SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १७११ षष्ठ उद्देशः। शस्याः शिष्यास्त्रयस्तत्पदसरसिरुहोत्सङ्गशृङ्गारभृङ्गा, विध्वस्तानङ्गसङ्गाः सुविहितविहितोत्तुङ्गरङ्गा बभूवुः । तत्राद्यः सच्चरित्रानुमतिकृतमतिः श्रीजगचन्द्रसूरिः, श्रीमद्देवेन्द्रसूरिः सरलतरलसच्चित्तवृत्तिर्द्वितीयः ॥ १० ॥ तृतीयशिष्याः श्रुतवारिवार्धयः, परीषहाक्षोभ्यमनःसमाधयः । जयन्ति पूज्या विजयेन्दुसूरयः, परोपकारादिगुणौघभूरयः ॥ ११ ॥ प्रौढं मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्यैयुषां, येषां जैनपुरे परेण महसा प्रक्रान्तकान्तोत्सवे । स्थैर्य मेरुरगाधतां च जलधिः सर्वसहत्वं मही, सोमः सौम्यमहर्पतिः किल महत्तेजोऽकृत प्राभृतम् ॥ १२ ॥ वापं वापं प्रवचनवचोबीजराजी विनेय क्षेत्रवाते सुपरिमलिते शब्दशास्त्रादिसीरैः । यैः क्षेत्रज्ञैः शुचिगुरुजनाम्नायवाक्सारणीभिः, सिक्त्वा तेने सुजनहृदयानन्दि सज्ज्ञानसस्यम् ॥ १३ ॥ यैरप्रमत्तैः शुभमन्त्रजापै बेतालमाधाय कलिं खवश्यम् । अतुल्यकल्याणमयोत्तमार्थ सत्पूरुषः सत्त्वधनैरसाधि ॥ १४ ॥ किं बहुना ? ज्योत्स्नामञ्जुलया यया धवलितं विश्वम्भरामण्डलं, या निःशेषविशेषविज्ञजनताचेतश्चमत्कारिणी । तस्यां श्रीविजयेन्दुसूरिसुगुरोर्निष्कृत्रिमाया गुणश्रेणेः स्याद् यदि वास्तवस्तवकृतौ विज्ञः स वाचांपतिः ॥ १५ ॥ तत्पाणिपङ्कजरजःपरिपूतशीर्षाः, शिप्यास्त्रयो दधति सम्प्रति गच्छभारम् । १°तधीपयोधयः, भा० ॥२ °त्येयु भा० ॥ ३ °ल लसत्तेजो भा० ॥ ४ यैश्चान्द्ररिव धामभिर्धवलितं विश्वम्भरामण्डलं, ये निःशेष विशेषविज्ञजनताचेतश्चमत्कारिणः । तेषां श्रीविजयेन्दसूरिसुगरोनिष्क्रत्रिमाणां गण ग्रामाणां यदि वास्तवस्तवकृतौ विज्ञो भवेद् गीपतिः ॥१५॥ भा०॥ ५ तत्पादपङ्कजरजःपरिपिञ्जराङ्गाः, शिप्या भा० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy