SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 15 भाष्यगाथाः ६४६९-७८] षष्ठ उद्देशः। १७०३ रोऽपि 'प्रत्येकं' पृथक् पृथक् परिहरन्ति, न परस्परं समुद्देशनादिसम्भोगं कुर्वन्तीत्यर्थः। ते च परिहारिका अभिगृहीतया पञ्चानामुपरितनीनामन्यतरैषणया भक्त-पानं गृह्णन्ति । ये तु चत्वारोऽनुपारिहारिका एकश्च कल्पस्थितस्तेषां पञ्चानामप्येक एव सम्भोगः, ते च प्रतिदिवसमाचाम्लं कुर्वन्ति । यस्तु कल्पस्थितः स खयं न हिण्डते, तस्य योग्यं भक्त-पानमनुपारिहारिका आनयन्ति ॥ ६४७३ ॥ परिहारिआ वि छम्मासे अणुपरिहारिआ वि छम्मासा । कप्पट्टितो वि छम्मासे एतें अट्ठारस उ मासा ॥ ६४७४॥ परिहारिकाः प्रथमतः षण्मासान् प्रस्तुतं तपो वहन्ति, ततोऽनुपरिहारिका अपि षण्मासान वहन्ति, इतरे तु तेषामनुपारिहारिकत्वं प्रतिपद्यन्ते । तैरपि व्यूढे सति कल्पस्थितः षण्मासान् वहति, ततः शेषाणामेकः कल्पस्थितो भवति एकः पुनरनुपरिहारिकत्वं प्रतिपद्यते । एवमेते-10 ऽष्टादश मासा भवन्ति ॥ ६४७४ ॥ अणुपरिहारिगा चेव, जे य ते परिहारिगा। अण्णमण्णेसु ठाणेसु, अविरुद्धा भवंति ते ॥ ६४७५ ॥ अनुपरिहारिकाश्चैव ये च ते परिहारिकास्तेऽन्यान्येषु स्थानेषु कालभेदेन परस्परमे कैकस्य वैयावृत्यं कुर्वन्तोऽविरुद्धा एव भवन्ति ॥ ६४७५ ॥ ततश्च गएहिं छहिं मासेहि, निविट्ठा भवंति ते । ततो पच्छा ववहारं, पट्ठवंति अणुपरिहारिया ॥ ६४७६ ॥ गएहिं छहिँ मासेहि, निविट्ठा भवंति ते । वहइ कप्पट्टितो पच्छा, परिहारं तहाविहं ॥ ६४७७ ॥ ते परिहारिकाः षभिर्मासैर्गतैस्तपसि व्यूढे सति 'निर्विष्टाः' निर्विष्टकायिका भवन्ति । ततः 20 पश्चादनुपरिहारिकाः 'व्यवहारं' परिहारतपसः समाचारं 'प्रस्थापयन्ति' कर्तुं प्रारभन्ते॥६४७६॥ तेऽपि पद्भिर्मासैर्गतैर्निर्विष्टा भवन्ति । पश्चात् कल्पस्थितोऽपि तथाविधं परिहारं तावत एवं मासान् वहति ॥ ६४७७ ॥ एवं च अट्ठारसहिं मासेहिं, कप्पो होति समाणितो । मूलढवणाएँ समं, छम्मासा तु अणूणगा ॥ ६४७८ ॥ १'परिहरन्ति' यथोक्तां सामाचारीमासेवन्ते' न पर' का० ॥ २ 'न् तदेव तपो वह कां० ॥ ३°वति, शेषाः पुनरनुपरिहारिकत्वं परिहारिकत्वं वा यथायोग्यं प्रतिपद्यन्ते । एवमेतेऽष्टादश मासा भवन्ति ॥ ६४७४॥ आह-य एव परिहारिकास्त एवानुपरिहारिकाः य एवानुपरिहारिकास्त एव परिहारिका इति कथं न विरोधः? इति अत्रोच्यते-अणु' कां ॥ ४ 'त्यं तपश्च कु कां० ॥ ५ °वन्ति । यदि हि तेपामित्थमन्योन्यविधि विधानानां कालभेदो न स्यात् तदा स्याद् विरोधः। तच नास्तीति ॥ ६४७५॥ कां ॥ ६ ततो पच्छा ववहारं, पट्टवेति कप्पट्टितो ताभा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy