SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६९६ सामाचारीकर्ता विहारे 'विशुध्यति' विशुद्धो भवति ॥ ६४३९ ॥ यतश्चैवमतःजो कप्पठिति एयं, सद्दहमाणो करेति सट्टाणे | तारिसं तु गवेसेजा, जतो गुणाणं ण परिहाणी || ६४४० ॥ यः 'एनाम्' अनन्तरोक्तां कल्पस्थिति श्रद्दधानः स्वस्थाने करोति । स्वस्थानं नाम-स्थित5 कल्पेऽनुवर्तमाने स्थितकल्पसामाचारीम् अस्थितकल्पे पुनरस्थितकल्पसामाचारीं करोति । ‘तादृशं’ संविग्नविहारिणं साधुं ' गवेषयेत्' तेन सहैकत्र सम्भोगं कुर्यात्, 'यतः' यस्माद् 'गुणानां ' मूलगुणोत्तरगुणानां परिहाणिर्न भवति ॥ ६४४० ॥ इदमेव व्यक्तीकर्तुमाहठिक पम्म दसविधे, ठवणाकप्पे य दुविहमण्णयरे । उत्तरगुणकप्पम्मि य, जो सरिकप्पो स संभोगो ॥ ६४४१ ॥ 'स्थितकल्पे' आचेलक्यादौ देशविधे 'स्थापनाकल्पे च वक्ष्यमाणे द्विविधान्यतरस्मिन् उत्तरगुणकल्पे च यः 'सहकल्पः ' तुल्यसामाचारीकः सः 'सम्भोग्यः' सम्भोक्तुमुचितः ॥ ६४४१ ॥ अत्र दशविधः स्थितकल्पोऽनन्तरमेवोक्तेः । स्थापनाकल्पादिपदानि तु व्याख्यातुकाम आह— auraप्पो दुविहो, अकप्पठवणा य सेहठवणा य । पदमो अकप्पिएणं, आहारादी ण गिण्हावे ।। ६४४२ ॥ 15 स्थापनाकल्पो द्विविधः - अकल्पस्थापनाकल्पः शैक्षस्थापनाकल्पश्च । तत्र 'अकल्पिकेन ' अनघीतपिण्डेषणादिसूत्रार्थेन आहारादिकं 'न ग्राहयेत्' नाऽऽनाययेत् तेनानीतं न कल्पत इत्यर्थः । एष प्रथमोऽकल्पस्थापनाकल्प उच्यते ॥ ६४४२ ॥ अट्ठारसेव पुरिसे, वीसं इत्थीओं दस पुंसा य । दिक्खेति जो ण एते, सेहट्टवणाऍ सो कप्पो ॥ ६४४३ ॥ अष्टादश भेदाः 'पुरुषे' पुरुषविषयाः, विंशतिः स्त्रियः, दश नपुंसकाः, एतानष्टचत्वारिंशतमनलान् शैक्षान् यो न दीक्षते से एष कल्प-कल्पवतोरभेदात् शैक्षस्थापनाकल्प उच्यते ॥ ६४४३ ॥ आहार - उवहि- सेजा, उग्गम-उप्पादणेसणासुद्धा | [पि.नि. ६२१] जो परिगिण्हति णिययं, उत्तरगुणकप्पिओ स खलु ॥ ६४४४ ॥ आहारोपधि-शय्या उद्गमोत्पादनैषणाशुद्धाः 'नियतं ' निश्चितं परिगृह्णाति स खलूत्तरगुणकल्पिको मन्तव्यः ॥ ६४४४ ॥ एतेषु सदृशकल्पेन सह किं कर्तव्यम् ? इत्याह 10 20 25 सनिर्युक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ कल्प०प्रकृते सूत्रम् २० Jain Education International " १ 'दशविधे' दशप्रकारे ' स्थापनाकल्पे च' वक्ष्यमाणलक्षणे 'द्विविधान्यतरस्मिन् ' द्वयोः प्रकारयोरेकतरस्मिन् तथा 'उत्तरगुणकल्पे च' पिण्डविशुद्ध्यादौ यः 'सहक्कल्पः' कां• ॥ २ 'क्तः । अतः स्थापनाकल्पादिपदानि शेषाणि यथाक्रमं व्याख्या कां० ॥ ३ स एषः 'शैक्षस्थापनायां' योग्याऽयोग्य शैक्षदीक्षणाऽदीक्षणव्यवहाररूपायां 'कल्प्यः' कल्पिक उच्यते, अर्थात् तद्विषयो य आचारः स शैक्षस्थापनाकल्पः ॥ ६४४३ ॥ उक्तो द्विविधो ऽपि स्थापनाकल्पः । सम्प्रत्युत्तरगुणकल्पमाह - आहार कां० ॥ ४°ल्पिको अर्थात् तद्विषया या व्यवस्था स उत्तरगुणकल्पो मन्त° कां० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy