________________
भाष्यगाथाः ६४७९-८७] षष्ठ उद्देशः ।
१७०५ परिहर्तव्ये, यास्तु उपरितन्यः पञ्चैषणास्तासाम् 'अभिग्रहः' 'एता एव ग्रहीतव्याः' इत्येवंरूपः, तत्राप्येकदैकतरस्यां 'योगः' व्यापारः परिभोग इत्यर्थः । एवं भावितमतयो यदा भवन्ति तदा जिनकल्पिकचारित्रम् ‘उपयान्ति' प्रतिपद्यन्ते ॥ ६४८३ ॥
घितिबलिया तबसूरा, णिति य गच्छातो ते पुरिससीहा ।
बल-वीरियसंघयणा, उवसग्गसहा अभीरू य ॥ ६४८४ ॥ धृतिः-वज्रकुड्यवदभेद्यं चित्तप्रणिधानं तया बलिकाः-बलवन्तः, तथा तपः-चतुर्थादिकं षण्मासिकान्तं तत्र शूराः-समर्थाः, एवंविधाः पुरुषसिंहास्ते गच्छाद् निर्गच्छन्ति । बलं-शारीरं वीर्य-जीवप्रभवं तद्धेतुः संहननम्-अस्थिनिचयात्मकं येषां ते तथा । बल-वीर्यग्रहणं च चतुर्भङ्गीज्ञापनार्थम् , सा चेयम्-धृतिमान् नामैको न संहननवान् , संहननवान् नामैको न धृतिमान् , एको धृतिमानपि संहननवानपि, एको न धृतिमान् न संहननवान् । अत्र तृतीय-10 भङ्गेनाधिकारः । उपसर्गाः-दिव्यादयस्तेषां सहाः-सम्यगध्यासितारः, तथा 'अभीरवः' परीषहेभ्यो न बिभ्यति ॥ ६४८४ ॥ गता जिनकल्पस्थितिः, सम्प्रति स्थविरकल्पस्थितिमाह
संजमकरणुजोवा, णिप्फातग णाण-दसण-चरित्ते ।
दीहाउ वुड्डवासो, वसहीदोसेहि य विमुका ॥ ६४८५ ॥ संयमः-पञ्चाश्रवविरमणादिरूपः पृथिव्यादिरक्षारूपो वा सप्तदशविधः, तं कुर्वन्ति-यथावत् 15 पालयन्तीति संयमकरणाः, नन्द्यादिदर्शनात् कर्तरि अनप्रत्ययः, उद्योतकाः-तपसा प्रवचनस्योज्वालकाः, ततः संयमकरणाश्च ते उद्योतकाश्चेति विशेषणसमासः । यद्वा सूत्रा-ऽर्थपौरुषीकरणेन संयमकरणमुद्योतयन्तीति संयमकरणोद्योतकाः । तथा ज्ञान-दर्शन-चारित्रेषु शिष्याणां निष्पादकास्तेषां वा ज्ञानादीनामव्यवच्छित्तिकारकाः, एवंविधाः स्थविरकल्पिका भवन्तीति शेषः । यदा च ते दीर्घायुषो जङ्घाबलपरिक्षीणाश्च भवन्ति तदा वृद्धावासमध्यासते । तत्रैक- 20 क्षेत्रे वसन्तोऽपि 'वसतिदोषैः' कालातिक्रान्तादिभिः चशब्दाद् आहारोपधिदोषैश्च 'विमुक्ताः' वर्जिता भवन्ति, न तैर्लिप्यन्त इत्यर्थः ॥ ६४८५ ॥
मोत्तुं जिणकप्पठिई, जा मेरा एस वणिया हेवा।
एसा तु दुपदजुत्ता, होति ठिती थेरकप्पस्स ।। ६४८६ ॥ जिनकल्पस्थितिग्रहणेन उपलक्षणत्वात् सर्वेषामपि गच्छनिर्गतानां स्थितिः परिगृह्यते, 25 ततस्तां मुक्त्वा या 'अधस्ताद्' अस्मिन्नेवाध्ययने 'मर्यादा' स्थितिः 'एषा' अनन्तरमेवे वर्णिता; यद्वा सामायिकाध्ययनमादौ कृत्वा यावदस्मिन्नेवाध्ययने इदं षड्विधकल्पस्थितिसूत्रम् , अत्रान्तरे गच्छनिर्गतसामाचारीमुक्त्वा या शेषा सामाचारी वर्णिता सा 'द्विपदयुक्ता' उत्सर्गा-ऽपवादपदद्वययुक्ता स्थविरकल्पस्य स्थितिर्भवति ।। ६४८६ ॥ गता स्थविरकल्पस्थितिः । सम्प्रति प्रस्तुतशास्त्रोक्तविधिवपरीत्यकारिणामपायान् दर्शयन्नाह
30 पलंबादी जाव ठिती, उस्सग्ग-ऽववातियं करेमाणो।
अववाते उस्सग्गं, आसायण दीहसंसारी ॥ ६४८७ ॥ १°सते, तदानीं चैकत्र क्षेत्रे को० ॥२ °व षनिरुद्देशकैर्वणि कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org