________________
१४. महाकविसिद्धर्षिचरितम् ।
१२३ श्रेष्ठी दध्यौ महेलाः स्युरुत्तानधिषणा ध्रुवम् । न कर्कशवचोयोग्यो' व्यसनी शिक्ष्यते शनैः ॥ ६५ ॥ ईषत्करं ततः प्राह प्रिये ! भव्यं त्वया कृतम् । वयं किं प्रवदामोऽत्र वणिजां नोचितं ह्यदः॥६६॥ गृहाद् बहिश्च निर्याय प्रयासाङ्गीकृतस्थितिः । व्यलोकयत् पुरं सर्वमहो मोहः पितुः सुते ॥ ६७ ॥ 'दृष्टश्चारित्रिशालायामसावुपशमोर्मिभिः । आप्लुतोऽपूर्वसंस्थानः ततोऽवादि च तेन सः ॥ ६८ ॥ यद्येवं शमिसामीप्यस्थितिं पश्यामि ते सुत ! । अमृतेनेव सिच्ये तन्नन्दनानन्दनस्थिते ! ॥ ६९॥ 5 इतव्यसनिनां साध्वाचारातीतकुवेषिणाम् । सङ्गतो मम हृदुःखहेतुः केतुरिव ग्रहः ॥ ७० ॥ आगच्छ वत्स ! सोत्कण्ठा तव माता प्रतीक्षते । किंचिन्मद्वचनैर्दूना सन्तप्ता निर्गमात् 'तव ॥ ७१॥ स प्राह तात ! पर्याप्तं 'गेहागमनकर्मणि । मम लीनं गुरोः पादारविन्दे हृदयं ध्रुवम् ॥ ७२ ॥ जैनदीक्षाधरो मार्ग मार्ग निष्प्रतिकर्मतः । आचरिष्यामि तन्मोहो भवद्भिर्मा विधीयताम् ।। ७३ ॥ याया अपावृतद्वारे वेश्मनीत्यम्बिकावचः । शमिसंनिध्यवस्थानं मतं नस्तद् भवद्वचः ॥ ७४॥ 10 यावज्जीवं हि विदधे यद्यहं तत् कुलीनता । अक्षता स्यादिदं चित्ते सम्यक् तात ! विचिन्तय ॥ ७५॥ अथाह सम्भ्रमाच्छ्रेष्ठी किमिदं वत्स ! चिन्तितम् । असंख्यध्वजविज्ञेयं धनं कः सार्थयिष्यति ॥ ७६ ॥ विलस त्वं यथासौख्यं "प्रदेहि निजयेच्छया । अविमुञ्चन सदाचारं सतां श्लाघ्यो भविष्यसि ॥ ७ ॥ एकपुत्रा तवाम्बा च निरपत्या वधूस्तथा । गतिस्तयोस्त्वमेवासि" जीर्ण माऽजीगणस्तु माम् ॥ ७८ ॥ पित्रेत्थमुदिते प्राह सिद्धः सिद्धशमस्थितिः । संपूर्ण लोभिवाणीभिस्तत्र मे श्रुतिरश्रुतिः ॥ ७९ ॥ 15 ब्रह्मण्येव" मनो लीनं ममातो गुरुपादयोः । निपत्य ब्रूहि दीक्षां मे पुत्रस्य मम "यच्छत (?) ॥ ८० ॥ "अतिनिर्बन्धतस्तस्य तथा चक्रे शुभंकरः । गुरुः प्रादात् परिव्रज्यां तस्य पुण्ये "स्वरोदये ॥ ८१ ॥ दिनैः कतिपयैर्मासमाने तपसि निर्मिते । शुभे लग्ने पञ्चमहावतारोपणपर्वणि ॥ ८२ ॥ दिग्बन्धं श्रावयामास पूर्वतो गच्छसन्ततिम् । सत्प्रभुः शृणु वत्स ! त्वं श्रीमान् वज्रप्रभु: पुरा ।। ८३ ॥ तच्छिष्यवज्रसेनस्याभूद् विनेयचतुष्टयी । नागेन्द्रो निर्वृतिश्चन्द्रः ख्यातो विद्याधरस्तथा ॥८४॥20 आसीन्निर्वत्तिगच्छे च सूराचार्यो धियां निधिः । तद्विनेयश्च गर्गर्षिरहं दीक्षागुरुस्तव ॥ ८५॥ शीलाङ्गानां सहस्राणि त्वयाऽष्टादश निर्भरम् । वोढव्यानि विविश्राममाभिजात्यफलं ह्यदः ॥ ८६ ॥
ओमिति प्रतिपद्याथ तप उग्रं चरन्नसौ । अध्येता वर्तमानानां सिद्धान्तानामजायत ॥ ८७ ॥ ६४. स चोपदे श मा ला या वृत्तिं "बालावबोधिनीम् । विधेऽवहितप्रज्ञः सर्वज्ञ इव गीभरैः ॥ ८८ ॥
सूरिर्दाक्षिण्यचन्द्राख्यो गुरुभ्राताऽस्ति तस्य सः । कथां कुवलयमालां चक्रे शृङ्गारनिर्भराम् ।।८९॥ 25 किञ्चित् सिद्धकृतग्रन्थसोत्प्रासः सोऽवदत् तदा । लिखितैः किं नवो ग्रन्थस्तदवस्थागमाक्षरैः ॥ ९ ॥ शास्त्रं श्रीसमरादित्यचरितं कीर्यते भुवि । यद्रसोर्मिप्लुता जीवाः क्षुत्तृडाद्यं न जानते ॥ ९१ ॥ अर्थोत्पत्तिरसाधिक्यसारा किश्चित् कथापि मे । अहो ते लेखकस्येव ग्रन्थः पुस्तकपूरणः ॥ ९२ ॥ अथ सिद्धकवि: प्राह मनोदूनोऽपि नो खरम् । वयोतिक्रान्तपाठानामीहशी कविता भवेत् ॥ ९३ ॥ का स्पर्द्धा समरादित्यकवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण मादृग्मन्दमतेरिह ॥ ९४ ॥ 30 इत्थमुत्तेजित "स्वान्तस्तेनासौ निर्ममे बुधः । "अज्ञदुर्बोधसम्बन्धों प्रस्तावाष्टकसम्भृताम् ।। ९५ ॥ 1 °वचोयोग्ये । 2 N इतश्च । 3 N °चरित्र । 4 A निर्ममात् । 5 A गेहे गमन 16 N तदभूद्वचः।” B अन्वाह । 8 N वस्तु । 9N विदेही। 10 N खमेवासी। 11 N ब्रह्मणीव । 12 B यच्छ त। 13 N B इति। 14 BCपुण्येश्वरो। 15 BC वृद्धबालाव। 16 N मुद्धजित°। 17 B अग्नि N अन्य। 18 N संबद्ध ।