________________
१६९०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कल्प०प्रकृते सूत्रम् २०
पंचाया धम्मे, आदेसतिगं च मे सुणसु ॥ ६४०९॥ ___ सा उपस्थापना येषां भवति ते वक्तव्याः । येषु वा 'स्थानेषु' अपराधपदेषु पूर्व-चरमाणां साधूनां पञ्चयामे धर्मे स्थितानामुपस्थापना भवति तान्यपि वक्तव्यानि । तत्र येषामुपस्थापना ते तावदभिधीयन्ते, तत्रादेशत्रयम्-दश वा षड् वा चत्वारो वा उपस्थापनायामीं भवन्ति । 5 तच्चाऽऽदेशत्रिकं “मे” इति मया यथाक्रमं वक्ष्यमाणं शृणु ॥ ६४०९॥
तओ पारंचिया वुत्ता, अणवट्ठा य तिण्णि उ । दंसणम्मि य वंतम्मि, चरित्तम्मि य केवले ॥ ६४१० ॥ अदुवा चियत्तकिच्चे, जीवकाए समारभे।
सेहे दसमे वुत्ते, जस्स उवट्ठावणा भणिया ॥ ६४११ ॥ 10 ये चतुर्थोद्देशके 'त्रयः' दुष्ट-प्रमत्त-अन्योन्यंकुर्वाणाख्याः पाराश्चिका उक्ताः ३ ये च 'त्रयः' साधर्मिका-ऽन्यधार्मिकस्तैन्यकारि-हस्तातालरूपा अनवस्थाप्याः ६ येन च 'दर्शन' सम्यक्त्वं 'केवलं' सम्पूर्णमपि वान्तं ७ येन वा चारित्रं 'केवलं' सम्पूर्ण मूलगुणविराधनया वान्तम् ८॥ ६४१०॥
अथवा यः 'त्यक्तकृत्यः' परित्यक्तसकलसंयमव्यापारः आकुट्टिकया दर्पण वा 'जीवकायान्' 15 पृथिवीकायादीन् समारभते ९ यश्च 'शैक्षः' अभिनवदीक्षितः स दशमः १० उक्तः । एतद् दशकं मन्तव्यं यस्योपस्थापना प्रथम-चरमतीर्थकरैर्भणिता ॥ ६४११ ॥ द्वितीयादेशमाह
जे य पारंचिया वुत्ता, अणवट्टप्पा य जे विदू। .. दसणम्मि य वंतम्मि, चरित्तम्मि य केवले ॥ ६४१२ ॥
अदुवा चियत्तकिच्चे, जीवकाए समारभे ।
सेहे छठे वुत्ते, जस्स उवट्ठावणा भणिया ॥ ६४१३ ॥ ये च पाराञ्चिकाः सामान्यत उक्ताः १ ये च विद्वांसो अनवस्थाप्याः २ येन च दर्शनं केवलं वान्तं ३ येन वा चारित्रं केवलं वान्तम् ४ ॥ ६४१२ ॥
अथवा यस्त्यक्तकृत्यो जीवकायान् समारभते ५ यश्च शैक्षः षष्ठः ६ । एते पट्कं प्रति. पत्तव्यं यस्योपस्थापना द्वितीयादेशे भणिता ॥ ६४१३ ॥ तृतीयादेशमाह
दसणम्मि य वंतम्मि, चरित्तम्मि य केवले ।।
चियत्तकिच्चे सेहे य, उवट्टप्पा य आहिया ॥ ६४१४॥ दर्शने 'केवले' निःशेषे वान्ते यो वर्तते १ यो वा चारित्रे केवले वान्ते २ पाराश्चिका-ऽनवस्थाप्ययोः अत्रैवान्तर्भावो विवक्षितः, यश्च 'त्यक्तकृत्यैः' षट्कायविराधकः ३ यश्च
शैक्षः ४ एते चत्वारः 'उपस्थाप्याः' उपस्थापनायोग्या आख्याताः ॥ ६४१४ ॥ 30 अथ तेषां मध्ये क उपस्थापनीयः ! न वा ? इति चिन्तायामिदमाह
केवलगहणा कसिणं, जति वमती दंसणं चरित्तं वा ।
तो तस्स उवट्ठवणा, देसे वंतम्मि भयणा तु ॥ ६४१५ ॥ १°णुत ॥ ६४०९ ॥ तद्यथा-तओ का० ॥ २ 'त्यः' दर्पण पट्का का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org