SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६४४०-५०] षष्ठ उद्देशः । १६९७ सरिकप्पे सरिछंदे, तुल्लचरिते विसिट्टतरए वा । साहूहिं संथवं कुजा, णाणीहि चरित्तगुत्तेहिं ॥ ६४४५ ॥ 'सदृकल्पः' स्थितकल्प-स्थापनाकल्पादिभिरेककल्पवर्ती 'सदृक्छन्दः' समानसामाचारीकः 'तुल्यचारित्रः' समानसामायिकादिसंयमः 'विशिष्टतरो वा' तीव्रतरशुभाध्यवसायविशेषेणो. त्कृष्टतरेषु संयमस्थानकण्डकेपु वर्तमानः, ईदृशा ये ज्ञानिनश्चारित्रगुप्ताश्च तैः सह 'संस्तवं' 5 परिचयमेकत्र संवासादिकं कुर्यात् ॥ ६४४५ ॥ सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्टतरए वा । आदिज भत्त-पाणं, सतेण लाभेण वा तुस्से ॥ ६४४६॥ यः सदृक्कल्पः सदृक्छन्दस्तुल्यचारित्रो विशिष्टतरो वा 'तेन' एवंविधेन साधुनाऽऽनीतं भक्त-पानमाददीत, 'खकीयेन वा' आत्मीयेन लाभेन तुष्येत् , हीनतरसत्कं न गृह्णीयात् 10 ॥ ६४४६ ॥ तदेवमुक्ता छेदोपस्थापनीयकल्पस्थितिः। अथ निर्विशमान-निर्विष्टकायिककल्पस्थितिद्वयं विवरीपुराह-- परिहारकप्पं पवक्खामि, परिहरंति जहा विऊ । आदी मज्झऽवसाणे य, आणुपुबि जहकमं ॥ ६४४७ ॥ परिहारकल्पं प्रवक्ष्यामि, कथम् ? इत्याह-यथा 'विद्वांसः' विदितपूर्वगतभुतरहस्यास्तं 15 कल्पं 'परिहरन्ति' धातूनामनेकार्थत्वाद् आसेवन्ते । कथं पुनः वक्ष्यसि ? इति अत आह'आदौ' तत्प्रथमतया प्रतिपद्यमानानां 'मध्ये' प्रतिपन्नानाम् 'अवसाने' प्रस्तुतकल्पसमाप्तौ या 'आनुपूर्वी सामाचार्याः परिपाटिः तां यथाक्रमं प्रवक्ष्यामीति सण्टङ्कः ॥ ६४४७ ।। तत्र कतरस्मिन् तीर्थे एष कल्पो भवति ? इति जिज्ञासायामिदमाहभरहेरवएसु वासेसु, जता तित्थगरा भवे ।। 20 पुरिमा पच्छिमा चेव, कप्पं देसेंति ते इमं ॥ ६४४८॥ भरतैरावतेषु वर्षेषु दशखपि यदा तृतीय-चतुर्थारकयोः पश्चिमे भागे पूर्वाः पश्चिमाश्च तीर्थकरा भवेयुः तदा ते भगवन्तः 'इम' प्रस्तुतं कल्पं 'दिशन्ति' प्ररूपयन्ति, अर्थादापन्नम्मध्यमतीर्थकृतां महाविदेहेषु च नास्ति परिहारकल्पस्थितिरिति ॥ ६४४८ ॥ आह यदि एवं ततः 26 केवइयं कालसंजोगं, गच्छो उ अणुसजती । तित्थयरेसु पुरिमेसु, तहा पच्छिमएसु य ॥६४४९ ॥ कियन्तं कालसंयोग परिहारकल्पिकानां गच्छः पूर्वेषु पश्चिमेषु च तीर्थकरेषु 'अनुसजति' परम्परयाऽनुवर्तते ? ॥ ६४४९ ॥ एवं शिष्येण पृष्टे सति सूरिराह - पुव्वसयसहस्साई, पुरिमस्स अणुसजती । [आव.नि. २८३] 30 वीसग्गसो य वासाइं, पच्छिमस्साणुसजती ॥ ६४५०॥ १°नकल्पस्थिति-निर्विष्टकायिककल्पस्थितिद्वयं युगपदेव विव' का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy