________________
१२४
प्रभावकचरिते
10
15
रम्यामुपमितिभवप्रपश्चाख्यां महाकथाम् । सुबोधकविता' विद्वदुत्तमाङ्गविधूननीम् ॥९६॥-युग्मम् । ग्रन्थं व्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतः प्रभृति सङ्घोऽस्य व्या ख्या तृ बिरु दं ददौ ॥ ९७ ॥
दर्शिता 'चास्य तेनाथ हसितुः स ततोऽवदत् । ईदृक् कवित्वमाधेयं त्वद्गुणाय मयोदितम् ॥ ९८॥ ६५. ततो व्यचिन्तयत् सिद्धो ज्ञायते यदपीह न । तेनाप्यज्ञानता तस्मादध्येतव्यं ध्रुवं मया ॥ ९९ ॥
तर्कग्रन्था मयाधीताः स्वपरेऽपीह ये स्थिताः । बौद्धप्रमाणशास्त्राणि न स्युस्तद्देशमन्तरा ॥ १०० ।। आपप्रच्छे गुरुं सम्यग् विनीतवचनैस्ततः । प्रान्तरस्थितदेशेषु गमनायोन्मनायितः ॥ १०१॥ निमित्तमवलोक्याथ श्रौतेन विधिना ततः । सवात्सल्यमुवाचाथ नाथप्राथमकल्पिकम् ॥ १०२ ।। असन्तोषः शुभोऽध्याये वत्स ! किश्चिद् वदामि तु। स त्वमत्र न सत्त्वानां समये प्रमये धियाम् ॥१०३॥ भ्रान्तचित्तः कदापि स्याद् हेत्वाभासैस्तदीयकैः । अर्थी तदागमश्रेणेः स्वसिद्धान्तपराङ्मुखः ॥ १०४ ॥ उपार्जितस्य पुण्यस्य नाशं त्वं प्राप्स्यसि ध्रुवम् । निमित्तत इदं मन्ये तस्मान्माऽत्रोद्यमी भव ॥ १०५ ॥ अथ चेदवलेपस्ते गमने न निवर्त्तते । तथापि मम पावं त्वमागा वाचा ममैकदा ॥ १०६ ॥ रजोहरणमस्माकं व्रताचं नः समर्पये । इत्युक्त्वा मौनमातिष्ठेद् गुरुश्चित्तव्यथाधरः॥ १०७॥ प्राह सिद्धः श्रुती च्छादयित्वा शान्तं हि कल्मषम् । अमङ्गलं प्रतिहतमकृतज्ञः क ईदृशः॥ १०८॥ चक्षुरुद्घाटितं येन मम ज्ञानमयं मुदा । पुनस्तद् ध्यामयेत् को हि धूमायितपरोक्तिभिः ॥ १०९॥ अन्त्यं वचः कथं नाथ ! मयि पूज्यैरुदाहृतम् । कः कुलीनो निजगुरुक्रमयुग्मं परित्यजेत् ॥ ११० ॥ मनः कदापि गुप्येत चेद् धत्तूरभ्रमादिव । तथापि प्रभुपादानामादेशं विदधे ध्रुवम् ॥ १११ ॥ *दुरध्येयानि बौद्धानां शास्त्राणीति श्रुतिश्रुतिः । स्वप्रज्ञायाः प्रमाणं तल्लप्स्ये तद्गुपिलाध्वनि ॥ ११२ ॥ इत्युदित्वा प्रणम्याथ स जगाम यथेप्सितम् । महाबोधाभिधं बौद्धपुरमव्यक्तवेषभृत् ॥ ११३ ॥ कुशाग्रीयमतेस्तस्याक्लेशेनापि प्रबोधतः । विद्वदुर्भेदशास्त्राणि तेषामासीच्चमत्कृतिः ॥ ११४ ॥ तस्याङ्गीकरणे मनस्तेषामासीदुरासदः । तमस्युद्योतको रत्नमाप्य माध्यस्थ्यमाश्रयेत् ॥ ११५ ॥ . तादृग्वचःप्रपश्चैस्तैर्वर्द्धकैर्गर्द्धकैरपि । तं विप्रलम्भयामासुर्मीनवद्धीवरा रसात् ॥ ११६ ॥ शनैर्धान्तमनोवृत्तिर्बभूवासौ यथातथा । तदीयदीक्षामादत्त' जैनमार्गातिनिस्पृशः ॥ ११७ ॥ अन्यदा तैर्गुरुत्वेऽसौ स्थाप्यमानोऽवदन्ननु । एकवेलं मया पूर्वे संवीक्ष्या गुरवो ध्रुवम् ॥ ११८॥ इति प्रतिश्रुतं यस्मात् तद्ने तत्प्रतिश्रवम् । सत्यसन्धस्त्यजेत् तत् कस्तत्र प्रहिणुताथ माम् ॥ ११ इति सत्यप्रतिज्ञत्वमतिचारु च सौगते । मन्यमानास्ततः प्रैषुः स चागाद् गुरुसंनिधौ ॥ १२०॥ गत्वाथोपाश्रये सिंहासनस्थं वीक्ष्य तं प्रभुम् । ऊर्ध्वस्थानशुभा यूयमित्युक्त्वा मौनमास्थितः ॥ १२१ ॥ गर्गस्वामी व्यमृक्षञ्च सञ्जज्ञे तदिदं फलम् । अनिमित्तस्य जैनी वाग् नान्यथा भवति ध्रुवम् ॥ १२२ ॥ अस्माकं ग्रहवैषम्यमिदं जज्ञे यदीदृशः । सुविनेयो महाविद्वान् परशास्त्रैः प्रलम्भितः ॥ १२३ ॥ तदुपायेन केनापि बोध्योऽसौ यदि भोत्स्यते । तदस्माकं प्रियं भाग्यैरुदितं किं बहूक्तिभिः ॥ १२४ ॥ ध्यात्वेत्युत्थाय गुरुभिस्तं निवेश्यासनेऽपिता । चैत्यवन्दनसूत्रस्य वृत्तिर्ल लि त विस्त रा ॥ १२५ ॥ ऊचुश्च यावदायामः कृत्वा चैत्यनतिं "वयम् । ग्रन्थस्तावदयं वीक्ष्य इत्युक्त्वा तेऽगमन् बहिः ॥ १२६ ।।
20
25
30
1 N°कथितां । 2 N °थास्य । 3 B नु। 4 N भ्रांतं चेतः। 50 °गुरु। 6 A C°भिदधे । * नोपलभ्यते श्लोकोऽयं N पुस्तके। 7 C °माधत्त । 8 B N निस्पृहः। 9 C त्यजेत्कस्तत्तत्र । 10 N परशास्त्र । 11 N नयम् ।