________________
भाष्यगाथाः ६४०२-८]
षष्ठ उद्देशः ।
१६८९
दिताः' कालस्य स्निग्धतया शीतोष्णादीनां तथाविधदुःखहेतूनामभावात् सुखेन सम्पूर्णास्ततः 'तितिक्षा' परीषहादेरघिसहनं तेषां 'दुःखं ' दुष्करम् । तथा दान्ताः - एकान्तेनोपशान्तास्ते ततः क्वचित् प्रमादस्खलितादौ शिष्यमाणानामनुशासनाऽपि कर्तुं दुःशका ॥ ६४०४ ॥ मिच्छत्तभावियाणं, दुवियडुमतीण वामसीलाणं ।
आइक्खि विभइउं, उवणेउं वा विदुक्खं तु ॥ ६४०५ ॥ दुक्खेहि मंत्थिताणं, तणु-धितिअवलत्तओ य दुतितिक्खं । एमेव दुरसा, माणुकडओ य चरिमाणं ।। ६४०६ ॥ ये तु चरमतीर्थकर साधवस्ते प्रायेण मिथ्यात्वभाविता दुर्विदग्धमतयो वामशीलाश्च, ततस्तेषामपि वस्तुतत्त्वमाख्यातुं विभक्तमुपनेतुं वा 'दुःखं ' दुःखतरम् || ६४०५ ॥
तथा कालस्य रूक्षतया ‘दुःखैः' विविधाऽऽधि-व्याधिप्रभृतिभिः शारीर-मानसैः 'भसितानाम्' 10 अत्यन्तमुपतापितानां तनुः - शरीरं धृतिः - मानसोऽवष्टम्भः तद्विषयं यद् अबलत्वं - चला भाव - स्ततः कारणाद् दुस्तितिक्षं तेषां परीषहादिकं भवति । एवमेव मानस्य - अहङ्कारस्य उपलक्षणत्वात् क्रोधादेश्चोत्कटतया दुरनुशासं चरमाणां भवति, उत्कटकषायतया दुःखेनानुशासनां ते प्रपद्यन्त इत्यर्थः । अत एषां पूर्वेषां च पञ्चयामो धर्म इति प्रक्रमः ॥ ६४०६ ॥ एए चैव य ठाणा, सुप्पण्णुज्जुतणेण मज्झाणं ।
सुह- दुह उभयबलाण य, विमिस्सभावा भवे सुगमा ।। ६४०७ ॥ 'एतान्येव' आख्यानादीनि स्थानानि मध्यमानां 'सुगमानि' सुकराणि भवेयुरिति सम्बन्धः । कुतः ? इत्याह-- सुप्रज्ञ-ऋजुत्वेन, प्राज्ञतया ऋजुतया चेत्यर्थः, खल्पप्रयलेनैव प्रज्ञापनीयास्ते, तत आख्यान - विभजनोपनयनानि सुकराणि । " सुह-दुह" ति कालस्य स्निग्ध- रूक्षतया सुख-दुःखे उभे अपि तेषां भवतः, तथा “उभयचलाण य" चि शारीरं मानसिकं चोभयमपि 20 बलं तेषां भवति, तत एव सुख-दुःखोभयबलोपेतानां परीषहादिकं सुतितिक्षं भवति । “विमिसभाव" त्ति नैकान्तेनोपशान्ता न वा उत्कटकषायास्ते, ततो विमिश्रभावादनुशासनमपि सुकरमेव तेषां भवति, अतश्चतुर्यामस्तेषां धर्म इति ॥ ६४०७ ॥
गतं व्रतद्वारम् । अथ ज्येष्ठद्वारमाह
१ भच्छियाणं ताभा० ॥
पुव्वतरं सामइयं, जस्स कयं जो वतेसु वा ठविओ ।
एस कितिकम्मट्ठो, ण जाति-सुततो दुपक्खे वी ॥ ६४०८ ॥
यस्य सामायिकं 'पूर्वतरं' प्रथमतरं 'कृतम्' आरोपितम् यो वा 'व्रतेषु' महात्रतेषु प्रथमं स्थापितः स एष कृतिकर्मज्येष्ठो भण्यते, न पुनः 'द्विपक्षेऽपि संयतपक्षे संयतीपक्षे च जातितः- बृहत्तरं जन्मपर्यायमङ्गीकृत्य श्रुततः प्रभूतं श्रुतमाश्रित्य ज्येष्ठ इहाधिक्रियते । इह च मध्यमसाधूनां यस्य सामायिकं पूर्वतरं स्थापितं स ज्येष्ठः, पूर्व-पश्चिमानां तु यस्य प्रथममुपस्थापना 30 कृता स ज्येष्ठ इति ॥ ६४०८ ॥ अथोपस्थापनामेव निरूपयितुमाह
सा जेसि उबवणा, जेहि य ठाणेहिं पुरिम चरिमाणं ।
Jain Education International
For Private & Personal Use Only
5
――――
15
25
www.jainelibrary.org