SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७०६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कल्प प्रकृते सूत्रम् २० प्रलम्बसूत्रादारभ्य यावदिदं पड्विधकल्पस्थितिसूत्रं तावद य उत्सर्गा-ऽपवादविधिः सूत्रतोऽर्थतश्चोक्तस्तत्रोत्सर्गे प्राप्ते आपवादिकी क्रियां कुर्वाणोऽपवादे च प्राप्ते उत्सर्गक्रियां कुर्वाणोऽर्हतामाशातनायां वर्तते, अर्हत्पज्ञप्तस्य धर्मस्याशातनायां वर्तते, आशातनायां च वर्तमानो दीर्घसंसारी भवति, तस्मात् प्रलम्बसूत्रादारभ्य षड्विधकल्पस्थितिसूत्रं यावद् उत्सर्गे 5 प्राप्ते उत्सर्गः कर्तव्योऽपवादे प्राप्तेऽपवादविधिर्यतनया कर्तव्यः ॥ ६४८७ ॥ एवंकुर्वतां गुणमाह___ छव्विहकप्पस्स ठिति, नाउं जो सद्दहे करणजुत्तो। पवयणणिही सुरक्खितों, इह-परभववित्थरप्फलदो ॥६४८८ ॥ 'षड्विधकल्पस्य' सामायिकादिरूपस्य प्रस्तुतशास्त्रार्थसर्वखभूतस्य 'स्थिति' कल्पनीयाचरणा10ऽकल्पनीयविवर्जनरूपां 'ज्ञात्वा' गुरूपदेशेन सम्यगवगम्य यः 'श्रद्दधीत' प्रतीतिपथमारोपयेत् , न केवलं श्रद्दधीत किन्तु 'करणयुक्तः' यथोक्तानुष्ठानसम्पन्नो भवेत् , तस्याऽऽस्मा एवं सम्यग्ज्ञानश्रद्धान-चारित्रसमन्वितः साक्षात् प्रवचननिधिर्भवति, यथा समुद्रो रत्ननिधिः एवमसावपि ज्ञानादिरत्नमयस्य प्रवचनस्य निधिरित्यर्थः । स च प्रवचननिधिः सुष्ठु-प्रयलेनाऽऽत्म-संयमविरा धनाभ्यो रक्षितः सन् इह-परभवविस्तरफलदो भवति । इहभवे विस्तरेण चारण-वैक्रिया15 ऽऽम!षधिप्रभृतिविविधलब्धिरूपं फलं ददाति, परभवेऽप्यनुत्तरविमानाद्युपपात-सुकुलप्रत्यायातिप्रभृतिकं विस्तरेण फलं प्रयच्छति ॥ ६४८८ ॥ अथेदं कल्पाध्ययनं कस्य न दातव्यम् ? को वाऽपात्राय ददतो दोषो भवति ? इत्यत आह भिण्णरहस्से व गरे, णिस्साकरए व मुक्कजोगी य । छविहगतिगुविलम्मि, सो संसारे भमति दीहे ॥ ६४८९ ॥ 20 इहापवादपदानि रहस्यमुच्यते, भिन्न-प्रकाशितमयोग्यानां रहस्यं येन स भिन्नरहस्यः, अगीतार्थानामपवादपदानि कथयतीत्यर्थः, तत्रैवंविधे नरे । तथा निश्राकरो नाम-यः किञ्चिदपवादपदं लब्ध्वा तदेव निश्रां कृत्वा भणति-यथा एतदेवं करणीयं तथाऽन्यदप्येवं कर्तव्यम् , तत्र । तथा मुक्ताः-परित्यक्ता योगाः-ज्ञान-दर्शन-चारित्र-तपोविषया व्यापारा येन स मुक्तयोगी । ईदृशेऽपात्रे न दातव्यम् । यस्तु ददाति सः 'पड्विधगतिगुपिले' पृथिवी25 कायादित्रसकायान्तषटकायपरिभ्रमणगहने 'दीर्धे' अपारे संसारे भ्राम्यति ॥ ६४८९ ॥ अथ कीदृशस्य दातव्यम् ? को वा पात्रे ददतो गुणो भवति ? इति अत आह अरहस्सधारए पारए य असहकरणे तुलासमे समिते । कप्पाणुपालणा दीवणा य, आराहण छिन्नसंसारी ॥ ६४९० ॥ नास्त्यपरं रहस्यान्तरं यस्मात् तद् अरहस्यम् , अतीवरहस्यच्छेदशास्त्रार्थतत्त्वमित्यर्थः, तद् 30 यो धारयति-अपात्रेभ्यो न प्रयच्छति सोऽरहस्यधारकः । 'पारगः' सर्वस्यापि प्रारब्धश्रुतस्य १°कसंयम-च्छेदोपस्थापनीयसंयमादिरूप कां० ॥ २ कस्मै न कां० ॥ ३ 'नरे' न-रव्यअनमात्रधारके । तथा कां० ॥ ४ स्यभूतं छेद कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy