________________
१६८८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कल्प०प्रकृते सूत्रम् २०
'अपि च' इति कारणान्तराभ्युच्चये । पुरुषैः-तीर्थकर-गणधरलक्षणैः प्रणीतः पुरुषप्रणीतो धर्मः । पुरुष एव च तं धर्म 'रक्षितुं' प्रत्यनीकादिनोपद्रूयमाणं पालयितुं शक्तः । लोकविरुद्धं च 'एतत्' पुरुषेण स्त्रिया वन्दनम् । तस्मात् श्रमणानां ताभिः कर्तव्यम् ॥ ६४०१ ॥ गतं कृतिकर्मद्वारम् । अथ व्रतद्वारमाह
पंचायामो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स ।
__मज्झिमगाण जिणाणं, चाउजामो भवे धम्मो ॥ ६४०२॥ पञ्च यामाः-व्रतानि यत्र स पञ्चयामः, "दीर्घ-हूखी मिथो वृत्तौ” (सिद्ध० ८-१-४) इति प्राकृतलक्षणवशात् चैकारस्य दीर्घत्वम् । एवंविधो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां पुनश्चतुर्यामो धर्मो भवति, मैथुनव्रतस्य परिग्रहव्रत एवान्तर्भाव10 विवक्षणात् ॥ ६४०२॥ कुत एवम् ? इति चेद् उच्यते
पुरिमाण दुव्विसोझो, चरिमाणं दुरणुपालओ कप्पो ।
मज्झिमगाण जिणाणं, सुविसोझो सुरणुपालो य ॥ ६४०३ ॥ पूर्वेषां साधूनां दुर्विशोध्यः कल्पः, 'चरमाणां' पश्चिमानां दुरनुपाल्यः, मध्यमकानां तु जिनानां तीथे साधूनां सुविशोध्यः सुखानुपाल्यश्च भवति । इयमत्र भावना-पूर्वे साधव 15 ऋजु-जडाः, ततः परिग्रहव्रत एवान्तीवं विवक्षित्वा यदि मैथुनव्रतं साक्षान्नोपदिश्यते ततस्ते
जडतया नेदमवबुध्यन्ते, यथा-मैथुनमपि परिहर्तव्यम् ; यदा तु पृथक् परिस्फुटं मैथुनं प्रतिषिध्यते ततः सुखेनैव पर्यवस्यन्ति परिहरन्ति च । पश्चिमास्तु वक्र-जडाः, ततो मैथुने साक्षादप्रतिषिद्धे परिग्रहान्तस्तदन्तर्भावं जानन्तोऽपि वक्रतया परपरिगृहीतायाः स्त्रियाः प्रतिसेवनां
कुर्वीरन् , पृष्टाश्च ब्रवीरन्-नैषाऽस्माकं परिग्रह इति । तत एतेषां पूर्व-पश्चिमानां पञ्चयामो 20 धर्मो भगवता ऋषभखामिना वर्द्धमानस्वामिना च स्थापितः । ये तु मध्यमाः साधवस्ते ऋजु-प्राज्ञाः, ततः परिग्रहे प्रतिषिद्धे प्राज्ञत्वेनोपदेशमात्रादपि अशेषहेयोपादेयविशेषाभ्यूहनपटीयस्तया चिन्तयेयुः-नापरिगृहीता स्त्री परिभुज्यते अतो मैथुनमपि न वर्तते सेवितुम् ; एवं मैथुनं परिग्रहेऽन्तर्भाव्य तथैव परिहरन्ति ततस्तेषां चतुर्यामो धर्मो मध्यमजिनैरुक्त इति ॥ ६४०३ ॥ अमुमेवार्थ समर्थयन्नाह
जड्डत्तणेण हंदि, आइक्ख-विभाग-उवणता दुक्खं ।
सुहसमुदिय दंताण व, तितिक्ख अणुसासणा दुक्खं ॥ ६४०४ ॥ सर्वेषां (पूर्वेषां) साधूनां जडतया 'हन्दि' इत्युपप्रदर्शने वस्तुतत्त्वस्याख्यानं 'दुःखं' कृच्छ्रेण, महता वचनाटोप (ग्र० ९०००) प्रयासेन कर्तुं शक्यमित्यर्थः । एवमाख्यातेऽपि वस्तुतत्त्वे विभागः-पार्थक्येन व्यवस्थापनं महता कष्टेन कर्तुं शक्यते । विभक्तेऽपि वस्तुतत्त्वे 30 उपनयः-हेतु-दृष्टान्तः प्रतीतावारोपणं कर्तुं दुःशकम् । ते च प्रथमतीर्थकरसाधवः 'सुखसमु
१'श्रमणानां' साधूनां संयतीभिः कृतिकर्म कर्त्त कां० ॥ २ चकाराकारस्य का० ॥ ३ सुहणु तामा० ॥ ४ 'पूर्वेषां' प्रथमतीर्थकरसम्बन्धिनां साधूनां दुर्विशोधः कल्पः, 'चरमाणां' चरमतीर्थकरसाधूनां दुरनुपालो भवति । मध्य° कां ॥
25
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org