________________
१७००
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ कल्प०प्रकृते सूत्रम् २०
भक्ते उपलक्षणत्वात् पानके च संसृष्टा ऽसंसृष्टाख्यमाद्यमेपणाद्वयं वर्जयित्वा पञ्चभिः उपरितनीभिरेषणाभिः ' आग्रह : ' स्वीकारः । तत्रापि 'एकस्याम् ' एकतरस्यामभिग्रहः, एकया कयाचिद् भक्तमपरया पानकमन्वेषयन्तीत्यर्थः । आह च वृहद्भाष्यकृत् - संस माइयाणं, सत्तहं एसणाण उ ।
आइल्लाह उ दोहिं तु, अग्गहो गह पंचहिं ॥
तत्थ वि अन्नयरीए, एगीए अभिग्गहं तु काऊणं । ति ।
उपधिः- वस्त्रादिरूपस्तस्य उद्दिष्ट - प्रेक्षा - अन्तरा - उज्झितधर्मिकाख्याः पीठिकायां व्याख्याता याश्च षणास्तत्र 'द्वयोः ' उपरितनयो: 'आग्रह : ' स्वीकार: । ' इतर : ' अभिग्रहः स एकतरस्यामुपरितन्यां भवति, यदा चतुर्थ्यां न तदा तृतीयायाम् यदा तृतीयायां न तदा चतुर्थ्यां 10 गृहन्तीति भावः ॥ ६४५९ ॥ कदा पुनस्तेऽमुं कल्पं प्रतिपद्यन्ते : इत्याहअइरोग्गयम्मि सूरे, कप्पं देसिंति ते इमं ।
5
आलोय - पडिक्कता, ठावयंति तओ गणे ॥ ६४६० ॥
अचिरोद्गते सूर्ये 'ते' भगवन्तः कल्पमिमं 'देशयन्ति' स्वयं प्रतिपत्त्याऽन्येषां दर्शयन्ति । ततः ‘आलोचित-प्रतिक्रान्ताः' आलोचनाप्रदानपूर्वं प्रदत्तमिथ्यादुष्कृतास्त्रीन् गणानूं स्थापयन्ति 15 || ६४६० ॥ तेषु च त्रिषु गणेषु कियन्तः पुरुषा भवन्ति ? इत्याह
सत्तावीस होणं, उक्कोसेण सहस्तसो ।
निग्गंथरा भगवंतो, सव्वग्गेणं वियाहिया || ६४६१ ॥
सप्तविंशतिपुरुषा जघन्येनं भवन्ति, एकैकस्मिन् गणे नव जना भवन्ति इति भावः उत्कर्षतः ‘सहस्रशः' सहस्रसङ्ख्याः पुरुषा भवन्ति, शताग्रशो गणानामुत्कर्षतैः वक्ष्यमाणत्वात् । 20 एवं ते भगवन्तो निर्ग्रन्थसूराः 'सर्वाग्रेण ' सर्व सख्यया व्याख्याताः ॥ ६४६१ ॥
गणमङ्गीकृत्य प्रमाणमाह
सयग्गसो य उक्कोसा, जहणणेण तओ गणा ।
गणो य णवतो वृत्तो, एमेता पडिवत्तितो ॥ ६४६२ ॥
'शताग्रशः' शतसङ्ख्या गणा उत्कर्षतोऽमीष भवन्ति, जघन्येन त्रयो गणाः । गणश्च 'नवकः ' 25 नवपुरुषमान उक्तः । एवमेताः 'प्रतिपत्तयः' प्रमाणादिविषयाः प्रकारा मन्तव्याः ॥ ६४६२ ॥ एगं कप्पट्ठियं कुञ्जा, चत्तारि परिहारिए । अणुपरिहारिगा चेव, चउरो तेर्सि ठाव ॥ ६४६३ ॥
नवानां जनानां मध्यादेकं कल्पस्थितं गुरुकल्पं कुर्यात् । चतुरः परिहारिका कुर्यात् । तेषां शेषांश्चतुरोऽनुपहारिकानूँ स्थापयेत् ॥ ६४६३ ॥
१ न् जघन्यतोऽपि स्था कां० ॥ २ न त्रिषु गणेषु समुदितेषु भव" कां० ॥ ३ 'तः प्रथमतः प्रतिपद्यमानकानां वक्ष्य' कां० ॥ ४ षां प्रथमतः प्रतिपत्तारो भव' कां ० ॥ ५ एवं प्रतिपन्ने सति कल्पे यो विधिर्विधेयस्तं दर्शयन्नाह इत्यवतरणं कां० ॥ प्रपन्नान् कु ̊ कां० ॥ ७ 'नू तदीयवैयावृत्यकरकल्पान् स्था° कां० ॥
६°नू तपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org