________________
१७०८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता।
मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥ तथाऽऽमुष्मिकफलार्थिनाऽपि ज्ञान एव यतितव्यम् , आगमेऽपि तथाप्रतिपादनात् । उक्तं च
पढमं नाणं ततो दया, एवं चिट्टइ सवसंजए ।
अन्नाणी किं काही ?, किं वा नाही य छेय-पावगं ? ॥ इतश्चैतदेवमङ्गीकर्तव्यम् , यस्मात् तीर्थकर-गणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा । तथा चागमः--
गीयत्थो य विहारो, बीतो गीयत्थमीसतो भणितो। 10 ___एतो तइय विहारो, नाणुन्नाओ जिणवरेहिं ॥
न खलु अन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यते इत्यभिप्रायः ।
एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम् , क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव प्रतिपत्तव्यम् , यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टचरणवतोऽपि न तावद् अपवर्गप्राप्तिरुपजायते यावद् जीवा-ऽजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्न15 मिति । तस्माद् ज्ञानमेव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणमिति स्थितम् । “इति जो
उवएसो सो नओ नाम" 'इति' एवम्-उक्तेन प्रकारेण य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः ॥
उक्तो ज्ञाननयः । सम्प्रति क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैव ऐहिका-ऽऽमुष्मिकफलप्राप्तिकारणं प्रधानम् , युक्तियुक्तत्वात् । तथा चायमप्युक्तस्वरूपामेव खपक्षसिद्धये गाथा20 माह-"नायम्मि गिहियव्वे०" इत्यादि ।।
अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चार्थे ऐहिका-ऽऽमुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव । यस्मात् प्रवृत्त्यादिलक्षणप्रयतव्यतिरेकेण ज्ञानवतोऽपि नाभिलषितार्थावाप्तिरुपजायते । तथा चोक्तमन्यैरपि
क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ।
यतः स्त्री-भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ ___ आमुष्मिकफलार्थिनाऽपि क्रियैव कर्तव्या, तथा च भगवद्वचनमप्येवमेव व्यवस्थितम् । यत उक्तम्
चेइय कुल गण संघे, आयरियाणं च पवयण सुए य ।
__ सबेसु वि तेण कयं, तव-संजममुज्जमंतेणं ॥ 30 इतश्चैवमङ्गीकर्तव्यम् , यस्मात् तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम् । तथा चागमः
सुबहुं पि सुयमहीयं, किं काही चरणविप्पहीणस्स ? । अंधस्स जह पलिचा, दीवसयसहस्सकोडी वि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org