________________
भाष्यगाथाः ६४८८-९०] षष्ठ उद्देशः।
१७०७ पारगामी, न पल्लवग्राही । 'अशठकरणो नाम' माया-मदविप्रमुक्तो भूत्वा यथोक्तं विहितानुष्ठानं करोति । 'तुलासमो नाम' यथा तुला समस्थिता न मार्गतो न वा पुरतो नमति एवं यो रागद्वेषविमुक्तो माना-ऽपमान-सुख-दुःखादिपु समः स तुलासम उच्यते । 'समितः' पञ्चभिः समितिभिः समायुक्तः । एवंविधगुणोपेतस्येदमध्ययनं दातव्यम् । एवं ददता कल्पस्य-भगवदुक्तस्य श्रुतदानविधेरनुपालना कृता भवति; अथवा कल्पे-कल्पाध्ययने यद् भणितं तस्यानु-5 पालनां यः करोति तस्य दातव्यम् । एवंकुर्वता दीपना-अन्येषामपि मार्गस्य प्रकाशना कृता भवति, यथाऽन्यैरपि एवंगुणवते शिष्याय श्रुतप्रदानं कर्तव्यम् ; अथवा "दीवण" ति यो योग्यविनेयानां 'दीपनाम्' अनालस्येन व्याख्यानं करोति तस्येदं दातव्यम् ; यदि वा दीपना नाम-उत्सर्गयोग्यानामुत्सर्ग दीपयति, अपवादयोग्यानामपवादं दीपयति, उभययोग्यानामुभावपि दीपयति, प्रमादिनां वा दोषान् दीपयति, अप्रमादिनां गुणान् दीपयति । य एतस्यां कल्पानु-10 पालनायां दीपनायां च वर्तते तस्य ज्ञान-दर्शन-चारित्रमयी जघन्या मध्यमा उत्कृष्टा चाऽऽ. राधना भवति । ततश्चाराधनायाः 'छिन्नसंसारी' भवति संसारसन्ततेर्व्यवच्छेदं करोति । तस्यां च व्यवच्छिन्नायां यत् तद् अक्षयमव्याबाधमपुनरावृत्तिकं उपादेयस्थानं तत् प्रामोतीति ॥६४९०॥
॥ कल्पस्थितिप्रकृतं समाप्तम् ॥
-
-
उक्तोऽनुगमः । सम्प्रति नयाः–ते च यद्यपि शतसङ्ख्यास्तथापि ज्ञाननय-क्रियानयद्वयेऽन्त-15 र्भाव्यन्ते । तत्र ज्ञाननयस्यायमभिप्रायः-ज्ञानमेव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणम् । तथा च तदभिप्रायसमर्थिकेयं शास्त्रान्तरोक्ता गाथा
नायम्मि गिहियव्वे, अगिहियव्वम्मि चेव अत्थम्मि ।
जइयव्वमेव इइ जो, उवएसो सो नओ नाम ॥ अस्या व्याख्या-'ज्ञाते' सम्यक् परिच्छिन्ने 'ग्रहीतव्ये' उपादेये 'अग्रहीतव्ये' हेये 20 चशब्दाद् उपेक्षणीये च । एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगः-ज्ञात एव ग्रहीतव्येऽग्रहीतव्ये उपेक्षणीये च, नाज्ञातेऽर्थे ऐहिकामुष्मिकरूपे । तत्रैहिको ग्रहीतव्यः स्रक्. चन्दनादिः, अग्रहीतव्यो विष-शस्त्र-कण्टकादिः, उपेक्षणीयः तृणादिः । आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यादर्शनादिः, उपेक्षणीयो विवक्षयाऽभ्युदयादिः । तस्मिन्नथें यतितव्यमेवेति । अनुखारलोपाद् 'एवम्' अमुना क्रमेण ज्ञानपूर्वकमैहिका-ऽऽमुष्मिकफल-25 प्राप्त्यर्थिना सत्त्वेन 'यतितव्यं' प्रवृत्त्यादिलक्षणः प्रयत्नः कार्यः । इत्थं चैतदङ्गीकर्तव्यम् , सम्यग्ज्ञानमन्तरेण प्रवर्तमानस्य फलविसंवाददर्शनात् । तथा चोक्तमन्यैरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org