SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 10 भाष्यगाथाः ६३८०-८९] षष्ठ उद्देशः। १६८५ कम्बलं ७ 'पादप्रोच्छनक' रजोहरणं ८ एषोऽष्टविधो राजपिण्डः ॥ ६३८४ ॥ अथ 'के तस्य दोषाः ?' इति द्वारमाह अट्ठविह रायपिंडे, अण्णतरागं तु जो पडिग्गाहे । सो आणा अणवत्थं, मिच्छत्त विराहणं पावे ॥ ६३८५ ॥ अष्टविधे राजपिण्डे 'अन्यतरत्' अशनादिकं यः प्रतिगृह्णाति स साधुराज्ञाभगमनवस्था । मिथ्यात्वं विराधनां च प्राप्नुयात् ॥ ६३८५ ॥ एते चापरे दोषाः ईसर-तलवर-माडंबिएहि सिट्ठीहिँ सत्थवाहेहिं । [उ.नि. ३१५] जिंतेहिं अतितेहि य, वाघातो होति भिक्खुस्स ॥ ६३८६ ॥ ईश्वर-तलवर-माडम्बिकैः श्रेष्ठिभिः सार्थवाहैश्च निर्गच्छद्भिः 'अतियद्भिश्च' प्रविशद्भिभिक्षोभिक्षार्थ प्रविष्टस्य व्याघातो भवति ॥ ६३८६ ॥ एतदेव व्याचष्टे .. ईसर भोइयमाई, तलवरपट्टेण तलवरो होति । [जी. २००२] - वेट्टणवद्धो सेट्ठी, पचंतऽहिवो उ माडंबी ॥ ६३८७॥ ईश्वरः 'भोगिकादिः' ग्रामखामिप्रभृतिक उच्यते । यस्तु परितुष्टनृपतिप्रदत्वेन सौवर्णेन तलवरपट्टेनाङ्कितशिराः स तलवरो भवति । श्रीदेवताध्यासितः पट्टो वेष्टनकमुच्यते, तद् यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः श्रेष्ठी । यस्तु 'प्रत्यन्ताधिपः' छिन्नमडम्बनायकः स माडम्बिकः । 15 सार्थवाहः प्रतीत इति कृत्वा न व्याख्यातः ॥ ६३८७ ॥' जा णिति इंति तो अच्छओ अ सुत्तादि-भिक्खहाणी य । इरिया अमंगलं ति य, पेल्लाऽऽहणणा इयरहा वा ॥ ६३८८ ॥ एते ईश्वरादयो यावद् निर्गच्छन्ति प्रविशन्ति च तावद् असौ साधुः प्रतीक्षमाण आस्ते, तत एवमासीनस्य सूत्रार्थयोर्भेक्षस्य च परिहाणिर्भवति । अश्व-हस्त्यांदिसम्मर्दैन चेयों 20 शोधयितुं न शक्नोति । अथ शोधयति ततस्तैरभिघातो भवति । कोऽपि निर्गच्छन् प्रविशन् वा तं साधुं विलोक्यामङ्गलमिति मन्यमानस्तेनैवाश्व-हस्त्यादिना प्रेरणं कशादिना वाऽऽहननं कुर्यात् । "इतरहा व" ति यद्यपि कोऽप्यमङ्गलं न मन्यते तथापि जनसम्म प्रेरणमाहननं वा यथाभावेन भवेत् ॥ ६३८८ ॥ किञ्च लोमे एसणघाते, संका तेणे नपुंस इत्थी य । इच्छंतमणिच्छंते, चाउम्मासा भवे गुरुगा ॥ ६३८९ ॥ राजभवनप्रविष्टः 'लोभे' उत्कृष्टद्रव्यलोभवशत एषणाघातं कुर्यात् । 'स्तेनोऽयम्' इत्यादिका च शङ्का राजपुरुषाणां भवेत् । नपुंसकः स्त्रियो वा तत्र निरुद्धेन्द्रियाः साधुमुपसर्गयेयुः । तत्र चेच्छतोऽनिच्छतश्च संयमविराधनादयो बहवो दोषाः । राजभवनं च प्रविशतः शुद्धशुद्धेनाऽपि चत्वारो मासा गुरुकाः प्रायश्चित्तम् ॥ ६३८९ ।। एनामेव गाथां व्याख्यानयति- 30 अन्नत्थ एरिसं दुल्लभं ति गेण्हेजऽणेसणिजं पि। १ अथ तैर्यथा व्याघातो भवति तथा दर्शयति इत्यवतरणं का० ॥ २ तावऽच्छए उ सुत्ता तामा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy