SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६९५ 10 भाष्यगाथाः ६४३१-३९] षष्ठ उद्देशः । 'स्थविराणां' स्थविरकल्पिकानां प्रथम-पश्चिमतीर्थकरसत्कानां सप्ततिर्दिनानि, खलुशब्दो जघन्यत इत्यस्य विशेषस्य द्योतनार्थः, वर्षासु पर्युषणाकल्पो भवति । तेषामेव ऋतुबद्धे मासमेकमेकत्रावस्थानरूपो मासकल्पः स्थितो भवति । 'कार्ये पुनः' अशिवादी 'व्यत्यासितः' विपर्यस्तोऽपि भवति, हीनाधिकप्रमाण इत्यर्थः । 'जिनानां तु' प्रथम-चरमतीर्थकरसत्कजिनकल्पिकानामृतुबद्धे नियमादष्टौ मासकल्पा वर्षासु चत्वारो मासा अन्यूनाधिकाः स्थितकल्पतया मन्तव्याः, निरपवादानुष्ठानपरत्वादेषामिति भावः ॥ ६४३४ ॥ दोसाऽसति मज्झिमगा, अच्छंती जाव पुचकोडी वि । विचरंति अ वासासु वि, अकद्दमे पाणरहिए य ॥ ६४३५॥ भिण्णं पि मासकप्पं, करेंति तणुगं पि कारणं पप्प । जिणकप्पिया वि एवं, एमेव महाविदेहेसु ॥ ६४३६ ॥ ये तु 'मध्यमाः' अस्थितकल्पिकाः साधवस्ते दोषाणाम्-अप्रीतिक-प्रतिबन्धादीनां असतिअभावे पूर्वकोटीमप्येकत्र क्षेत्रे आसते । तथा वर्षाखपि 'अकर्दमे' प्रम्लानचिक्खल्ले प्राणरहिते च भूतले जाते सति 'विचरन्ति' विहरन्ति; ऋतुबद्धेऽपि यदि अप्रीतिकावग्रहो वसतेाघातो वा भवेत् ॥ ६४३५॥ तत एवमादिकं 'तनुकमपि' सूक्ष्ममपि कारणं प्राप्य मासकल्पं भिन्नमपि कुर्वन्ति, अपूर-15 यित्वा निर्गच्छन्तीत्यर्थः । जिनकल्पिका अपि मध्यमतीर्थकरसत्का एवमेव मासकल्पे पर्युषणा. कल्पे च अस्थिताः प्रतिपत्तन्याः । एवमेव च महाविदेहेषु ये स्थविरकल्पिका जिनकल्पिकाश्च तेऽप्यस्थितकल्पिकाः प्रतिपत्तव्याः॥६४३६ ॥ गतं पर्युषणाकल्पद्वारम् । अथैतस्मिन् दशविधे कल्पे यः प्रमाद्यति तस्य दोषमभिधित्सुराह एवं ठियम्मि मेरं, अट्ठियकप्पे य जो पमादेति । सो वट्टति पासत्थे, ठाणम्मि तगं विवजेजा ॥ ६४३७॥ _ 'एवम्' अनन्तरोक्तनीत्या या स्थितकल्पेऽस्थितकल्पे च 'मर्यादा' सामाचारी भणिता तां मर्यादां यः 'प्रमादयति' प्रमादेन परिहापयति सः 'पार्थस्थे' पार्श्वस्थसत्के स्थाने वर्तते; ततस्तकं विवर्जयेत् , तेन सह दान-ग्रहणादिकं सम्भोगं न कुर्यादिति भावः ॥ ६४३७ ॥ कुतः ? इत्यत आह 25 पासत्थ संकिलिटुं, ठाणं जिण वुत्तं थेरेहि य ।। तारिसं तु गवसंतो, सो विहारे ण सुज्झति ॥ ६४३८ ॥ 'पार्श्वस्थ' पार्श्वस्थसत्कं 'स्थानम्' अपराधपदं 'संक्लिष्टम्' अशुद्धं 'जिनैः' तीर्थकरैः 'स्थविरैश्च' गौतमादिभिः प्रोक्तम् , ततस्तादृशं स्थानं गवेषयन् 'सः' यथोक्तसामाचारीपरिहापयिता विहारे न शुध्यति, नासौ संविनविहारीति भावः ॥ ६४३८ ॥ पासस्थ संकिलिहँ, ठाणं जिण वुत्तं थेरेहि य । तारिसं तु विवजेतो, सो विहारे विसुज्झति ॥ ६४३९ ॥ पार्श्वस्थं स्थानं संक्लिष्टं जिनैः स्थविरैश्च प्रोक्तम् , ततस्तादृशं स्थानं विवर्जयन् 'सः' यथो 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy