________________
भाष्यगाथाः ६४०९-२०] षष्ठ उद्देशः ।
१६९१ दर्शन-चारित्रपदयोर्यत् केवलग्रहणं कृतं तत इदं ज्ञाप्यते-यदि 'कृत्स्नं' निःशेषमपि दर्शनं चारित्रं वा वमति ततस्तस्योपस्थापना भवति, 'देशे' देशतः पुनदर्शने चारित्रे वा वान्ते 'भजना' उपस्थापना भवेद्वा न वा ॥ ६४१५ ॥ भजनामेव भावयति
एमेव य किंचि पदं, सुयं व असुयं व अप्पदोसेणं ।।
अविकोवितो कहिंतो, चोदिय आउट्ट सुद्धो तु ॥ ६४१६ ॥ 5 'एवमेव' अविमृश्य 'किञ्चिद्' जीवादिकं सूत्रार्थविषयं वा पदं श्रुतं वाऽश्रुतं वा 'अल्पदोषेण' कदाग्रहा-ऽभिनिवेशादिदोषाभावेन 'अविकोविदः' अगीतार्थः कस्यापि पुरतोऽन्यथा कथयन् आचार्यादिना 'मा एवं वितथप्ररूपणां कार्षीः' इति नोदितः सन् यदि सम्यगावर्तते तदा स मिथ्यादुष्कृतप्रदानमात्रेणैव शुद्ध इति ॥ ६४१६ ॥ तच्च दर्शनमनाभोगेनाभोगेन वा वान्तं स्यात् , तत्रानाभोगेन वान्ते विधिमाह- 10
अणाभोएण मिच्छत्तं, सम्मत्तं पुणरागते । ___ तमेव तस्स पच्छित्तं, जं मग्गं पडिवजई ॥ ६४१७ ॥ एकः श्राद्धो निहवान् साधुवेषधारिणो दृष्ट्वा यथोक्तकारिणः साधव एते' इतिबुद्ध्या तेषां सकाशे प्रव्रजितः । स चापरैः साधुभिर्भणितः-किमेवं निवानां सकाशे प्रव्रजितः । स प्राह-नाहमेनं विशेषं ज्ञातवान् । ततः स मिथ्यादुष्कृतं कृत्वा शुद्धदर्शनिनां समीपे 15 उपसम्पन्नः । एवमनाभोगेन दर्शनं वमित्वा मिथ्यात्वं गत्वा सम्यक्त्वं पुनरागतस्य तदेव प्रायश्चित्तं यदसौ सम्यग् मार्ग प्रतिपद्यते, स एव च तस्य व्रतपर्यायः, न भूय उपस्थापना कर्तव्या ॥ ६४१७ ॥ आभोगेन वान्ते पुनरयं विधिः
आभोगेण मिच्छत्तं, सम्मत्तं पुणरागते ।
जिण-थेराण आणाए, मूलच्छेजं तु कारए ॥ ६४१८॥ यः पुनः 'आभोगेन' 'निह्नवा एते' इति जानन्नपि मिथ्यात्वं सङ्क्रान्त इति शेषः, निहवानामन्तिके प्रव्रजित इत्यर्थः, स च सम्यक्त्वमन्येन प्रज्ञापितः सन् 'पुनर्' भूयोऽपि यदि आगतस्ततस्तं 'जिन-स्थविराणां' तीर्थकर-गणभृतामाज्ञया मूलच्छेद्यं प्रायश्चित्तं कारयेत् , मूलत एवोपस्थापनां तस्य कुर्यादिति भावः ॥ ६४१८॥ एवं दर्शने देशतो वान्ते उपस्थापनामजना भाविता । सम्प्रति चारित्रे देशतो वान्ते तामेव भावयति
छण्हं जीवनिकायाणं, अणप्पज्झो तु विराहओ।
आलोइय-पडिकंतो, सुद्धो हवति संजओ ॥ ६४१९ ॥ घण्णां जीवनिकायानां "अणप्पज्झो" 'अनात्मवशः' क्षिप्तचित्तादिर्यदि विराधको भवति ततः 'आलोचित प्रतिक्रान्तः' गुरूणामालोच्य प्रदत्तमिथ्यादुष्कृतः संयतः शुद्धो भवति ॥ ६४१९ ॥
छण्हं जीवनिकायाणं, अप्पज्झो उ विराहतो।
आलोइय-पडिकतो, मूलच्छेजं तु कारए ॥ ६४२० ॥ पण्णां जीवनिकायानां "अप्पज्झो" त्ति खवशो यदि दर्पणाऽऽकुट्टिकया वा विराधको १°हणं नियुक्तिकृता कृतं का० ॥
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org