________________
षष्ठ उद्देशः।
१७०९ दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः ।
एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम् , चारित्रं क्रियेत्यनर्थान्तरत्वात् क्षायिकमङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम् , यस्मादर्हतो भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः सम्भवति यावदखिलकर्मेन्धनानलभूता हूस्वपञ्चाक्षरोच्चारणकालमात्रा सर्वसंवररूपा चारित्रक्रिया नावाप्यते, ततः क्रियैव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारण-5 मिति । "इति जो उवदेसो सो नओ नाम" 'इति' एवम्-उक्तेन प्रकारेण य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः । उक्तः क्रियानयः ।। __ इत्थं ज्ञान-क्रियानयखरूपं श्रुत्वा विदिततदभिप्रायो विनेयः संशयापन्नः सन् आहकिमत्र तत्त्वम् ? पक्षद्वयेऽपि युक्तिसम्भवात् । आचार्य आह__सव्वेसि पि नयाणं, बहुविहवत्तव्वयं निसामित्ता।
10 तं सव्वनयविसुद्धं, जं चरण-गुणद्वितो साहू ॥ सर्वेषामपि मूलनयानाम् अपिशब्दात् तद्भेदानामपि नयानां द्रव्यास्तिकादीनाम् 'बहुविधवक्तव्यता' 'सामान्यमेव, विशेषा एव, उभयमेव वा परस्परनिरपेक्षम्' इत्यादिरूपाम् , अथवा 'नामादिनयानां मध्ये को नयः कं साधुमिच्छति ?' इत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसम्मतं वचनम्-यत् 'चरण-गुणस्थितः' चारित्र-ज्ञानस्थितः साधुः, यस्मात् 15 सर्वेऽपि नया भावनिक्षेपमिच्छन्तीति । गतं नयद्वारम् ॥
॥ इति श्रीकैल्पटीकायां षष्ठ उद्देशकः समायः॥ नन्दीसन्दर्भमूले सुदृढतरमहापीठिकास्कन्धबन्धे,
तुङ्गोद्देशाख्यशाखे दल-कुसुमसमैः सूत्र-नियुक्तिवाक्यैः । सान्द्रे भाष्यार्थसार्थामृतफलकलिते कल्पकल्पद्रुमेऽस्मि
न्नाक्रष्टुं षष्ठशाखाफलनिवहमसावङ्कुटीवाऽस्तु टीका ।। ॥ समाता चेयं सुखावबोधा नाम कल्पाध्ययनटीका ॥
१ अस्या अपि शास्त्रान्तरोक्ताया गाथाया व्याख्या-सर्वेषां का० ॥ २'कल्पाध्ययनटी कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org