SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ॥ अथ प्रशस्तिः ॥ 10 सौवर्णा विविधार्थरनकलिता एते षडदेशकाः, श्रीकल्पेऽर्थनिधौ मताः सुकलशा दौर्गत्यदुःखापहे । दृष्ट्वा चूर्णिसुबीजकाक्षरततिं कुश्याऽथ गुर्वाज्ञया, खानं खानममी मया ख-परयोरर्थे स्फुटार्थीकृताः ॥ १ ॥ श्रीकल्पसूत्रममृतं विबुधोपयोग योग्यं जरा-मरणदारुणदुःखहारि । येनोद्धृतं मतिमथा मथिताच्छ्रुताब्धेः, ___श्रीभद्रबाहुगुरवे प्रणतोऽस्मि तस्मै ॥२॥ येनेदं कल्पसूत्रं कमलमुकुलवत् कोमलं मञ्जुलाभि___ोभिर्दोषापहाभिः स्फुटविषयविभागस्य सन्दर्शिकाभिः । उत्फुल्लोद्देशपत्रं सुरसपरिमलोद्वारसारं वितेने, तं निःसम्बन्धबन्धुं नुत मुनिमधुपाः ! भास्करं भाष्यकारम् ॥ ३ ॥ श्रीकल्पाध्ययनेऽस्मिन्नतिगम्भीरार्थभाष्यपरिकलिते । विषमपदविवरणकृते, श्रीचूर्णिकृते नमः कृतिने ॥ ४ ॥ श्रुतदेवताप्रसादादिदमध्ययनं विवृण्वता कुशलम् । यदवापि मया तेन, प्राप्नुयां बोधिमहममलाम् ॥ ५॥ गम-नयगभीरनीरश्चित्रोत्सर्गा-ऽपवादवादोमिः ।। युक्तिशतरत्नरम्यो, जैनागमजलनिर्जियति ॥ ६॥ श्रीजैनशासननभस्तलतिग्मरश्मिः, __ श्रीसद्मचान्द्रकुलपद्मविकाशकारी । खज्योतिरावृतदिगम्बरडम्बरोऽभूत् , श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम् ॥ ७ ॥ श्रीमच्चैत्रपुरैकमण्डनमहावीरप्रतिष्ठाकृत स्तस्माच्चैत्रपुरप्रबोधतरणेः श्रीचैत्रगच्छोऽजनि । तत्र श्रीभुवनेन्द्रसूरिसुगुरुर्भूभूषणं भासुर ज्योतिःसद्गुणरत्नरोहणगिरिः कालक्रमेणाभवत् ॥ ८॥ तत्पादाम्बुजमण्डनं समभवत् पक्षद्वयीशुद्धिमान् , नीर-क्षीरसदृक्षदूषण-गुणत्याग-ग्रहैकव्रतः । कालुष्यं च जडोद्भवं परिहरन् दूरेण सन्मानस स्थायी राजमरालवद् गणिवरः श्रीदेवभद्रप्रभुः ॥ ९॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy