SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं परिशिष्टम् [ ७ वानमन्तर पक्षादि ] ( १ ) ऋषिपालो वानमन्तरः उज्जेणी रायगिहं, तोसलिनगरे इसी य इसिवालो |० ॥ ४२१९ ॥ उज्जयिनी राजगृहं च नगरं कुत्रिकापणयुक्तमासीत् । तोसलिनगरवास्तव्येन च वणिजा ऋषिपालो नाम वानमन्तर उज्जयिनी कुत्रिकापणात् क्रीत्वा खबुद्धिमाहात्म्येन सम्यगाराधितः । ततस्तेन ऋषितडागं नाम सरः कृतम् । xxx एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ । णिज्जित इसीतलागे, ० ॥ ४२२३ ॥ ‘एत्रमेव’ तोसलिनगरवास्तव्येन वणिजा उज्जयिनीमागम्य कुत्रिकापणाद ऋषिपालो नाम वानमन्तरः क्रीतः । तेनापि तथैव निर्जितेन ऋषितडागं नाम सरश्च । विभागः ४ पत्रम् ११४५-४६ (२) कुण्डलमेण्ठो वानमन्तरः कोंडलमेंढ पभासे, ० ॥ ३१५० ॥ तथा कुण्डल मेण्ठनाम्नो वानमन्तरस्य यात्रायां भरुकच्छपरिसरवर्ती भूयान् लोकः सङ्घडिं करोति । विभागः ३ पत्रम् ८८३-८४ "अहवा कोंडलमिंढे कोंडलमिंढो वाणमंतरो, देवद्रोणी भरुयच्छाहरणीए तत्थ यात्राए बहुजणो संखडिं करेइ × × ×” इति चूर्णो विशेषचूर्णौ च ॥ विभागः ३ पत्रम् ८८३ टि०७ (३) घण्टिकयक्षः परिणापसिणं सुमिणे, विज्जासिद्धं कहेइ अन्नस्स । अहवा आइंखिणिआ, घंटियसिद्धं परिकहेइ ॥ १३१२ ॥ १६९ xxx अथवा " आई खिणिआ" डोम्बी, तस्याः कुलदैवतं घण्टिकयक्षो नाम, स पृष्टः सन् कर्णे कथयति सा च तेन शिष्टं कथितं सद् अन्यस्मै पृच्छकाय शुभाशुभादि यत् परिकथयति एष प्रश्नप्रश्नः ॥ १३१२ ॥ विभागः २ पत्रम् ४०३-४ ( ४ ) भण्डीरयक्षः मथुरायां भण्डी रक्षयात्रायां कम्बल -शबलौ वृषभौ घाटिकेन - मित्रेण जिनदासस्यानापृच्छया वाहितौ, तन्निमित्तं सञ्जातवैराग्यौ श्रावकेणानुशिष्टौ भक्तं प्रत्याख्याय कालगतौ नागकुमारेपपन्नौ ।। ५६२७ ॥ विभागः ५ पत्रम् १४८९ (५) सीता हलपद्धतिदेवता सीताइ जनो पहुगादिगा वा, जे कप्पणिज्जा जतिणो भवंति । साली - फलादीण व णिक्कयम्मि, पडेज तेल्लं लवणं गुलो वा ॥ ३६४७ ॥ Jain Education International सागारिकस्यान्येषां च साधारणे क्षेत्रे 'सीतायाः' हलपद्धतिदेवतायाः 'यज्ञः' पूजा भवेत् तत्र शाल्यादि द्रव्यं यद् उपस्कृतं पृथुकादयो वा ये तत्र क्षेत्रे यतीनां कल्पनीया भवन्ति, यद् वा तत्र शालीनां - कलमादीनां फलानां -चिर्भटादीनाम् आदिशब्दाद् योवारिप्रभृतीनां धान्यानां विक्रीयमाणानां निष्क्रये तैलं वा लवणं गुडो वा पते, एषा सर्वाऽपि क्षेत्रविषया सागारिकांशिका ॥ ३६४७ ॥ विभागः ४ पत्रम् १०१३ For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy