SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १६९८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कल्प०प्रकृते सूत्रम् २० पूर्वशतसहस्राणि 'पूर्वस्य' ऋषभस्वामिनस्तीर्थे परिहारकल्पोऽनुसजति । 'पश्चिमस्य तु' श्रीवर्द्धमानस्वामिनस्तीर्थे 'विंशत्यग्रशः' कतिपयविंशतिसङ्ख्यापरिच्छिन्नानि वर्षाणि परिहारकल्पोऽनुसजति । तत्र ऋषभस्वामिनस्तीर्थे यानि पूर्वशतसहस्राण्युक्तानि तानि देशोने द्वे पूर्वकोटी मन्तव्ये । कथम् ? इति चेद् उच्यते-इह पूर्वकोट्यायुषो मनुष्या जन्मत आरभ्य 5 सञ्जाताष्टवर्षाः प्रवजिताः, तेषां च नवमे वर्षे उपस्थापना सञ्जाता, एकोनविंशतिवर्षपर्यायाणां च दृष्टिवाद उद्दिष्टः, तस्य वर्षेण योगः समाप्तिं नीतः, एवं नव विंशतिश्च मिलिता एकोनत्रिंशद् वर्षाणि भवन्ति, एतावत्सु वर्षेषु गतेषु ऋपभस्वामिनः पार्थे परिहारकल्पं प्रतिपन्नाः, तत एकोनत्रिंशद्वर्षन्यूनां पूर्वकोटी परिहारकल्पे तैरनुपालिते सति येऽन्ये तेषां मूले परिहारकल्पं प्रतिपद्यन्ते तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यूनां पूर्वकोटीमनुपालयन्ति, एवं देशोने द्वे पूर्वकोटी 10 भवतः । पश्चिमस्य तु यानि विंशत्यग्रशो वर्षाण्युक्तानि तानि देशोने द्वे वर्षशते भवतः ॥ ६४५०॥ तथा चाह पव्वज अट्ठवासस्स, दिहिवातो उ वीसहि । इति एकूणतीसाए, सयमणं तु पच्छिमे ॥ ६४५१ ॥ पालइत्ता सयं ऊणं, वासाणं ते अपच्छिमे । 15 काले देसिंति अण्णेसिं, इति ऊणा तु बे सता॥ ६४५२ ॥ श्रीवर्द्धमानखामिकाले वर्षशतायुषो मनुष्याः, तत्र 'अष्टवर्षस्य' जन्मनः प्रभृति सञ्जातवर्षाष्टकस्य कस्यापि प्रव्रज्या सञ्जाता, पूर्वोक्तरीत्या च विंशत्या वर्षैदृष्टिवादो योगतः समर्थितः, ततः श्रीमन्महावीरसकाशे परिहारकल्पं नव जनाः प्रतिपद्य देशोनवर्षशतमनुपालयन्ति इत्येवमेकोनत्रिंशता वरूनं शतं 'पश्चिमे' पश्चिमतीर्थकरकाले भवति ॥ ६४५१ ॥ 20 ततस्ते वर्षाणां शतमूनं तं कल्पं पालयित्वा 'अपश्चिमे काले' निजायुषः पर्यन्तेऽन्येषां तं __ कल्पं 'दिशन्ति' प्ररूपयन्ति, प्रवर्तयन्तीति भावः । तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यूनं शतं पाल. यन्ति । 'इति' एवं द्वे शते ऊने वर्षाणां भवत इति ॥ ६४५२ ॥ किमर्थं तृतीया पूर्वकोटी तृतीयं वा वर्षशतं न भवति ? इत्याह पडिवना जिणिंदस्स, पादमूलम्मि जे विऊ । ठावयंति उ ते अण्णे, णो उ ठावितठावगा ॥ ६४५३ ॥ जिनेन्द्रस्य पादमूले ये विद्वांसः प्रस्तुतं कल्पं प्रतिपन्नास्त एवान्यास्तत्र कल्पे स्थापयन्ति, न तु 'स्थापितस्थापकाः' जिनेन स्थापिता स्थापका येषां ते स्थापितस्थापकास्तेऽमुं कल्पमन्येषां न स्थापयन्ति । इदमत्र हृदयम्-इयमेवास्य कल्पस्य स्थितियत् तीर्थकरसमीपे वाऽमुं प्रति पद्यन्ते, तीर्थकरसमीपप्रतिपन्नसाधुसकाशे वा, नाऽन्येषाम् । अतस्तृतीये पूर्वकोटि-वर्षशते न 30 भवत इति ॥ ६४५३ ॥ अथ कीदृग्गुणोपेता अमी भवन्ति ? इत्याह सव्वे चरित्तमंतो य, दंसणे परिनिहिया। णवपुधिया जहन्नेणं, उकोस दसपुविया ॥ ६४५४॥ १ ह ऋषभनाथकाले पूर्व का० ॥ २ नं परिहारकल्पं शतं कां ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy