SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 10 15 १७१२ इह च - ततः--- सनिर्युक्ति-लघुभाष्य-वृत्तिकं वृहत्कल्पसूत्रम् ! - श्रीवज्रसेन इति सद्गुरुरादिमोऽत्र, श्रीपद्मचन्द्रगुरुस्तु ततो द्वितीयः ॥ १६ ॥ तार्तीयकस्तेषां विनेयपरमाणुरनणुशास्त्रेऽस्मिन् । श्री क्षेमकीर्तिसूरिर्विनिर्ममे विवृतिमल्पमतिः ॥ १७ ॥ श्रीविक्रमतः क्रामति, नयनामिगुणेन्दुपरिमिते १३३२ वर्षे । ज्येष्ठश्वेतदशम्यां समर्थितैषा च हस्तार्के ॥ १८ ॥ प्रथमादर्शे लिखिता, नयप्रभप्रभृतिभिर्यतिभिरेषा । गुरुतरगुरुभक्ति भरोद्वहनादिव नम्रतशिरोभिः ॥ १९ ॥ Jain Education International सूत्रादर्शेषु यतो, भूयस्यो वाचना विलोक्यन्ते । विषमाश्च भाष्यगाथाः, प्रायः खल्पाश्च चूर्णिगिरः ॥ २० ॥ सूत्रे वा भाष्ये वा, यन्मतिमोहान्मयाऽन्यथा किमपि । लिखितं वा विवृतं वा, तन्मिथ्या दुष्कृतं भूयात् ॥ २१ ॥ ॥ समाप्तोऽयं ग्रन्थः ॥ ॥ ग्रन्थाग्रम् - ४२६०० ॥ १ ज्येष्ठे श्वेतनवम्यां, भा० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy