SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६३९०-६४०१] षष्ठ उद्देशः । १६८७ व्याघ्रा म्लेच्छादयो वा नरास्तत्र साधु घातयेयुः ॥ ६३९५ ॥ अथ कीदृशे कार्ये कल्पते ? कया वा यतनया ? इति द्वारद्वयमाह दुविहे गेलण्णम्मी, णिमंतणे दव्वदुल्लभे असिवे । ओमोयरिय पदोसे, भए य गहणं अणुण्णायं ॥ ६३९६ ॥ तिक्खुत्तो सक्खित्ते, चउद्दिसि मग्गितण कडजोगी। दव्वस्स य दुल्लभया, जयणाए कप्पई ताहे ॥ ६३९७ ॥ . गाथाद्वयं शय्यातरपिण्डवद् द्रष्टव्यम् (गा० ६३७९-८०)। नवरम् आगाढे ग्लानत्वे क्षिप्रमेव राजपिण्डं गृह्णाति । अनागाढे तु त्रिकृत्वो मार्गयित्वा यदा न लभ्यते तदा पञ्चकपरिहाण्या चतुर्गुरुकप्राप्तो गृह्णाति । 'निमन्त्रणे तु' राज्ञा निर्वन्धेन निमन्त्रितो भणति-यदि भूयो न भणसि ततो गृह्णीमो वयम् नान्यथा । अवमेऽशिवे चान्यत्रालभ्यमाने राजकुलं वा 10 नाशिवेन गृहीतं ततस्तत्र गृह्णाति । राजद्विष्टे तु अपरस्मिन् राज्ञि कुमारे वा प्रद्विष्टे बोधिकम्लेच्छभये वा राज्ञो गृहादनिर्गच्छन् गृह्णीयात् ॥ ६३९६ ॥ ६३९७ ॥ गतं राजपिण्डद्वारम् । अथ कृतिकर्मद्वारमाह कितिकम्मं पि य दुविहं, अब्भुट्ठाणं तहेव वंदणगं । समणेहि य समणीहि य, जहारिहं होति कायव्वं ॥ ६३९८ ॥ 15 __ कृतिकर्मापि च द्विविधम्-अभ्युत्थानं तथैव वन्दनकम् । एतच द्विविधमपि तृतीयोद्देशके सविस्तरं व्याख्यातम् । उभयमपि च श्रमणैः श्रमणीभिश्च 'यथार्ह' यथारत्नाधिकं परस्परं कर्तव्यम् ॥ ६३९८ ॥ तथा श्रमणीनामयं विशेषः सव्वाहिँ संजतीहिं, कितिकम्मं संजताण कायव्वं । पुरिसुत्तरितो धम्मो, सव्वजिणाणं पि तित्थम्मि ॥ ६३९९ ॥ 20 सैर्वाभिरपि संयतीभिश्चिरप्रव्रजिताभिरपि संयतानां तदिनदीक्षितादीनामपि कृतिकर्म कर्तव्यम् । कुतः ? इत्याह-'सर्वजिनानामपि' सर्वेषामपि तीर्थकृतां तीर्थे पुरुषोत्तरो धर्म इति ॥ ६३९९ ॥ तुच्छत्तणेण गव्वो, जायति ण य संकते परिभवेणं । अण्णो वि होज दोसो, थियासु माहुजहजासु ॥ ६४००॥ 26 स्त्रियाः साधुना वन्द्यमानायास्तुच्छत्वेन गर्वो जायते । गर्विता च साधुं परिभवबुद्ध्या पश्यति । ततः परिभवेन 'न च' नैव साधोः 'शङ्कते' बिभेति । अन्योऽपि दोषः स्त्रीषु 'माधुर्यहार्यासु' मार्दवग्राह्यासु वन्द्यमानासु भवति, भावसम्बन्ध इत्यर्थः ॥ ६४०० ॥ अवि य हु पुरिसपणीतो, धम्मो पुरिसो य रक्खिळ सत्तो। लोगविरुद्धं चेयं, तम्हा समणाण कायव्वं ॥ ६४०१॥ 30 १युः। यत एवं ततो न ग्रहीतव्यो राजपिण्डः ॥ ६३९५ ॥ कां०॥ २'सर्वाभिरपि' प्रथम-पश्चिम-मध्यमतीर्थकरसम्बन्धिनीभिः संयतीभि कां० ॥ ३ 'कृतिकर्म' वन्दनका-5. भ्युत्थानलक्षणं द्विविधमपि कर्त्त का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy