________________
15
१७०४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कल्प०प्रकृते सूत्रम् २० अष्टादशभिर्मासैरयं कल्पः समापितो भवति । कथम् ? इत्याह--"मूलठ्ठवणा" इत्यादि । मूलस्थापना नाम-यत् परिहारिकाः प्रथमत इदं तपः प्रतिपद्यन्ते, तस्यां पण्मासा अन्यूनास्तपो भवति, एवमनुपारिहारिकाणां कल्पस्थितस्य च मूलस्थापनया 'समं' तुल्यं तपः प्रत्येकं ज्ञेयम् , षण्मासान् यावदित्यर्थः । एवं त्रिभिः षट्कैरष्टादश मासा भवन्ति ॥ ६४७८ ॥ 5 ते च द्विधा-जिनकल्पिकाः स्थविरकल्पिकाश्च । उभयेषामपि व्याख्यानमाह
एवं समाणिए कप्पे, जे तेसिं जिणकप्पिया।
तमेव कप्पं ऊणा वि, पालए जावजीवियं ॥ ६४७९ ॥ 'एवम्' अनन्तरोक्तविधिनाऽष्टादशभिर्मासैः कल्पे समापिते सति ये तेषां मध्याद् जिनकल्पिकास्ते तमेव कल्पमूना अप्यष्टादिसङ्ख्याका अपि यावज्जीवं पालयन्ति ॥ ६४७९ ।। 10 अट्ठारसेहिं पुण्णेहि, मासेहिं थेरकप्पिया ।
पुणो गच्छं नियच्छंति, एसा तेसिं अहाठिती ॥ ६४८० ॥ ये स्थविरकल्पिकास्तेऽष्टादशभिर्मासैः पूर्णैः 'पुनर्' भूयोऽपि गच्छं नियच्छन्ति, आगच्छन्तीत्यर्थः । एषा तेषां 'यथास्थितिः' यथाकल्पः ॥ ६४८० ॥ अथ षड्विधायां कल्पस्थितौ का कुत्रावतरति ? इत्याह
तइय-चउत्था कप्पा, समोयरंति तु वियम्मि कप्पम्मि ।
पंचम-छट्ठठितीसुं, हेडिल्लाणं समोयारो ॥ ६४८१ ।। 'तृतीय-चतुर्थो' निर्विशमानक-निर्विष्टकायिकाख्यौ कल्पौ 'द्वितीये' छेदोपस्थापनीयनाम्नि कल्पे समवतरतः । तथा सामायिक-च्छेदोपस्थापनीय-निर्विशमानक-निर्विष्टकायिकाख्या
आद्याश्चतस्रः स्थितयोऽधस्तन्य उच्यन्ते, तासां प्रत्येकं 'पञ्चम-षष्ठस्थित्योः' जिनकल्प-स्थविर20 कल्पस्थितिरूपयोः समवतारो भवति ॥ ६४८१ ॥ गतं निर्विशमानक-निर्विष्टकायिककल्पस्थितिद्वयम् । अथ जिनकल्पस्थितिमाह
णिज्जुत्ति-मासकप्पेसु वण्णितो जो कमो उ जिणकप्पे ।
सुय-संघयणादीओ, सो चेव गमो निरवसेसो ॥ ६४८२ ॥ नियुक्ति:-पञ्चकल्पस्तस्यां मासकल्पप्रकृते च यः क्रमः ‘जिनकल्पे' 'जिनकल्पविषयः 35 श्रुतसंहननादिको वर्णितः स एव गमो निरवशेषोऽत्र मन्तव्यः ॥ ६४८२ ॥ ... स्थानाशून्यार्थं पुनरिदमुच्यते
गच्छम्मि य णिम्माया, धीरा जाहे य मुणियपरमत्था । ___ अग्गह जोग अभिग्गहें, उविति जिणकप्पियचरित्तं ॥६४८३॥ यदा गच्छे प्रव्रज्या-शिक्षापदादिक्रमेण 'निर्माताः' निष्पन्नाः, 'धीराः' औत्पत्तिक्यादि30 बुद्धिमन्तः परीषहोपसर्गरक्षोभ्या वा, 'मुणितपरमार्थाः' 'अभ्युद्यतविहारेण विहर्तुमवसरः साम्प्रतमस्माकम्' इत्येवमवगतार्थाः, तथा ययोः पिण्डैषणयोः असंसृष्टा-संसृष्टाख्ययोरग्रहस्ते
१यरंते तु वितियकप्प° ताभा० ॥ २ जो गमो ताभा० ॥ ३ “णिज्जुत्ती पंचकप्पे' इति चूर्णी विशेषचूर्णौ च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org