SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६४६०-६८] पष्ठ उद्देशः । १७०१ ण तेसिं जायती विग्धं, जा मासा दस अट्ट य । ण वेयणा ण वाऽऽतंको, णेव अण्णे उवद्दवा ॥६४६४ ॥ अट्ठारससु पुण्णेसु, होज एते उवद्दवा।। ऊणिए ऊणिए यावि, गणे मेरा इमा भवे ॥ ६४६५ ॥ 'तेषाम्' एवं कल्पं प्रतिपन्नानां न जायते 'विघ्नः' अन्यत्र संहरणादिः, यावद् मासा दशाष्टौ च, अष्टादश इत्यर्थः । न वेदना न वा आतङ्कः नैवान्ये केचनोपद्रवाः प्राणव्यपरोपणकारिण उपसर्गाः । अष्टादशसु मासेषु पूर्णेषु भवेयुरपि एते उपद्रवाः । उपद्रवैश्व यदि तेषामेको द्वौ त्रयो वा नियन्ते, अथवा तेषां कोऽपि स्थविरकल्पं जिनकल्पं वा गतो भवति, शेषास्तु तमेव कल्पमनुपालयितुकामास्तत एवमूनिते ऊनिते गणे जाते इयं 'मर्यादा' सामाचारी भवति । इहोनिते ऊनिते इति द्विरुच्चारणं भूयोऽप्यष्टादशसु मासेषु पूर्णेषु एष एवं 10 विधिरिति ज्ञापनार्थम् ॥ ६४६४ ॥ ६४६५॥ एवं तु ठाविए कप्पे, उवसंपजति जो तहिं । एगो दुवे अणेगा वा, अविरुद्धा भवंति ते ॥ ६४६६ ॥ 'एवम्' अनन्तरोक्तनीत्या कल्पे स्थापिते सति यदि एकादयो म्रियेरन् , अन्यत्र वा गच्छेयुः, ततो यस्तत्र उपसम्पद्यते स एको वा द्वौ वाऽनेके वा भवेयुः । तत्र यावद्भिः पारि-15 हारिकगण ऊनस्तावतामुपसम्पदर्थमागतानां मध्याद् गृहीत्वा गणः पूर्यते । ये शेषास्ते पारिहारिकतपस्तुलनां कुर्वन्तस्तिष्ठन्ति । ते च पारिहारिकैः सार्द्ध तिष्ठन्तोऽविरुद्धा भवन्ति, पारिहारिकाणामकल्पनीया न भवन्तीत्युक्तं भवति । ते च तावत् तिष्ठन्ति यावदन्ये उपसम्पदर्थमुपतिष्ठन्ते । तैः पूरयित्वा पृथग् गणः क्रियते ॥ ६४६६ ॥ इदमेव व्याख्यातितत्तो य ऊणए कप्पे, उवसंपजति जो तहिं। 20 अँत्तिएहिं गणो ऊणो, तत्तिते तत्थ पक्खिवे ॥ ६४६७ ॥ 'ततश्च' पूर्वोक्तकारणाद् ‘ऊनके' एक-यादिभिः साधुभिरपूणे कल्पे यस्तत्रोपसम्पयते तत्रायं विधिः-'यावद्भिः' एकादिसङ्ख्याकैः स गण ऊनः 'तावतः' तावत्सङ्ख्याकानेव साधून 'तत्र' गणे 'प्रक्षिपेत्' प्रवेशयेत् ॥ ६४६७ ॥ तत्तो अणूणए कप्पे, उवसंपजति जो तहिं । उवसंपज्जमाणं तु, तप्पमाणं गणं करे ॥ ६४६८॥ अथ कोऽप्युपद्रवैर्न कालगतस्तत एवमन्यूनके कल्पे ये तत्रोपसम्पद्यन्ते ते यदि नव जनाः पूर्णास्ततः पृथग् गणो भवति । अथापूर्णास्ततः प्रतीक्षाप्यन्ते यावदन्ये उपसम्पदर्थमागच्छन्ति । ततस्तमुपसम्पद्यमानं साधुजनं मीलयित्वा 'तत्प्रमाणं' नवपुरुषमानं गणं 'कुर्यात्' स्थापयेत् ॥ ६४६८॥ 30 १ न 'वेदना' चिरघातिरोगरूपा न वा 'आतङ्कः' सद्योघातिशूलादिलक्षणः नैवा कां०॥ २ कारिणो देवादिकृता उप° कां० ॥ ३ वा जिनकल्पादौ गच्छे° कां० ॥ ४ जत्तिएण गणो कां. विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy