15
25
१३०
30
20 ६६.
प्रभावकचरिते
इति न स्खलिता शक्तिर्मम मत्यैः सुरैरपि । त्वं तु श्वेताम्बराकारो दैवं मत्तोऽपि शक्तिमान् ॥ ९५ ॥ नावमन्तुमहं शक्तः समीक्षे दूरतः स्थितः । रेखाकुण्डं ज्वलञ्चारवदिदं शङ्कितः पुमान् ॥ ९६ ॥ तुष्टस्तव तपःशक्तेः वाञ्छितं प्रार्थय द्रुतम् । अक्षेपात् पूरयिष्ये तत् कल्पवृक्ष इव ध्रुवम् ॥ ९७ ॥ पारयित्वा ततो वीरः परमेष्ठिनमस्कृतेः । जगादनादरा अत्र सर्वसङ्गमुचो वयम् ॥ ९८ ॥ तथापि किञ्चिन्मद्भक्तेर्गृहाणेत्युदितेऽमुना । मुनिराह वधं रक्ष तवाप्यायुर्विनश्वरम् ॥ ९९ ॥ दुर्गतौ पतने हेतुर्भौलोऽयं प्राणिनां वधः । तथाख्यातैः पुरावृत्तैर्हर्षो मे नाऽत्यहंकृतैः ॥ १०० ॥ महादानेषु सामर्थ्यमात्मनश्च त्वयोदितम् । जीवाभयप्रदानं च सर्वेभ्योऽप्युत्तमं पुनः ॥ १०१ ॥ हर्षादाह स तथ्यं ते वचो जानेऽहमप्यदः । स्वेच्छाचारी परीवारो मम तस्य प्रियं त्विदम् ॥ १०२ ॥ त्वद्वचोभिः सुधासारसारैरित्यतिहर्षितः । प्रासादजगतीमध्ये जीवानां रक्षये वधम् ॥ १०३ ॥
श्री वीरोऽप्याह भूयात् तद् राज्ञा ज्ञातमिदं वचः । आचन्द्रकालिकं वृत्तमावयोः पुण्यहेतवे ॥ १०४ ॥ ९५. अणहिल्लपुरे 'वासीच्चक्रवर्त्तीव 'नूतनः । श्रीमान् चामुण्डराजाख्यस्तत्रास्मिन् समये नृपः ॥१०५॥ अज्ञापयदिदं च श्री विरूपानाथ एव तत् । प्रधानैस्तैर्नृपस्याथ हर्षात् तत्राययौ च सः ॥ १०६ ॥ सत्कर्मणि चिकीर्षात्र कस्य नो महतेत्यसौ । विज्ञाय जीवरक्षायै तच्छासनमचीकरत् ॥ १०७ ॥ आहूतश्च ततो राज्ञां पुनरप्याययौ तदा । अणहिल्लपुरं धीरस्तत्राबोधानबोधयत् ॥ १०८ ॥ आचार्यत्वप्रतिष्ठाऽस्य विदधे परमर्षिभिः । सूरिभिर्वर्द्धमानाख्यैः सङ्घाध्यक्षं महोत्सवात् ॥ १०९ ॥ तत्र श्रीवलभीनाथः श्रीवीरप्रभुभक्तितः । प्रत्यक्षीभूय धर्माख्यां शृणोत्यस्याग्रतः स्थितः ॥ ११० ॥ परं क्रीडाप्रियत्वेन नरं प्रेक्ष्य सलक्षणम् । अवतीर्यास्य देहे च क्रीडते पीडया विना ॥ १११ ॥ श्रीमान् वीरोऽपि तद् दृष्ट्वाऽवादीदेवं न सांप्रतम् । व्यन्तराधीश ! ते केलिं मनुष्या असहिष्णवः ॥ ११२ ॥ एवं निववृते चासौ प्रभुणा स निषेधितः । तथाह मम तोषस्य फलं किमपि नात्र वः ! ॥ ११३ ॥
उवाच "प्रभुरानन्दात् तव सामर्थ्यमस्ति किम् । अष्टापदाचले गन्तुं श्रीजैनभवनोन्नते ॥ ११४ ॥ स देवः प्राह शक्तिर्नो गन्तुं नावस्थितौ पुनः । तत्र सन्ति यतः सूरे ! व्यन्तरेन्द्रा महाबलाः ॥ ११५ ॥ अवस्थातुं न शक्नोमि तत्तेजः सोढुमक्षमः । याममेकं त्ववस्थास्ये चल' चेत् कौतुकं तव ॥ ११६ ॥ अधिकं तु क्षणं मित्र ! त्वमवस्थास्यसेऽथ चेत् । तत्तत्रैव भवानत्रागन्ताऽहं तु ध्रुवं ह्यदः ॥ ११७ ॥
नौ तत्प्रतिपेदाने धवलं धवलं ततः । विकृत्यारोहयत् तं च वस्त्रवेष्टितमस्तकम् ॥ ११८ ॥ क्षणेनैव ययौ तस्य गिरेर्मूर्ध्नि स ऊर्द्धगः । वृषादुत्तारयामास चैत्यद्वारे ततो मुनिम् ॥ ११९ ॥ द्वारपाञ्चालि काजानुपाश्चात्यशुषिरान्तरे' । तस्थौ निलीय तत्रस्थदेवज्योतिरसा सहिः ॥ १२० ॥ * गव्यूतत्रितयोच्छ्रायं योजनायामविस्तरम् । चतुर्द्वारं महाचैत्यमाद्यचक्रिविधापितम् ॥ १२१ ॥ दृष्ट्वा प्रमाणवर्णैश्च प्रतिमास्ता यदो (थो) दितैः । एकैकस्मान्नमस्काराच्छु (त्स्तु ? ) त्वा स प्राणमन्मुदा ॥ १२२॥ प्रभावना विधित्सायै तदभिज्ञानमानयत् । पंच शाल्यक्षतान् तस्मादग्रहीन्ना कि ढौकितान् ॥ १२३॥ निशायाः प्रथमे यामे चलितस्तीर्थयात्रया । प्राग्वत् स पुनरायाच्च द्वितीये घटिकाधिके ॥ १२४ ॥ सौरभामोदतः शालेरक्षतानामुपाश्रयः । विमानमिव सौधर्म" सुमनः संवृतो बभौ ॥ १२५ ॥ पृष्ठे मुनिभिराहाथ गुरुरष्टापदाचले । वन्दयध्वं मुदा देवान् श्राद्धाऽकथयंश्च तम् ॥ १२६ ॥ चैत्ये च मिलितः सङ्घः श्रीमान् भूमिपतेः स च । आख्यापयन् महाश्चर्य कौतुकादाययौ स च ॥ १२७॥
1 A ‘र्निकृंतनं । 2 N ° पुरे चासी' । 3 N 'वर्त्ती च । 4 N °स्तत्रापि । 5 N पुनरा° 16 N बलवत् । 7 N शिखरान्तरे । 8A गव्यूति । 9A D शाल्यकृतान् । 10 N साधर्मं ।