________________
१६९४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कल्प०प्रकृते सूत्रम् २० भावात्मकं करोति । ततः 'तृतीयसमाधिकरस्य' तृतीयस्य वैद्यस्य रसायनं दण्डिकसुतस्य योग्यमिति कृत्वा राज्ञा कारितम् ॥ ____ एवं प्रतिक्रमणमपि यदि अतिचारलक्षणो दोषो भवति ततस्तं छिनत्ति, अथ नास्ति दोषस्ततोऽसति दोषे महतीं कर्मनिर्जरां करोति । एवं 'कुशल चिकित्सस्य' तृतीयवैद्यस्य रसायनेन 5 'उपनीतम्' उपनयं प्रापितमिदं प्रतिक्रमणं मन्तव्यम् ॥ ६४२८ ॥ ६४२९ ॥ ६४३० ॥ गतं प्रतिक्रमणद्वारम् । अथ मासकल्पद्वारमाह
दुविहो य मासकप्पो, जिणकप्पे चेव थेरकप्पे य ।
एकेको वि य दुविहो, अट्ठियकप्पो य ठियकप्पो॥ ६४३१ ॥ द्विविधो मासकल्पः, तद्यथा-जिनकल्पे चैव स्थविरकल्पे च । पुनरेकैको द्विविधः10 अस्थितकल्पः स्थितकल्पश्च । तत्र मध्यमसाधूनी मासकल्पोऽस्थितः, पूर्व-पश्चिमानां तु स्थितः । ततः पूर्व-पश्चिमाः साधवो नियमाद् ऋतुबद्धे मासं मासेन विहरन्ति । मध्यमानां पुनरनियमः, कदाचिद् मासमपूरयित्वाऽपि निर्गच्छन्ति कदाचित्तु देशोनपूर्वकोटीमप्येकत्र क्षेत्रे आसते ॥ ६४३१ ॥ गतं मासकल्पद्वारम् । अथ पर्युषणाद्वारमाह
पजोसवणाकप्पो, होति ठितो अद्वितो य थेराणं । 10
एमेव जिणाणं पि य, कप्पो ठितमट्टितो होति ॥ ६४३२ ॥ __ पर्युषणाकल्पः स्थविरकल्पिकानां जिनकल्पिकानां च भवति । तत्र स्थविराणां स्थितोऽस्थितश्च भवति । एवमेव जिनानामपि स्थितोऽस्थितश्च पर्युषणाकल्पः प्रतिपत्तन्यः ॥६४३२॥ इदमेव भावयति
चाउम्मासुक्कोसे, सत्तरिराइंदिया जहण्णेणं । 20 ठितमद्वितमेगतरे, कारणवच्चासितऽण्णयरे ॥ ६४३३ ॥
उत्कर्षतः पर्युषणाकल्पश्चतुर्मासं यावद् भवति, आषाढपूर्णिमायाः कार्तिकपूर्णिमा यावदित्यर्थः । जघन्यतः पुनः सप्ततिरात्रिन्दिवानि, भाद्रपदशुक्ल पञ्चम्याः कार्तिकपूर्णिमां यावदित्यर्थः । एवं विधे पर्युषणाकल्प पूर्व-पश्चिमसाधवः स्थिताः । मध्यमसाधवः पुनरस्थिताः । ते हि
यदि वर्षारात्रो भवति मेघवृष्टिरित्यर्थः, तत एकत्र क्षेत्रे तिष्ठन्ति अन्यथा तु विहरन्ति । पूर्व26 पश्चिमा अपि 'अन्यतरस्मिन्' अशिवादौ कारणे समुत्पन्ने 'एकतरस्मिन्' मासकल्पे पर्युषणा
कल्पे वा 'व्यत्यासितं' विपर्यस्तमपि कुर्युः । किमुक्तं भवति ?–अशिवादिभिः कारणैर्ऋतुबद्धे मासमूनमधिकं वा तिष्ठेयुः, वर्षाखपि तैरेव कारणैश्चतुर्मासमपूरयित्वाऽपि निर्गच्छन्ति परतो वा तत्रैव क्षेत्रे तिष्ठन्ति ॥ ६४३३ ॥ इदमेवाह
थेराण सत्तरी खलु, वासासु ठितो उडुम्मि मासो उ ।
बच्चासितो तु कजे, जिणाण नियमऽट चउरो य ॥ ६४३४ ॥ १°नां महाविदेहसाधूनां च मास' कां ॥ २°णां स्थविरकल्पिकानां स्थि° का० ॥ ३ मपि जिनकल्पिकानां स्थि° को० ॥ ४°मात आरभ्य कार्ति कां० ॥ ५ म्या:प्रारभ्य कार्ति का०॥ ६ ग्रन्थाग्रं १०००० को० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org