SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 15 १६९२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कल्प०प्रकृते सूत्रम् २० भवति तत आलोचित-प्रतिक्रान्तं तं मूलच्छेद्यं प्रायश्चित्तं कारयेत् । वाशब्दोपादानाद् यदि तपोऽहप्रायश्चित्तमापन्नस्ततः तपोऽर्हमेव दद्यात् , तत्रापि यद् मासलघुकादिकमापन्नस्तदेव दद्यात् ॥ ६४२० ॥ अथ हीनादिकं ददाति ततो दोषा भवन्तीति दर्शयति जं जो उ समावन्नो, जं पाउग्गं व जस्स वत्थुस्स । 5 तं तस्स उदायव्वं, असरिसदाणे इमे दोसा ॥ ६४२१ ॥ 'यत्' तपोऽहं छेदाह वा प्रायश्चित्तं यः समापन्नः, यस्य वा 'वस्तुनः' आचार्यादेरसहिष्णुप्रभृतेर्वा 'यत्' प्रायश्चित्तं 'प्रायोग्यम्' उचितं तत् तस्य दातव्यम् । अथासदृशम्-अनुचितं ददाति तत इमे दोषाः ॥ ६४२१॥ . अप्पच्छित्ते य पच्छित्तं, पच्छित्ते अतिमत्तया। धम्मस्साऽऽसायणा तिव्वा, मग्गस्स य विराहणा ॥ ६४२२ ॥ 'अप्रायश्चित्ते' अनापद्यमानेऽपि प्रायश्चित्ते यः प्रायश्चित्तं ददाति प्राप्ते वा प्रायश्चित्ते यः 'अतिमात्रम्' अतिरिक्तप्रमाणं प्रायश्चित्तं ददाति सः 'धर्मस्य' श्रुतधर्मस्य तीव्रामाशातनां करोति, 'मार्गस्य च' मुक्तिपथस्य सम्यग्दर्शनादेः विराधनां करोति ॥ ६४२२ ॥ किश्च ___ उस्सुत्तं ववहरंतो, कम्मं बंधति चिक्कणं । संसारं च पवड्वेति, मोहणिजं च कुव्वती ॥ ६४२३ ॥ 'उत्सूत्र' सूत्रोत्तीर्णं राग-द्वेषादिना 'व्यवहरन्' प्रायश्चित्तं प्रयच्छन् 'चिक्कणं' गाढतरं कर्म बध्नाति, संसारं च 'प्रवर्द्धयति' प्रकर्षेण वृद्धिमन्तं करोति, 'मोहनीयं च' मिथ्यात्वमोहादिरूपं करोति ॥ ६४२३ ॥ इदमेव सविशेषमाह उम्मग्गदेसणाए य, मग्गं विप्पडिवातए । [आव.नि. ११५२] 20 . परं मोहेण रंजितो, महामोहं पकुव्वती ॥ ६४२४ ॥ ___ 'उन्मार्गदेशनया च' सूत्रोत्तीर्णप्रायश्चित्तादिमार्गप्ररूपणया 'मार्ग' सम्यग्दर्शनादिरूपं विविधैः प्रकारैः प्रतिपातयति-व्यवच्छेदं प्रापयति । तत एवं परमपि मोहेन रञ्जयन् महामोहं प्रकरोति । तथा च त्रिंशति महामोहस्थानेषु पठ्यते"नेयाउयस्स मग्गस्स, अवगारम्मि वट्टई ।" (आव० प्रति० अध्य० संग्र० हरि० टीका पत्र ६६१) यत एवमतो न हीनाधिकं प्रायश्चित्तं दातव्यमिति ॥ ६४२४ ॥ गतं ज्येष्ठद्वारम् । अथ प्रतिक्रमणद्वारमाह सपडिक्कमणो धम्मो, पुरिमस्स इ पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं, कारणजाए पडिक्कमणं ॥ ६४२५ ॥ 30 'सप्रतिक्रमणः' उभयकोलं षड्विधावश्यककरणयुक्तो धर्मः पूर्वस्य पश्चिमस्य च जिनस्य तीर्थे भवति, तत्तीर्थसाधूनां प्रमादबहुलत्वात् शठत्वाच्च । मध्यमानां तु जिनानां तीर्थे 'कारण १°क्रान्तो गुरुसमीपे आलोच्य प्रदत्तमिथ्यादुष्कृतो यदि जायते तदा तं साधु मूल कां०॥ २ °लं नियमेन षड्वि का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy